अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1660, कुल 2600 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ की पंक्ति-दर-पंक्ति देवनागरी लिपि में Markdown प्रस्तुति है:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५ तत्र प्रथमे पादे जीवस्य ब्रह्मज्ञानौपयिकं जन्म विचार्यते । तत्र पूर्वजन्मनि निष्कामयज्ञकर्तुर्ज्ञानरहितस्य मरणे ज्ञानाभावेन यज्ञाभिव्यक्त्यभावाद् भूतसं- स्कारक एव यज्ञो जात इति, निष्कामकत्वाच्च तदधिकारिदेवाधीनान्येव भूतानीति, भाष्यप्रकाशः । एवं सर्वं निगमयित्वा प्रथमपादं व्याख्यातुं तदर्थमनुवदन्ति तत्रेत्यादि । तेष्वर्थेषु जीवस्य ब्रह्मज्ञानौपयिकं जन्म विचार्यते । गीतायां 'अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना' इति भगवता ब्रह्मविद एवार्चिरादिमार्गेण ब्रह्मगतेरुक्तत्वात् तदनुसारेण व्युत्पाद्यत इत्यर्थः । तच्च छान्दोग्ये पञ्चाग्निविद्यायां सिद्धमिति प्रथमं तत्तात्पर्यमाहुः तत्र पूर्वेत्यादि । सा च सप्तमे प्रपाठके गौतमप्रवाहणसंवादे 'यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती'ति प्रश्नप्रतिवचनभूतैः 'असौ वा व लोको गौतमाग्नि'रित्यादिभिरुक्ता । 'असौ वा व लोको गौतमाग्निस्तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गास्तस्मिन्ने- तस्मिन्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवती'ति । द्वितीये वाक्ये पर्जन्यग्न्याश्व- भ्रविद्युदशनिह्रादनयो विस्फुलिङ्गान्ताः, सोमो राजा होम्यः, वर्ष फलम् । तृतीये पृथिवीसंवत्सरा- काशरात्रीदिगवान्तरदिशो विस्फुलिङ्गान्ताः, वर्षं होम्यम्, अन्नं फलम् । चतुर्थे पुरुषवाक्प्राणजिह्वा- चक्षुःश्रोत्राणि विस्फुलिङ्गान्ताः, अन्नं होम्यम्, रेतः फलम् । पञ्चमे योषोपस्थोपमन्त्रणयोनितदन्तः- कृत्यभिनन्दाः विस्फुलिङ्गान्ताः, रेतो होम्यम्, गर्भः फलम् । तदग्रे 'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते, स जातो यावदायुषं जीवति, तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति, यत एवेतो यतः सम्भूतो भवती'त्यन्तम् । अर्थस्तु, हे गौतम, असौ वा व द्युलोक एव अग्निः, यथेहाग्निहोत्राधिकरणमाह- वनीयः । तस्याग्नेर्धुलोकाख्यस्य आदित्य एव समित् । तेन हीद्धो द्युलोको दीप्यते, अतः समिन्ध- नात् समित् । रश्मयो धूमस्तदुत्थितत्वात् । समिद्धे अग्नौ हि धूम उत्तिष्ठति । अहरर्चिः । प्रकाश- सामान्याढादित्यकार्यत्वाच्च । चन्द्रमा अङ्गाराः । अहःप्रशमेऽभिव्यक्तेः । अर्चिषः प्रशमे ह्यङ्गारा अभिव्यज्यन्त इति । नक्षत्राणि विस्फुलिङ्गाः विप्रकीर्णत्वसामान्याच्चन्द्रमसोऽवयवा इव । तस्मिन्ने- तस्मिन् यथोक्तलक्षणेऽग्नौ देवा लोकपालाः कर्मसचिवाः श्रद्धां जुह्वति । 'श्रद्धा वा आप' इति श्रुत्यन्तरात् 'आपः पुरुषवचसो भवन्ती'ति प्रश्नवाक्यादग्रे तथैव निगमनाच्च श्रद्धाशब्देनाप रश्मिः । त्त्वभावादेर्विचारः । जन्मेति । सर्वेषु साधनेषु सन्दिग्धं जन्मेत्यर्थः । तेन ब्राह्मदेहादिविचारं त्यक्त्वाऽपां पुरुषवचस्त्वविचार उपपत्तिरुक्ता । तदिति । जन्म । प्रथममिति । सन्दिग्धत्वादिति भावः । तात्पर्यमिति । वाच्यार्थस्तु श्रुतिवाच्यः । तत्र पूर्वेत्यादीति । तत्र जन्मविचारे पूर्वेत्याद्यर्द्धेनोक्तोक्षा- भावेन जन्म विचार्यते । सेति । विद्या । 'अदसस्तु विप्रकृष्टं' रूपमित्याहुः द्युलोक इति । श्रुतित्वादेवकारः । आहवनीये जुहोति । एवेति । पूर्ववत् । समिदिति । 'ञिन्धी दीप्तौ' सम्पूर्वः क्विबन्तः । अभिरत्र ब्रह्म तच्चाधोक्षजः । 'नक्षत्राणामुदयो यत' इति श्रुतेः । तस्याग्नेरप्रत्य- क्षत्वादित्यं विना कः प्रत्यक्षं संपादयेत् । 'यच्चन्द्रमसि यच्चाग्नौ तन्तेजो विद्धि मामक'मिति वाक्यात् । लोकपाला इत्यादि । लोकपाला अग्न्यादयस्तृतीयस्य षष्ठेऽध्याये सन्ति । ते कर्मप्रधानाः। 'तदुपर्यपी'ति सूत्रे उक्ताः । जुह्वतीति । ददति अदन्ति च । यागानामनेकविधत्वात् । अग्र इति । 'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती'ति श्रुतौ । तथैवेति । इति स्त्वित्यस्य हेत्वर्थकस्य 1541