अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1671, कुल 2600 में से
संदर्भ में पढ़ें१६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० १ अ० १ सू० १. जीवसाहित्येऽप्यपामेव मुख्यत्वम् । शरीरवत् । अयं होमस्तत्र तथा तं जनयन्तीति न दुःखहेतुः । भाष्यप्रकाशः । द्वितीयाद्याहुत्या वृष्ट्यादिरूपता, तदा अन्याधिष्ठानादन्यदीयदेहासम्भवेन, वर्षसोष्परपातेऽन्नस्य मांसादिभावे रेतसो वृथापाते गर्भस्य स्रावादौ च पुरुषभावाभावेन, तैः फलोपहितैः सर्वैरपि सप- रिकरजीवस्यैव होम्यत्वेन लाभाच्चेत उत्क्रमणे संस्कृतभूतैः सम्परिष्वक्त एव रंहतीत्यर्थः । एवमत्र श्रौतन्यायदर्शनेन सम्परिष्वङ्गस्याप्यौचित्यं साधितम् । ननु यद्युत्क्रमणमारभ्य जीवसाहित्यम्, तदा अपामेव कुतो होम्यत्वमुक्तमित्यत आहुः जीवेत्यादि । यथा वाजसनेयिनां षष्ठेऽग्नावग्नौ पुरुषस्य होम्यत्वे शरीरस्य मुख्यत्वम्, तद्वदत्र प्रथम- होमेऽपां मुख्यत्वम्, अतस्तासामेव होम्यत्वोक्तिरित्यर्थः । ननु तथापि दुःखहेतुत्वादेवं होमस्यापि वैराग्यहेतुत्वमेव वक्तव्यमित्यत आहुः अयमित्यादि । अयं देवैः कृतो होमः षष्ठे पर्याये ब्रह्म- लोकगमनयोग्यं भास्वरवर्णं पुरुषं देवा जनयन्तीति, सात्त्विकसुखवत् परिणामसुखदत्वादनभिमान- तयैव तत्र स्थितेश्च न दुःखहेतुः, अतो नास्योपाख्यानस्य वैराग्यमात्रहेतुत्वमित्यर्थः । नच जीवस्य चिद्रूपत्वात् प्राणानां च देवरूपत्वेनाशुद्ध्यभावान्न होमार्हत्वमिति शङ्क्यम् । तैत्तिरीयोपनिषदि विरजाहोमे प्राणवृत्तीरारभ्यात्मान्तरात्मपरमात्मपर्यन्तं शोध्यत्वश्रवणात् । नच परमात्मनोऽन्त- र्यामिणः किं शोधनीयमिति शङ्क्यम् । प्रेरणस्यैव शोध्यत्वात् । अन्यथा असत्कार्येऽपि प्रेरयेत् । इदं च तृतीयस्कन्धे विदुरवाक्ये 'हृदि स्थितो यच्छति भक्तिपूत' इत्यत्र सुबोधिन्यां व्याख्यातम् । अतो न शङ्कालेशः । नच तर्हि विरजाहोमादेव शुद्धिरस्तु, किं पुनराहुत्येति शङ्क्यम् । तत्र रश्मिः । फूलो व्यापारो वाच्योर्थः । प्रजया रूप्यते यश्चेतनस्तत्साहित्यं सूचितार्थः । नहीत्यादिभाष्यं विवृण्वन्ति स्म तेषामिति । हुतावंशानाम् । वृष्ट्यादीति । चन्द्रस्य तथा । अन्येति । अन्याधिष्ठाने सति अन्या- धिष्ठानाच्चन्द्राधिष्ठानादन्यस्य जीवस्य शरीरं न हि भवेत् । तस्य विवरणं अन्यदीयेत्यादि । जीवीायदे- हासम्भवेन । तथा वर्षेत्यादिभाष्यं विवृण्वन्ति स्म वर्षेत्येति । स्रावाद्भाविति । आदिना पातः । तथा वर्षाज्जरेतोगर्भश्च पुरुषा न भवेयुरिति भाष्यार्थः । तैः पूर्वोक्तैः फलं पुरुषत्वं तदुपहितैर्विशिष्टैः । सपरीति । परिकरस्तं ज्ञानौपयिकदेहकारणत्वम् । एवेति । सर्वसम्मत्यैवकारः । प्रश्नश्रुतिविरोधाद्वा । अत्र पूर्वो लाभान्तो हेतुरुत्तरोपि । तत्रोत्तरहेतौ निरूपणादिवाक्येष्वन्ते इतिशब्दं योजयित्वा इतिहेतुनेति व्याख्येयम् । तानि प्रकाशे तृतीयान्तैर्वाक्यैर्विवृतानि । एतैर्हेतुभिरन्यथाप्यपुरुषलेनापि विनियोगसम्भ- वादित्यन्येयेत्यादिभाष्यार्थः । अत इत उत्क्रमण इत्यादिरिति भाष्यप्रकाशार्थः । एवमिति । प्रश्ननिरूपणं श्रौतन्यायः । अपिना जीवसत्ता । षष्ठेऽग्नाविति । 'तस्माग्निरेवाग्नि'रित्यादिनोक्ते । अपामिति । भविष्य- च्छरीरयोग्यानाम् । एवेति । षष्ठामिश्रुतेरेवकारः । षष्ठामिर्बृहदारण्यके श्वेतकेतुब्राह्मणेप्यस्ति । एवेति । ज्ञानयोग्यदेहहेतुत्वव्यवच्छेदकः । सात्त्विकेति । 'यत्तदग्रे विषमिव परिणामेऽमृतोपम'मिति वाक्यात् । अनभीति । मृतस्य भयनाम्नोऽनुवर्तनात्तथा । अभिमानस्याश्रुतत्वादेवकारः । वेवेति । तृतीयस्कन्धे स्पष्टम् । प्राणवृत्तीति । 'अपानं मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास ँ स्वाहे'त्येव- मादिश्रुतिमिरारभ्य 'आत्मा मे शुध्यन्तां ज्योतिरहं० परमात्मा मे शुध्यन्तां ज्योति० स्वाहे'त्येवम् । प्रेरणेति । तत्कर्तृकप्रेरणस्य । एवेति । अन्यव्यवच्छेदकः । पूर्वपक्षदोषोद्धारं तच्छब्दार्थायित्वेनाहुः होम 1552