भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1665, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1665

१० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० १ अ० १ सू० १. 'तद् य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते, तेऽर्चिषमभिसम्भवन्ती'ति तज्ज्ञानवतोपि यन्नार्चिःप्राप्तिः, तत्र तथा देवहूतानां कथं सा न स्यात् । ज्ञानार्थ- मेव तथोत्पत्तेः । पुनरावृत्तिः परं तुल्या । अथवा । निष्काम एव धूममार्गः । 'योगी प्राप्य निवर्तत' इति स्मरणात् । भोगार्थमेव धूमादिलोकाः । निष्पत्तिस्तु पञ्चाग्नावेव । अग्ने प्रविष्टानामन्येषामपि रेतोद्वारा योनित उत्पत्तिरिति कपूयचरणवर्णनम् । भाष्यप्रकाशः। निष्पादितशरीराणाम्, 'तद्य इत्थं विदु'रिति विद्यावतामेव कथनात्, अतस्तावत्तैवोपजीव्यत्वम्, न तु होमद्वारकमित्यत आहुः तद्य इत्यादि । तथाच साधकोपपत्तेः प्रागुक्तत्वाद् बाधकस्याभावाच्च कैमुतिकेनैव

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1665, कुल 2600 में से · BharatKosha