अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1666, कुल 2600 में से
संदर्भ में पढ़ें'एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्त' इति कामनायां भिन्न एव प्रकारः । पृथगुपदेशात् । भाष्यप्रकाशः। गतिप्रतिबन्धकप्रारब्धभोगार्थमेव धूमादिलोकाः । 'तद्य इह रमणीयचरणा' इत्यादिनोक्ता उत्तम- देहनिष्पत्तिस्तु पञ्चाग्नावेव । तथा सति निष्कामतया इष्टापूर्ताद्युपासने धूममार्गेणेहागतस्य 'न हि कल्याणकृत् कश्चि'दित्यादिना गीतायामुक्ताभ्यासायात् पुनरर्चिरादिमार्गेण ब्रह्मगतिः। सापि 'एतद्धि दुर्लभतर'मिति वाक्यादुत्तमाधिकार एवेति धूममार्गे एवाहुतीनामङ्गीकारेपि निष्प्रत्यूहा ज्ञानयोग्य- देहनिष्पत्तिः । नच कपूयचरणावस्थानिरूपणविरोधः । स्वीयदुष्कर्मादिना अन्ने प्रविष्टानामन्येषां दुष्कर्मिणां जीवानापि मैथुनादुत्पत्तिबोधनार्थं प्रासङ्गिकं तद्वर्णनम् । अतो धूममार्गेपि विलम्बा- धिक्येन प्रकारभेदाद् योग्यदेहनिष्पादकत्वम्, अतस्तत्रैवाहुत्यङ्गीकारपक्षेपि प्रकृतसिद्धिरित्यर्थः । ननु बृहदारण्यके यज्ञादिना लोकजेषणां धूममार्गकथनात् सकाम एव धूममार्गोऽस्त्वित्यत आहुः एवं त्रयीत्यादि । पृथगुपदेशादिति । बृहदारण्यके भिन्नप्रकारेण 'एवमेवानु परिवर्तन्ते' इति गीतोक्तप्रकारेण निगमनात् । तथाच प्रकारभेदात्तस्य नैतद्बाधकत्वमित्यर्थः । रश्मिः। भोगार्थमित्यादिभाष्यं विवृण्वन्ति स्म ब्रह्मगतीति । एवेति । श्रुतेरेवकारः । धूमादीति । 'धूमम- भिसंभवन्ती'त्यादिश्रुत्युक्ताः । निष्पत्तिरित्यादिभाष्यं विवृण्वन्ति स्म तद्य इहेति । रमणीयाचरणाः । एवेति । श्रुतेरेवकारः । उक्तादिति । कल्याणकृतो दुर्गत्यभावरूपान्न्यायात् । एवेति । हीनमध्यमा- धिकारव्यवच्छेदकः । एवेति । अर्चिरादिमार्गव्यवच्छेदक एवकारः । अन्न इत्यादिभाष्यं विवरीतुमाहुः नचेति । स्वीयेति । आदिना शापः । नृगस्य कृकलासता । नारदशापाद्यमलार्जुनता नलकूबरमणि- ग्रीवयोः । अन्ने प्रेति । 'अन्नात्पुरुष' इतिश्रुतेः । अन्ने सतां तत उत्पत्तिः । रेतोद्वारेति । 'पुंसो रेतःकणाश्रय' इति वाक्यात् । योनित इति । 'योनेः शरीर'मिति वक्ष्यमाणसूत्रात् । तद्वर्ण- नमिति । 'अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा शूकरयोनिं वा चण्डालयोनिं वे'ति कपूयाचरणानां वर्णनम् । अभ्याशो हेति क्षिप्रार्थः । तत्रैवेति । एवकारोर्चि- रादिमार्गव्यवच्छेदकः । बृहदारण्यक इति । सप्तान्नब्राह्मणे श्वेतकेतुब्राह्मणे च । 'त एते सर्व एव समाः सर्वेऽनन्ताः स यो हैतानन्तवत उपास्तेऽन्तवन्तं स लोकं जयत्यथ यो हैताननन्तानुपास्तेऽनन्तं स लोकं जयती'ति यज्ञादिना लोकजेषणाम् । आदिनोपासना । श्वेतकेतुब्राह्मणे तु 'अथ ये यज्ञेन दानेन तपसा लोकं जयन्ति ते धूममभिसम्भवन्ति धूमाद्रात्रि'मिति । धूमेति । तत्र बृहदारण्यकेऽव्यवहि- तोत्तरं 'स एष संवत्सरः प्रजापतिः षोडशकल' इत्यादिना । षोडशकलश्चन्द्रः । संवत्सरः कालात्मा प्रजापतिः । अग्रे धूममार्गकथनम् । 'तस्य रात्रय एव पञ्चदश कलाः ध्रुवैवास्य षोडशी कला स रात्रि- भिरेवा च पूर्यतेऽप चक्षीयत' इत्यादिना । शुक्लपक्षसम्बन्धिनीभिरापूर्यते पञ्चदशभिः कृष्णपक्षसम्बन्धि- नीभिरपक्षीयत इत्यर्थः । ब्रह्मणो मुखे विविधानां यागानां विततत्वकथनं गीतायाम् । सकाम इति । कामो लोकजयस्स । एवेति । निष्कामधूममार्गव्यवच्छेदकः । बृहदारण्यक इति । श्वेतकेतुब्राह्मणे । छान्दोग्यीयरमणीयाचरणकपूयाचरणप्रकाराभ्यान्निष्कामाद्भिन्नप्रकारेण सकामप्रकारेण एवमेवोक्तधूममार्ग- प्रकारेण सकामेनानु यज्ञदानतपोभिर्लोकजयाद्धेतोः सकामाः परिवर्तन्त आवर्तन्ते । गीतेति । भाष्योक्त- गीतोक्तप्रकारेण । निगमनादिति । अनुवृत्तौ । तस्मादेवमेव परिवर्तन्त इत्यर्थात् । 'अनुर्हीने सहार्थे 1547