भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1672, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1672

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १७ तस्मात् प्रश्ननिरूपणान्यथानुपपत्त्या सम्परिष्वक्त एव संस्कृतैर्भूतै रंहतीति सिद्धम् १ त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ २ ॥ ननु कथं भूतसंस्कारमात्रत्वमवगम्यते, यावता प्रश्ननिरूपणाभ्यामप एवा- वगम्यन्ते । नच तावन्मात्रसंस्कारकत्वम् । नियामकाभावात् । 'अस्थि चैव तेन मांसं च यजमानः संस्कुरुत' इति विरोधाच्चेति शङ्कां निराकरोति तुशब्दः । भाष्यप्रकाशः। 'विरजा विपाप्मे'ति पदाभ्यां रजस्तमोनिवृत्तिरेवाशासिता, न तु सत्त्वस्यापीति सत्त्वस्यापि निवृत्त्यर्थं तस्या आवश्यकत्वादिति । सिद्धमाहुः तस्मादित्यादि । होमे अपां गौणत्वस्य परिहृतत्वात्, श्रौतन्यायस्योपदर्शितत्वात्, होमप्रयोजकानां पूर्वजन्मनीनानां निष्कामकर्मणामेव संस्कृतसूक्ष्मभूतपोषकत्वात्,