अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1693, कुल 2600 में से
संदर्भ में पढ़ें१८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० १ अ० २ सू० १०. आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १० ॥ नन्वेवं सति चरणश्रुतिरनर्थिका, ज्ञापनायां प्रयोजनाभावात्, अतो विधा- यकत्वं श्रुतेः, इष्टानिष्टफलवोधकश्रुतिवत्, अतः कर्मतारतम्येन फलविधानान्नि- ष्कामकर्मकर्तृज्ञानोपयोगिदेहविधानं भविष्यतीति अनुशयसहभावो व्यर्थ इति चेत् । न । तदपेक्षत्वात् । धूमादिमार्गस्य तस्याः श्रुतेरपेक्षत्वात् । काम्येष्टादिकारिणः भाष्यप्रकाशः। आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १० ॥ साधारणानुशयपक्षे किञ्चिदाशङ्क्य परिहरतीत्याशयेन पूर्वपक्षांशं व्याकुर्वन्ति नन्वेत्यादि । अयमर्थः । चरणश्रुतेः पूर्वजन्मनीनकृत्युपलक्षकत्वं तस्या वैयर्थ्यापादकम् । न हि तस्मिन् ज्ञात इह जन्मनि कोपि पुमर्थः सिद्ध्यति । अतस्तदभावाय चरणेनैतज्जन्मनि विधायकत्वं तस्या अङ्गीकार्यम् । यथा 'प्रतितिष्ठन्तीह वै य एता रात्रीरुपयन्ती'ति 'केवलाघो भवति केवलादी'त्यादौ प्रतिष्ठाकेवलाघत्वादिबोधनेन रात्रिसत्रं कुर्यात्, केवलादनं न कुर्यादिति कल्प्यते, तथा रमणीय- योनिकामो रमणीयाचरणं कुर्यादिति । अतः कर्मतारतम्येनात्र फलस्यैव विधानान्निष्कामकर्मकर्तृज्ञानो- पयोगिदेहविधानं तादृशदेहोत्पत्तिश्चरणादेव भविष्यतीत्यनुशयसहभावो व्यर्थ इत्यर्थः । परिहारांशं व्याकुर्वन्ति धूमादीति । अपेक्षत इत्यपेक्षः । पचाद्यच् । तस्या अपेक्षस्तदपेक्षः । धूमादिमार्गस्य तथात्वादित्यर्थः । धूमादिमार्गस्य कथं चरणश्रुत्यपेक्षत्वमित्याकाङ्क्षायां तद्व्युत्पा- दयन्ति काम्येत्यादि । द्विविधा हीष्टादिकारिणो निष्कामाः सकामाश्च । तत्राद्यस्य फलसामग्री- शेषरूप एवानुशय इत्युक्तम् । द्वितीयस्य तु देवगाथोक्तबुद्ध्यभावात् सुकृते भुक्ते तदनन्तरमुत्पत्तौ 'सुखानन्तरं दुःख'मिति न्यायेन पापस्यैवोपस्थितत्वादसमीचीनशरीरप्राप्तिरापद्यते । सा तस्य मा रश्मिः। आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १० ॥ साधारणेति । कर्मशेषोऽनुशय इति पक्षे । वैयर्थ्येति । यदि चरणश्रुतिः पूर्वजन्मनीनकृत्युपलक्षिका स्यात्तदेह जन्मनि पुमर्थासिद्ध्या व्यर्था स्यादित्येवं वैयर्थ्यापादकम् । तस्मिन्निति । साधारणानुशये । हेत्वन्तं भाष्यं विवृतम् । अतो वीत्यादिभाष्यं विवृण्वन्ति स्म अतस्तदिति । विधायकत्वमिति । किञ्चिद्विधायकत्वम् । इष्टे- त्यादिभाष्यं विवृण्वन्ति स्म यथा प्रतीति । इत्यादीविति । प्रयोजनगौरवग्रन्थविस्तरभियादि- शब्दाद्यो नोच्यते । एवमन्यत्रापि । रात्रीति । 'ये प्रतिष्ठासासन्ति त एता रात्रीरुपयेयु'रित्थर्था- द्वात्रिसत्रं कुर्यात् । केवलादीति । केवलश्चासावादः केवलादः सोऽस्यास्तीति केवलादीति । श्रुतौ केवलस्यादनविशेषणत्वमभिप्रेत्याहुः केवलादनमिति । केवलश्चासावादी चेति पक्ष आद इत्यत्र समी- चीनादेः पक्षिभेदापादकादेश्च लक्षणाऽदशब्देऽस्तीति स नाङ्गीकृतः । अतः कर्मेति भाष्यं विवृण्वन्ति स्म अतः कर्मेति । फलस्यैवेति । रमणीययोनिरूपफलस्य । एवकारश्चरणव्यवच्छेदकः । विधानादिति । रमणीयचरणश्रुतौ स्वोक्तफललिङ्गं तद्रमणीययोनिकामो रमणीयाचरणं कुर्यादिति विनियोगीं श्रुतिं कल्पयित्वा विनियोजकमिति तथा । चरणादेवेति । आचारात् । एवकारोऽ- नुशयव्यवच्छेदकः । इत्युक्तमिति । कृतात्ययसूत्रभाष्यप्रकाशे । स च भोगः सकामानामित्या- दिनोक्तम् । देवगाथेति । कृतात्ययसूत्रभाष्य उक्ता देवगाथा । बुद्धिस्तु 'हरिर्यद् भजतां शं तनोति' इत्युक्ता । भजतां शंविस्तारकर्तृत्वेन हरिविषयिणी बुद्धिः । इति न्यायेनेति । 'ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ती'ति श्लोको न्यायस्तेन । पापस्यैवेति । एवकारेण सुकृतव्यव- 1574