अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 167, कुल 2600 में से
संदर्भ में पढ़ेंHere is the line-by-line Devanagari transcription of the provided page:
८० श्रीमद्ब्रह्मसूत्राणुभाष्य [अ० १ पा० १ अ० १ सू० १ भाष्यप्रकाशः। ज्ञानानुदयेन प्रतिज्ञावैयर्थ्यप्रसङ्गात् । तथाच कर्मषष्ठ्यङ्गीकारे द्वितीयाध्यायादीनामाकस्मिकत्वम् । शेषषष्ठ्यङ्गीकारे व्याकरणविरोधो, ब्रह्मण इतरतौल्याद् गौणत्वापत्तिश्चेत्युभयतःपाशारज्जुरित्यर्थः । अत्र समादधते नेत्यादि । कृद्योगे कर्मणिषष्ठ्यनुशासनेऽपि विभक्तीनां विवक्षाधीनत्वात् समासस्य सामर्थ्यमात्रापेक्षित्वाच्च ब्रह्मणः कर्मत्वे अविवक्षिते कर्मषष्ठ्यभावेन शेषषष्ठयामपि साम- र्थ्यात् समाससिद्धेर्व्याकरणविरोधाभावः । सर्वेषां प्रतिज्ञातत्वसिद्ध्या न कस्याप्याकस्मिकत्वम् । रश्मिः। सूत्रमित्यर्थः । तथा च ब्रह्मजिज्ञासाधिक्रियते इति पदार्थफलकभाष्यम् । अधिकारार्थ एव ज्ञेयानिति । अवचन इति । प्राप्त इत्यत्र ज्ञेयम् । व्याकरणविरोध इति 'कर्तृकर्मणोः कृति' इति सूत्रविरोध इत्यर्थः । उभयतःपाशारज्जुरिति उभयतो बन्धनरज्जुरश्वादिरर्थ्या उभयदेशे निवृत्तव्यापारो भवति तथा संपन्नमित्यर्थः । अथवा उभयतः पाशौ बन्धनसाधने ग्रन्थी यस्याः सोभयतःपाशा तादृशी रज्जुर्लाहरणविशेषादौ प्रसिद्धा कचित् । विवक्षाधीनत्वादिति षष्ठ्याहुः कर्मादीनामपि संबन्धमात्रविवक्षायां षष्ठ्येवेति । सामर्थ्यमात्रेत्यादि 'समर्थः पदविधिः' इति सूत्रादित्यर्थः । समासादिवृत्तौ वृत्तित्वेन सामर्थ्यमिह व्यपेक्षा नास्ति अपित्वेकार्थीभावः । स च विशेषणविशेष्यभावावगाहुपस्थितिजनकतं संसृष्टार्थं समर्प्यमिति भाष्योक्तेरिति शेखरे। पदविधि- रिति पदमुद्दिश्य यो विधीयते समासादिः स समर्थ इत्युच्यते तथा च सामर्थ्यमित्यवसेयम्। तद्विग्रहवाक्यार्थाभिधाने शक्तत्वमिदमेव एकार्थीभाव इति व्यवह्रियते, व्यपेक्षेति नैयायिकाः, तत्र एतौ अजहत्स्वार्थायां जहत्स्वार्थायां चान्तर्भवतः । पदानि स्वाभिधेयानि न जहात यस्यां साऽ- जहत्स्वार्था सा चावगतसामर्थ्यानां शब्दानां समासघटकानां शक्तिलक्षणाभ्यां वाक्यार्थबोधाङ्गत्वति । अत्र न समासादौ अन्या शक्तिः क्लृप्तशक्त्यैव निर्वाहात् तंत्यागापत्तेश्च । इयमेव व्यपेक्षा इति । तन्न मतान्तरमिति महाभाष्यकृत् । 'सविशेषाणां वृत्तिर्न वृत्तस्य वा विशेषणयोगो न' इति वार्तिकान् न ऋद्धस्य राजपुरुष इति प्रयोगापत्तिरत्र । एतद्विपरीता तु जहत्स्वार्था । तत्र वृषभयावकादिपदेषु वृषभ- वादि पदवत् समासघटकपदानां पुनर्बोधकतां विहाय समासे शक्तिः तयैव च राजसंबन्धिपुरुष- बोध इति एकार्थीभावः । अन्यथा ऋद्धस्य राजपुरुष इत्यापद्येत । इत्येवंविधसामर्थ्यमात्रापेक्षित्व- दित्यर्थः । अविवक्षित इति सर्पिषो जानीते इतिवदविवक्षित इत्यर्थः । कर्मषष्ठ्यभावेनेति । 'यतो वाचो निवर्तन्ते' इति श्रुतेः कारकत्वाभावादपि कर्मषष्ठ्यभावेनेत्यप्यर्थो बोद्धव्यः । समास- सिद्धेरिति 'कृद्योगा च षष्ठी समस्यते' इत्यत्र शेषे षष्ठ्यपि कृद्योगेति समाससिद्धेः । सर्वेषामिति ननु सर्वेषामित्यत्र निविष्टपुरुषमुख्यत्वेऽप्यक्षरस्य वेदार्थत्वेन वेदवाचकब्रह्मपदोपादानाच्चतुरःसरं सर्वेषां प्रतिज्ञानत्वसिद्धेः परस्य पुरुषोत्तमस्य जगद्व्यापारवर्ज्याधिकरणेऽपि विषयस्याप्रतिज्ञानार्थत्वमिति चेन्न । ब्रह्मपदवाच्यवेदामिधेयत्वस्याक्षर एव तात्पर्यवृत्त्या प्रतिपाद्यत्वस्य परे सत्त्वात् । 'सर्वे वेदा यत्पदमामनन्ति' इति श्रुतेः । तथाच ब्रह्मजिज्ञासेत्यस्सा ब्राह्मीमिक्षा ब्रह्मसंबन्धिनी जिज्ञासेति बोधः । तथा चोक्तम् । 'जहत्स्वार्थाजहत्स्वार्थे द्वे वृत्ती ते पुनस्त्रिधा । भेदः संसर्ग उभयं वेति भाष्यव्यवस्थितेः' । इति भूषणे । अर्थस्तु त्रैविध्यं वदंस्तत्र भेद इत्यादि । भेदः अन्योन्याभावः । व्यर्थोयं प्रयास इति चेन्न । 80