अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 168, कुल 2600 में से
संदर्भ में पढ़ेंतज्ज्ञानोपयोगि सर्वमेव प्रतिज्ञातं भवितव्यम् । नच गौणतापत्तिरजिज्ञास्यत्वं च स्यादिति वाच्यम् । ब्रह्ममात्रे संदेहाभावात् । संदिग्धस्यैव जिज्ञास्यता । गौणत्वं तु शब्दत एव, न त्वर्थतः । भाष्यप्रकाशः । तर्हि गौणत्वादजिज्ञास्यत्वे स्थाप्येतामित्यत आहुः नचेत्यादि । केन प्रकारेणाजिज्ञास्यत्वमापाद्यते । किं ब्रह्मत्वेन, उत रूपान्तरेण । तत्राद्ये त्वोमिति ब्रूमः । अध्ययनादिदशायां, 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादिवाक्यार्थावधारणादेव तत्स्वरूपे सत्तायां च संदेहाभावात् । किंतु यत्तु वेदे लक्षितं ब्रह्म, तत्किम् । येन वेदे नानापदार्थानां लक्षितत्वेऽप्याम्नायव्याख्यानरूपे भारते विवृतत्वेऽप्येत- रश्मिः । राजपुरुषः सुन्दर इतिवद्राजपुरुषो देवदत्तस इति वारणायाभ्युपगमात् । भेदस्य वाच्यत्वे तु तद्विरुद्धोयमप्रयोगः । संबन्धस्यैव सार्वजनीनत्वादाह संसर्ग इति । एतदुभयं वाच्यमस्तु विनि- गमनाविरहादस्माकमपि राजपुरुष इत्यापत्तेश्चेत्याह उभयं वेति । तथाचाराजकीयभिन्नो राजसंब- न्धवांश्चायमिति बोधः । व्यपेक्षावादिनस्तु राजपुरुष इत्यत्र राजसंबन्ध्यभिन्नः पुरुष इति बोधः । राजपदस्य राजसंबन्धिनि लक्षणेत्यभ्युपगमात् । सविशेषणराजपदस्य सविशेषणतत्संबन्धिनि लक्ष- णोपगमात् । न शोभनराजपुरुष इत्यादौ एकदेशे राज्ञि शोभनान्वयानुपपत्तिः । उक्तं शिष्टमेव । एवं सति पूर्वतन्त्रीयो निषादस्थपतिं याजयेदित्यत्र लक्षणादोषग्रस्तो न षष्ठीसमासः किंतु कर्मधारय इति सिद्धान्तः संगच्छते इति वदन्ति । तथा च ब्रह्मसंबन्धिनी जिज्ञासेत्येव बोधः । इत्यत आहुरिति इति रूपमाशङ्क्य प्रतिविधानमाहुरित्यर्थः । ब्रह्ममात्र इत्यादि भाष्यं विवृण्वन्ति केनेत्यादि । रूपान्तरेणेति वेदलक्षितत्वेन सर्ववेदार्थनिर्वाहकत्वेन सर्वविरुद्धधर्माश्रयत्वेनेत्यर्थः । तत्स्वरूपे सत्तायां चेति सत्यज्ञानानन्दाः स्वरूपभूताः 'अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः' इति श्रुतेः सत्ता । यथा चन्द्रमसि द्वये चित्स्वरूपे आनन्दस्वरूपता, यच्चजनकं तत्तद्गुणकमिति वक्ष्य- माणख्यातेः । दृष्टान्तत्वात्वानन्दगुणकता अत एव साकारता । तथाच श्रुत्यन्तरं 'सत्यं ज्ञान- मानन्दं ब्रह्म' इति 'आनन्दरूपममृतं यद्विभाति' इति च । इदानीं शेषषष्ठीपक्षं समर्थयन्तः संदिग्धस्यैवेत्यादि भाष्यं विवृण्वन्त अन्यद्रूपमाहुः किंतु यत्त्वित्यादि । यद्वेदे जगत्कर्तृत्वादिना रूपान्तरेण लक्षितं ज्ञापितं ब्रह्म तदजिज्ञास्यमिति वक्तव्यमिति सङ्क्षेपायोजना । किं त्विति वितर्के । तथा च वेदलक्षितत्वेन रूपान्तरेण तत्राजिज्ञास्यत्वमापादनीयमित्यर्थः । अत्र पृच्छन्ति किमिति तत्किमित्यर्थः । देहलीदीपन्यायेन तदित्यस्योभयान्वयित्वात् । एवमापादनं किंहेतुकमिति प्रश्नः न संभवतीति फलितोर्थः । तत्र हेतुमाहुः येन वेद इत्यादि । येनेत्येतज्जिज्ञासेत्यनेनान्वेति । तथा च वेदे नानापदार्थानामन्नादीनां जगत्कर्तृत्वेन लक्षितत्वेऽप्याम्नायव्याख्यानरूपे भारते विवृत- त्वेपि येन हेतुनैतस्य लक्षितब्रह्मणो जिज्ञासा प्रस्तूयते अतोस्य संदिग्धत्वेन जिज्ञास्यत्वमित्यर्थः । तथा चान्नादि ब्रह्म आनन्दो वा ब्रह्म इत्येवं संदिग्धस्यैव जिज्ञास्यतेति भाष्यार्थः । अथवा प्रकृ- त्यादिगतं जगत्कर्तृत्वं ब्रह्मगतं वा तत् । अथवा 'क्रियाशक्तिज्ञानशक्ती संदिह्येते परस्थिते' इति हृदयम् । उक्तजिज्ञासाप्राप्तावस्तु जन्माद्यस्य यतः इति सूत्राद् बोध्या । यदीत्यादि यदि ब्रह्मज्ञानस्य मोक्षसाधनत्वेन हेतुना एतज्जिज्ञासैव प्रस्तूयते इति मन्यते तर्हि कथमन्नादिज्ञानेषु ब्रह्मज्ञानस्यैव मोक्ष-