सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1696, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1696

मलभावे शूकरभक्षणम् । अनुशयस्य नियामकत्वे तुषादिष्वन्नभाव एव यावत् समीचीनरेतोभावः । तस्मादुपलक्षणतैव चरणश्रुतेर्युक्ता । तस्मादनुशयसहित एव वृष्टिभावं प्राप्नोतीति सिद्धम् ॥ १० ॥ सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥ भाष्यप्रकाशः । सात् । तादृशस्य रेतसः अभावे ततः समीचीनयोनेरप्यभावः । अतो रमणीययोनिं प्रति चरणस्य हेतुत्वं वदताप्यवश्यं नियामकत्वेनानुशयोऽङ्गीकार्यः । नचान्नाभावेऽपि तत्र तुषस्यापि दर्शनात् ततः समीचीनरेतोत्पत्तिः शङ्क्या । तस्य गोप्रभृतिभिर्भक्षणे ततो दुग्धरूपेणान्नाभावस्य सिद्धेः । अद्यमानस्यैवान्नत्वादिति । एवं सिद्धे तस्यावश्यकत्वे अनुसीयमानस्य तस्यैव चरणं प्रत्यपि नि- यामकत्वम् । अतः सकाम एव धूममार्गे नानाफलानामुक्तत्वात् तत्रैव चरणापेक्षा, न तु निष्कामे पञ्चाग्निविद्यासम्पादितदेहे । तस्मादत्र योन्यादिनिरूपणद्वाराप्यनुशयोपलक्षणतैव चरणश्रुतेर्युक्ते- त्यर्थः । सिद्धमाहुः तस्मादनुशयेत्यादि । तस्मादिति । सर्वत्राप्यनुशयस्यावश्यकत्वात् ॥ १० ॥ सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥ एवं चरणादेव फलं भविष्यत्यनुशयाङ्गीकारो व्यर्थ इत्याशङ्क्य कार्णाजिनिमतोपन्यासेन तदुपष्टम्भेन च धूमादिमार्गे कर्मात्मकानुशयस्याप्या- वश्यकत्वं साधितम् । अतः परं तस्य कियत्पर्यन्तमनुवृत्तिरित्याकाङ्क्षायां तद्विवेक्तुमिदं सूत्रं प्रवृत्त रश्मिः । रेतसः अभाव इति । स्मार्तः प्रयोगः । अतो नात्र 'अतो रोरप्लुतादि'त्यस्य प्राप्तिः । अनुशय इति । कपूययोनिनिवर्तकः । अनुशयस्येतिभाष्यं विवृण्वन्ति स्म न चान्नाभाव इति । परम्परया समी- चीनरेतोभाव इत्याहुः तस्येत्यादि । दुग्धेति । दुग्धस्य रेतोजनकत्वं वैद्यके प्रसिद्धम् । तेन 'यावत्समीचीनरेतोभाव' इति भाष्यमपि व्याख्यातम् । एवकारार्थमाहुः अद्येति । एवकारो वेदान्ते योगमात्रात् योगरूढिव्यवच्छेदकः । अनुशये सिद्धमाहुरेवं सिद्ध इत्यादि । तस्यैवेति । अनुशयस्य । एवकारो भगवदिच्छाव्यवच्छेदकः । परम्पराकारणभूताया एवंविधविषयत्वात् । सकाम इति । सप्तम्यन्तम् । एवकारो निष्कामव्यवच्छेदकः । निष्काम इति । धूममार्ग इत्येव । निष्कामो धूममार्गो मोक्षफलकः । पौर्वतन्त्रीयषष्ठाध्याये आत्मकामस्यापि प्रवेशनीयत्वात् । अन्यथा कर्ममिश्रितशुद्धिद्वारा मोक्ष- बोधकपुराणभागो व्यर्थः स्यात् । 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिष

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1696, कुल 2600 में से · BharatKosha