अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 169, कुल 2600 में से
संदर्भ में पढ़ेंजिज्ञासैव प्रस्तूय' । यदि तज्ज्ञानस्य मोक्षसाधनत्वेन, तर्हि कथं तज्ज्ञानस्यैव तथात्वम् । यदि वेदार्थत्वेन तज्ज्ञानस्य तथात्वं, तदा धर्मविचारेणैव गतार्थता । षोडशलक्षण्या सर्वस्यैव तस्य निर्णीतत्वात् । अत एव न वेदान्तार्थत्वेन । अतः सर्ववेदार्थतानिर्वाहकवक्ष्यमाणरीतिकगुणवत्तया जिज्ञास्यत्वं वक्तव्यम् । ततश्च तादृशगुणवत्त्वेनैतस्य जिज्ञासाप्रसिद्धेर्नाजिज्ञास्यत्वम् । नापि गौणत्वा- पत्तिः । गुणजातस्य ब्रह्मसंबन्धित्वेन जिज्ञास्यतया ब्रह्मणो मुख्यत्वस्यैव सिद्धेः । शब्दतो गौणत्वं साधनत्वमित्यर्थः । ब्रह्मण एव वेदार्थत्वादुपपन्नमित्याह यदि वेदार्थत्वेनेत्यादि । अतस्त- जिज्ञासैव प्रस्तूयत इति पूर्वेणान्वयः । अथापि नतरां जिज्ञास्यमित्याहुः तदा धर्मेत्यादि । षोडश- लक्षण्येति उक्तार्थमेतत् । अत एवेति धर्मविचारेङ्गतया ब्रह्मविचारस्य प्रविष्टत्वादुक्तहेतोरेवे-