अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1661, कुल 2600 में से
संदर्भ में पढ़ें४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० १ अ० १ सू० १. ते देवास्तत्र तन्न हुत्वा तस्य शरीरं सम्पादयन्तीति 'पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती'ति श्रुतिः । भाष्यप्रकाशः। उच्यन्ते । ता जुह्वति । तस्या आहुतेः सोमो राजा सम्भवति । श्रद्धाशब्दवाच्यानां द्युलोकाग्नौ हुतानामपां परिणामः सोमो राजा सम्भवति । एवं हुतास्ता आपो द्युलोकस्थं चन्द्रमनुप्रविश्यापूर्य- माणपक्षे पञ्चदशकलाभिः पोषणात् तमारभन्ते । एवमग्रेऽपि । वृष्ट्युपकरणमेघाभिमानिदेवता- विशेषः पर्जन्यः । तस्मिन्नग्नौ हुतः सोमो राजा वर्षरूपेण परिणमते । तच्च वर्षं पृथिव्यग्नौ हुतमन्न- रूपेण परिणमते । अन्नं च पुरुषाग्नौ हुतं रेतोरूपेण परिणमते । रेतश्च योषाम्नौ हुतं गर्भरूपेण परिणमते । तदाह 'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती'ति । वैराग्यार्थमाह 'स उल्बा- वृतो गर्भ' इत्यादि । 'तं प्रेतं दिष्टमितोऽग्नय एव हरन्ती'ति । तं पूर्वोक्तं प्रेतं मृतं दिष्टं निर्दिष्टमितो मरणस्थानाद् अग्नये एवाग्भ्यर्थमेव हरन्ति पुत्रा ऋत्विजो वा नयन्ति । यतोऽग्नेः सकाशादेव इत आगतः श्रद्धादिक्रमेण, यतश्च पञ्चभ्यो भूतेभ्यः सम्भूत उत्पन्नो भवतीत्येवं सामान्यतो बोध्यः । अतः परं तात्पर्यमुच्यते । गीतायां यज्ञः सात्त्विकादिभेदेन त्रिविध उक्तः । तत्र 'अफला- काङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विक' इत्येतल्लक्षणकं निष्कामयज्ञं यः पूर्वजन्मनि कृतवान्, उपनिषदर्थनिश्चयाभावेन ज्ञानरहितश्चासीत्, तस्य पूर्वजन्मनि निष्कामयज्ञकर्तुर्ज्ञानरहितस्य मरणे ज्ञानाभावेन यज्ञाभिव्यक्त्यभावान्न मोक्षः, कामनाभावाच्च न स्वर्लोको मुख्यतया फलम् । तथा सति साङ्गाङ्गिककर्मणः फलावश्यंभावनियमात् फले जननीये तत्र किं फलमित्याकाङ्क्षायां 'यज्ञो दानं तपश्चैव पावनानि मनीषिणा' मिति गीतावाक्यात् तादृशयज्ञस्य पावनमेव फलमिति भूतसंस्कारक एव यज्ञो जात इत्येको हेतुः । रश्मिः । निगमनघटकत्वादेवकारभिन्नानुपूर्वीव्यवच्छेदकः । 'अपां पुष्पं यो वेदे'ति श्रुतेश्चन्द्रविषयायाश्चन्द्रपुष्पत्व- प्रकारमाहुः श्रद्धाशब्देति । आरभन्त इति । षोडशी तु न संभवति कर्त्री। ध्रुवत्वात् । आपूर्यंति । शुक्लपक्षे । आपूर्यते चन्द्र इत्यापूर्यमाणस्य पक्षे । तदेवाहुः वृष्टीत्यादिना । वृष्टेरुपकरणं मेघाभिमानिनी देवता तद्विशेषः । 'पर्जन्यो भगवानिन्द्र' इत्यत्र सिध्यति नन्दवाक्ये । स उल्बावृतो गर्भ इत्यादीति । 'दशमासा' नित्यत्रात्यन्तसंयोगे द्वितीया । पूर्वोक्तमिति । 'तत्र प्रयाता गच्छन्ती'त्यत्र प्रयातपदेनोक्तम् । निर्दिष्टमिति । परलोकं प्रति कर्मणा निर्दिष्टम् । अग्नेः सकाशादिति । अन्यथा जगत्कर्तृत्वमग्नेर्भज्येत । इत्येवेति । श्रौतत्त्वादेवकारः । सामान्यत इति । तात्पर्यरूपविशेषार्थं विनाभिधामात्रतः श्रुत्यर्थो बोध्य इत्यन्वयः । भाष्यं विवरीतुमाहुः अतः परमिति । तत्र प्रथम इत्यादिभाष्यविचारात्परम् । अभिधाया वा परम् । विवृण्वन्ति स्म तत्रेत्यादिना । मुख्यतयेति । ज्ञानराहित्येन 'विदुषः कर्मसिद्धिः स्यात्तथा नाविदुषो भवे'दिति वाक्यान्न मुख्यतया । किं मुख्यतया फलातिरिक्तं फलमिति चेत् । न । शारीरब्राह्मणे 'अथाकामयमानो योऽकामो निष्काम आत्मकाम आप्तकामो भवति, न तस्मात् प्राणा उत्क्राम- न्त्यत्रैव समवनीयन्ते ब्रह्मैव सन् ब्रह्माप्येती'ति श्रुत्युक्तं ज्ञेयमिति । भूतेत्यादिभाष्यं विवरीतुमाहुः तथा सतीत्यादि । विवृण्वन्ति स्म यज्ञो दानमिति । चैवेति । तेनान्येषामप्यन्तर्भाव इति भावः । यथा 'पूयेतैलद्धिरेणुभि'रिति वाक्याद्धिरेणूनाम् । तादृशेति । पावनजनकयज्ञस्य । एवकारेण मोक्षस्वर्लोकौ व्यवच्छिद्येते । एवेति । स्वर्लोकव्यवच्छेदक एवेति । भाष्ये इतिशब्दस्य हेतुवाचकत्त्वाद्राहुः एको हेतुरिति । श्रद्धादिहोमे हेतुः । १. एवेति रश्मिपाठः । 1542