अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1705, कुल 2600 में से
संदर्भ में पढ़ेंतत्रापि च तद्व्यापारादविरोधः ॥ १६ ॥ किञ्चिदाशङ्क्य परिहरति । ननु नरकेषु चित्रगुप्तादयो भिन्ना एवाधिकारिणः सन्ति, तथा सति तृतीयः पक्षः स्यात्, अत आह। तत्र नरकादिषु येऽधिकारिणः, ते यमायत्तास्तत्सेवकाः । अतो यमस्यैव तत्रापि व्यापारान्न तृतीयपक्षप्राप्तिः । चकारात् सुखदुःखभोगेपि तृतीयपक्ष एव विरोधः । अथवा । यमगतेर्मन्त्रलिङ्गसिद्धेः पापस्य च पौराणिकत्वे चन्द्रगतिरेकैव भाष्यप्रकाशः। तत्रापि च तद्व्यापारादविरोधः ॥ १६ ॥ सूत्रमवतारयन्ति किञ्चिदित्यादि । आशङ्कां व्युत्पादयन्ति नन्वित्यादि । यदि विलक्षणगतिदर्शनानुरोधेन 'ये के चे'ति श्रुतिं सङ्कोच्य फलाधिकारिभ्यां यमगतिर्द्वितीयाङ्गीकृता, तदा नरकाणां चित्रगुप्तादीनां च ततोपि वैलक्षण्ये सति युक्तेस्तौल्यात् सोपि तृतीयः पक्षः स्यात्, अन्यथा तु यमस्य नरकेष्वधिकारित्वाभावान्नियामका- भावेन तद्गतेरप्राप्त्या तद्बोधकस्मृतिविरोधापत्तेरित्यर्थः । परिहारं व्याकुर्वन्ति तत्रेत्यादि । तत्रापीति । नरकादिषु । तथाचैवं नरकगतिप्राप्तिसिद्धौ तद्गतिबोधकस्मृतिविरोधाभावेनातिरेकाङ्गी- कारस्य वैयर्थ्यान्न तृतीयपक्षप्राप्तिरित्यर्थः । चकारसूचितं दूषणान्तरमाहुः चकारादित्यादि । तथाच सोमयमगती श्रौते अङ्गीकृत्य अस्य तथा तृतीयत्वमङ्गीक्रियते, तदास्याश्रौतस्य तृतीयत्वा- देव विरोधः । अथवा । इयं यमगतिश्च चन्द्रगत्यवान्तरगतित्वेनाङ्गीक्रियते, तदा मन्त्रलिङ्गविरोधा- द्विरोध इत्यर्थः । यद्वा । तद्भोगे चित्रगुप्ताद्यधिकारवत् तेषां यमायत्तताया अपि सार्तत्वात् तस्या अनङ्गीकारे तृतीयपक्ष एव विरोध इत्यर्थः । ननु स्मृतिविरोधः शिथिलः, श्रुतिस्तु यथा न वक्ति, तथा न निषेधति, अतः 'अप्रतिषि- द्धमनुमतं भवती'ति न्यायेनातिरेकाङ्गीकारेपि को दोष इत्याशङ्क्य पक्षान्तरमाहुः अथवेत्यादि । रश्मिः । तत्रापि च तद्व्यापारादविरोधः ॥ १६ ॥ चित्रगुप्तेति । आदिना पञ्चमस्कन्धसमा- स्युक्तास्तत्पुरुषाः अग्निष्वात्तादयस्तु निवसन्ति । युक्तेरिति । फलाधिकारिभ्यां गतिविभेदः स्यात्, तदा सोपि तृतीयः पक्षः स्यादित्यन्यथाज्ञानरूपायाः । अधिकारित्वेति । 'द्वादशैते विजानीमो धर्मं भाग- वतं भटा' इति वाक्यात् । एतेन भिन्ना एवेति भाष्यं समर्थितम् । नहि धर्मज्ञोऽधिकारी भवतीत्येव- कारः । तद्बोधकेति । 'यमेन पृष्टस्तत्राह'मितिनृगवाक्यविरोधापत्तेः । नरकेति । नरक आदिर्येषां कर्मिणां चित्रगुप्तादीनां तेषु यमस्य भगवतोऽधोक्षजस्य व्यापारसंभवात् । एवकारस्तु ब्रह्मव्यापाराभा- वाय । यमस्य द्वारत्वात् । तदपि 'कृष्णायक्लिष्टकारिण' इतिश्रुतेः विष्णोरपि न । स्थितिदशामात्र- वृत्योत्पत्तिसंहारयोरननुगमात् । नरकगतीति । तद्गतीत्यपि पाठः । सोमयमेति । भाष्यीयसुखदुःख- पदयोः । एवेति । पौराणत्वान्यव्यवच्छेदकः । बाध्यत्वेन विकल्पास्पदत्वाभावाच्छ्रौतमते सहानव- स्थानां अविरोधस्तु सुखयोः कर्मवदत्राप्यश्रौतेपि श्रौतयमगतिकर्मव्यापारात्सौत्रः । अथवेति । चकारस्य द्वितीयार्थ इत आरभ्य । मन्त्रलिङ्गेति । पितृमेधे 'वैवस्वतं सङ्गमनं जनानां यमं राजान'- मिति मन्त्रलिङ्गविरोधात् शास्त्रभेदाद्विरोधः । अविरोधस्तु वेदान्तशास्त्रात्तत्रापि यमगतावपि तद्व्यापाराच्चन्द्रगतिरूपव्यापारात्सौत्रः । तेषामिति । चित्रगुप्तादीनाम् । तृतीयेति । तत्रासिल्लक्षणो विरोधः । श्रौतेन बाधात् । तत्रापि तादृशविषयेपि तद्व्यापाराद्यमव्यापारादविरोधः सौत्रः । पूर्वन्त-