भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 162, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 162

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७५ भेदानामभावात् । प्रकृते तु माहात्म्यज्ञानार्थं तदुपयोगः । तस्य च ज्ञानोपयोगो भाष्यप्रकाशः । यथावाप वै सोमेनेजानादित्यत्राष्टाक्षरा गायत्रीत्याग्नेयपुरोडाशीयेऽष्टाकपालत्वरूपे प्रकारे । यथाच, 'वायव्यं क्षेपिष्ठेत्यादीनां भूत्यादिरूपे फले । न तथा ब्रह्मणि । नित्यत्वात् सदैकरसत्वात् स्वस्यैव फलत्वाच्च । अस्ति तु माहात्म्यज्ञानार्थमुपयोगः । माहात्म्यं च सदेव ज्ञातं फलाय, न त्वसत् । असत्त्वे तदधिष्ठानस्यासमर्थतायां ततः फलाभावप्रसङ्गात् । तदाहुः तस्य चेत्यादि । माहा- त्म्यज्ञानेन भक्तिद्वारा साक्षात्कारोपयोग इति फलाध्याये प्रथमपादे, 'आदित्यादिमतयः' इतिसूत्रे वक्ष्यत इत्यर्थः । नन्वस्तु ब्रह्मणि माहात्म्यज्ञानार्थं सृष्ट्यादिवाक्योपयोगस्तथापि तेषां विध्युप- योगोऽवश्यं वक्तव्यः । नोचेदुपासनादिविधीनां प्ररोचनाभावेन व्यापारकौण्ठ्ये वाक्यवैयर्थ्यापत्तेः । एवं सिद्धे तेषां विधिशेषत्वे तेषु निरूप्यमाणं ब्रह्मापि तच्छेषमेवेत्युत्तरकाण्डस्य न तत्प्रतिपादकत्वम् । रश्मिः । विरुद्धम् । यथावापेति । एवं श्रूयते 'आग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालमग्निमुद्वास- यिष्यन्द्यदष्टाकपालो भवति अष्टाक्षरा गायत्री' इति । अन्यत्र च 'आप वै सोमेनेजानाद् देवताश्च यज्ञञ्च क्रामन्त्याग्नेयं पञ्चकपालमुदवसानीयं निर्वपेत् अग्निः सर्वा देवताः' इति, तथापि अप वा इत्याद्यष्टाक्षरेषु गायत्रीत्वकल्पना । यथा यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति इत्यत्र अष्टत्वादिसंख्यासामान्यात्पुरोडाशानां गायत्रीत्वकल्पना । प्रथमस्य चतुर्थे 'पूर्ववन्तोऽवि- धानार्थास्तत्सामर्थ्यं समाम्नायः' इत्यधिकरणेऽस्ति यतोऽष्टाक्षराण्यतोऽष्टाक्षरा गायत्री अतोऽष्टा- कपालमिति संख्यातात्पर्यकथनेनोपयोग इत्यर्थः । यथा च वायुरित्यादि । प्रथमस्य द्वितीयपादे 'आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते' इत्यधिकरणे 'वायुर्वै क्षेपिष्ठा' इत्यस्य 'वायव्यं श्वेतमालभेत भूतिकामः' इत्युपयोग इति चिन्तितम् । अत्र प्रथमोर्थवादो निन्दारूपेण विधि- शेषभूतः प्राशस्त्येन वा विधिशेषभूतः । द्वौ प्राशस्त्येनैव विधिशेषभूतौ तथा नार्थवादलक्षणं 'प्राशस्त्य- निन्दान्यतररूपेण विधिशेषभूतं वाक्यमर्थवादः' इति मीमांसाप्रदीपे । न तथा ब्रह्मणिति । त्रेधा तेषामुपयोग इत्यन्वयः । अत्र हेतुनाहुर्नित्यत्वादिति । प्रथमज्ञप्तिष्वपि सत्यमित्यादिवा- क्येनोत्पत्तिवाक्यत्वम् । प्रथमज्ञप्तेः साध्यविषयिण्या विवक्षितत्वात् उत्पत्तिपदस्वारस्यात् । अत उक्तं नित्यत्वादिति । सदैकरसत्वात्स्वकाराभावः, स्वस्यैव फलत्वाच्च फलान्तराभावः । अतो न धर्म इव उपयोग इत्यर्थः । तदानीं कयमुपयोगो ब्रह्मणि इत्यपेक्षायां प्रकृते त्वित्यादि भाष्यं विवृण्वन्ति अस्ति त्विति । तत्त्वमस्यादिवाक्योक्तमैक्यमपि माहात्म्यमिति न पृथगुक्तम् । तस्य चेत्यादि भाष्यमवतारयन्ति माहात्म्यं चेति । असमर्थतायामिति निर्गुणत्वेन फलदातृत्वरूपगुणस्या- प्याभावेनास‌मर्थतायामित्यर्थः । तत इति फलदातृत्वशून्यादित्यर्थः । भक्तिद्वारेति इदं च तत्रै- वोपपादयिष्यते । प्ररोचनाभावेनेति अर्थवादाभावेन । यः स्तूयते स विधीयते इति नियमप्रवृ- त्त्यभावाद्धिधिरूपव्यापारस्य छान्दसत्वेनान्यनिष्ठत्वरूपे कौण्ठ्ये इत्यर्थः । वाक्येत्यादि उपासनादि- विधिशेषवाक्यस्य निष्फलत्वरूपवैयर्थ्यापत्तेरित्यर्थः । तच्छेषमिति उपासनाविधिशेषमित्यर्थः । नेति ब्रह्मणं उपासनायाः सकाशात्मुख्यत्वेऽनधिगतार्थगन्तृत्वाभावेनाप्रामाण्यापत्त्या नेत्यर्थः । 75

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 162, कुल 2600 में से · BharatKosha