भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1673, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1673

१८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० १ अ० १ सू० २. अपामेव ग्रहणेन तेजोऽबन्नानि गृहीतानि ज्ञातव्यानि । कुतः । त्र्यात्मक- त्वात् । लोकादिनिर्माणानन्तरभावित्वात् ता आपस्त्रिवृत्कृता एव । अतस्त्रयोपि गृहीता अपां ग्रहणेन । उपलक्षणत्वेऽप्यपामेव ग्रहणे हेत्वन्तरमाह भूयस्त्वात् । शुद्धत्वात् विशेषाभावान्मध्यभावाच्च । दीक्षिततुल्यत्वेन भारूपत्वेनाग्रे वक्तव्य- त्वात् । शुद्धापामेवेदं शरीरम् । बहुहेतुकत्वमेव भूयस्त्वम् । बहुधा परिणामाच्च । भाष्यप्रकाशः । सिद्धान्तं व्याकुर्वन्ति अपामित्यादि । हेत्वन्तरप्रयोजनमाहुः उपलक्षणत्व इति । त्रिषु तुल्य इति शेषः । भूयस्त्वादित्यस्य नियामकभूयस्त्वमर्थ इति तानि व्याकुर्वन्ति शुद्धत्वादित्यादि । 'आपः स्वभावतो मेध्या' इति स्मृत्याऽपां स्वभावतः शुद्धत्वात् प्राणाप्याय