अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 170, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ८३ वेदप्रामाण्यं तु प्रतितन्त्रसिद्धत्वान्न विचार्यते । भाष्यप्रकाशः । तु न स्वरूपमुख्यत्वविघातकम् । पुत्रः पित्रा सहागत इत्यादौ तथादर्शनादिति । नन्वस्त्वेवं, तथापि वेदार्थस्य ब्रह्मणो वेदानुकूलो विचारोऽत्र प्रतिज्ञात इति तदर्थं वेदप्रामाण्यमपि विचा- रणीयम् । तदत्र कुतो न विचारितम् । यतो न विचारितं, ततो न वेदार्थत्वेन विचार इति पक्षो न युक्त इत्यतं आहुः वेदेत्यादि । प्रतितन्त्रसिद्धत्वादिति आस्तिकं तन्त्रमात्रं लक्ष्यीकृत्य सिद्धत्वात् । न हि नास्तिकनिग्रहायाचार्यस्य विचारे प्रवृत्तिः, किंत्यास्तिकशिक्षणाय । ते तु सर्वे वेदप्रामाण्ये निर्विचिकित्सा इति प्रयोजनाभावान्न विचार्यते । तावता न वेदानुकूलविचारत्वहानि- रश्मिः । इति भाष्यकारिकायाः 'सत्यं ज्ञानमनन्तं ब्रह्म' इति श्रुतेर्ब्रह्मणोऽसंदिग्धत्वात् । अत एव 'जन्माद्यस्य यतः' इत्यधिकरणे क्रियाशक्तिर्निरूपिता । ततश्च ब्रह्मण इति शेषषष्ठी न कर्मणि । 'तद्विजिज्ञासस्व' इतिश्रुतौ जिज्ञासाया विचारार्थकत्वे तच्छब्दाल्लब्धा लुक् ब्रह्मणः कर्म- त्वाभावात् । किंतु ज्ञानशक्तेः क्रियाशक्तेर्वेदस्य कर्तृत्वम् । यद्वा तद्विजिज्ञासस्व इत्यर्थ- विषया अन्नादिरूपार्थब्रह्मपरत्वात् सूत्रे वेदान्तशब्दविषये न प्रवर्तत इति । तथादर्शनादिति पित्रेति सहार्थतृतीयान्तशब्दस्य पितृस्वरूपमुख्यत्वविघातकत्वाभावदर्शनादित्यर्थः । न वेदार्थ- त्वेनेति वेदानुकूलत्वान्न वेदार्थत्वेनेत्यर्थः । न युक्त इति प्रमाणवेदार्थत्वरूपप्रतियोगिज्ञाना- भावान्न युक्तः । निर्विचिकित्सा इति । अत्र वदन्ति वैशेषिकाः शाब्दं हि उपनीतं मन्तव्यम् । श्रोत्रमात्रजन्यत्वात् । पदानां चोपनायकत्वात् । अन्वयधीरप्यनुमितिः एते पदार्थास्तात्पर्यविषये मिथःसंसर्गवन्तः आकाङ्क्षादिमत्पदस्मारिततद्योग्यतासत्तिमत्त्वे सति संसर्गपरपदस्मारितत्वाद्धेत्व- नुमानात् । घटोस्तीत्यत्र घटोऽस्तित्ववान् तद्योग्यत्वात् पटवदित्यनुमानाच्च । न चान्वयव्यति- रेकाभ्यां शब्दस्य कारणतेति वाच्यम् । हेतुशरीरघटकत्वेन हेतुत्वेन चान्वयव्यतिरेकानुविधानो- पपत्तेस्तत्सातिरिक्तकारणताग्राहकत्वाभावात् । तस्मान्न शब्दः पृथङ्मानं, अतो वेदस्योपनायकता- मात्रमिति । अत्र नैयायिकास्तिष्ठन्ते, स्वाशयं प्रकाशयन्तीत्यर्थः । 'प्रकाशनस्थेयाख्यायोश्च' इति सूत्रेणात्मनेपदम् । बाधकप्रमाणाभावो योग्यता साच न लिङ्गविशेषणम् । प्रमाणामात्रविरहस्य सर्वत्र निश्चेतुमशक्यत्वात् । तत्संशयेपि शब्दादन्वयबोधाच्च । शब्दप्रामाण्ये योग्यतायाः संशयसाधारणं ज्ञानं प्रयोजकमिति शब्दप्रमाणमिति । किंचाकाङ्क्षा हेतुशरीरनिविष्टायाः अन्वयबोधानुकूला- नुपूर्वीपर्यवसायिन्या न भूतपूर्वत्वमतो न तद्घटितो हेतुः । नहि मिथःसंसर्गाज्ञाताद्देवदत्तो ग्रामं गच्छतीति वाक्यस्यान्वयबोधानुकूलायाः ग्रामं गच्छति देवदत्त इत्येवं विधानुपूर्व्या ज्ञानमस्ति, तथायोग्यत्वहेतुकानुमानेपि अज्ञातस्य तस्यानुपयोगात्, स्वरूपसताया अकारणत्वेन हेतुतायास्त- ज्ज्ञाने पर्यवसानात्तज्ज्ञानं लिङ्गमिति वाच्यं, ततु बाधाभावनिश्चयमात्रं जनयित्वा कृतार्थमिति न हेतुतां निर्वोढुमलम् । अपि च अस्तित्वव्याप्ययोग्यतावान् गौरित्यनुमानात्सान्वयबुद्धित्वे घटः कर्मत्वमि- त्यादिक्षतीत्यत्र घटः कर्मत्वमानयनं कृतित्वाख्यातयोग्यत्ववान् युष्मदर्थः इत्यनुमानादपि शाब्द- १. [अस्पष्टम्] प्रमाणाभावस्य निश्चेतुमशक्यत्वादित्युक्तं निश्चेतुमशक्यत्वमङ्गीकृत्याह तत्संशय इति । 83