भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1704, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1704

स्मरन्ति च ॥ १४ ॥ स्मरन्ति च व्यासादयः । 'यमेन पृष्टस्तत्राहं देवदेव जगत्पते । पूर्वं त्वमशुभं भुङ्क्ष्व उताहो नृपते शुभमि'त्यादि । चकाराल्लोकप्रसिद्धिः ॥ १४ ॥ अपि सप्त ॥ १५ ॥ चेत्यनुवर्तते । पापोपभोगार्थं यमालयगमनमङ्गीकर्तव्यम् । यतस्तत्र नरकाः सप्त सन्ति रौरवादयः । सप्तसंख्या संख्याभेदेष्ववरुद्धा । सर्वथा निराकरणा- भावाय सप्तग्रहणम् । तस्मात् यमगतिरस्ति ॥ १५ ॥ भाष्यप्रकाशः । स्मरन्ति च ॥ १४ ॥ अपि सप्त ॥ १५ ॥ एतत्सूत्रद्वयभाष्यं प्रकटार्थम् । तत्रापि पूर्वसूत्रभाष्ये लोकप्रसिद्धिर्नामभ्रान्त्या यमदूतनीतानां प्रत्यागतानामनुभवस्य पौराणिकवाक्यसंवादरूपा बोध्या । द्वितीयसूत्रभाष्ये च यमगतिरस्तीत्यस्य सोमगतेरतिरिक्तास्तीत्यर्थो बोध्यः ॥१४॥१५॥ रश्मिः । स्मरन्ति च ॥ १४ ॥ अपि सप्त ॥ १५ ॥ प्रकटेति । वाक्यं नृगप्रसङ्ग उत्तरार्धे । इति प्रथमसूत्रे भाष्यं प्रकटार्थम् । द्वितीयसूत्रभाष्यं चेतीति । अर्थः पूर्वोक्तः लोकप्रसिद्धिरूपः । सप्त- संख्या संख्याभेदेष्विति । संख्याभेदेषु सप्तसंख्या अवरुद्धेत्यर्थः । संख्याभेदाः श्रीभागवतादौ । तथाहि । एकविंशतिनरकास्तामिस्रादयः । सप्तान्थे क्षारकर्दमादयः । मिलिता नरका अष्टाविंशतिसंख्याकाः । मनुस्मृतौ चैकविंशतिसंख्याकाः तामिस्रादयः अन्यनिवेशेन व्युत्क्रमेण च । तथैव याज्ञवल्क्यस्मृतौ एकविं- शतिनरकास्तामिस्रादयः । तत्रैको भाग उपात्तश्चेत्सप्त भवन्ति । तत्रापि नियामकाकाङ्क्षायां तामिस्रान्ध- तामिस्ररौरवमहारौरवकालसूत्रासिपत्रवनशाल्मलीनामकानां सप्तानामेव त्रिषु सत्त्वेन प्रसिद्धत्वात्सप्तग्रह- णम् । यद्वा । भारते सप्त रौरवादयो गणिताः । तेऽत्र माध्वभाष्ये प्रसिद्धाः । वाराहे चातुर्मास्यमाहात्म्ये तृतीयाध्याये च 'रौरवः प्रथमः प्रोक्तो महारौरव एव च । कुम्भीपाकोऽसिपत्राख्यः पूयशोणितमद्वरौ । तप्तवालुक इत्येते सप्तैव नरकाः स्मृता' इति । तदेतदाहुः सर्वथेत्यादि । एवं प्रकटार्थम् । अजामि- लप्रसङ्गे लौकिकी भाषेत्याशयेनाहुः भ्रान्त्येति । 'अथैनं मापनयत कृताशेषपाघनिष्कृतम् । यदसौ भग- वन्नाम म्रियमाणः समग्रही'दिति विष्णुदूतवाक्येन पापाभाववत्यजामिले । 'तत एनं दण्डपाणेः सकाशं कृतकिल्विषम् । नेष्यामोऽकृतनिर्वेशं यत्र दण्डेन शुध्यती'ति यमदूतवाक्ये तेषां कृतकिल्विषत्वेन ज्ञानं भ्रान्तिस्तया । यमदूतनीतानां यथाजामिलस्य । 'स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषान् भृशदारुणान् । वक्रतुण्डा- नूर्ध्वरोम्ण आत्मानं नेतुमागता'निति । 'विकर्षन्तोऽन्तर्हृदयादासीपतिमजामिल'मिति भयान्नीत्तस्य । प्रत्यागतानामिति । यथाजामिलस्य । 'द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गत' इति प्रत्यावृ- त्तस्य । अनुभवस्येति । यथा 'ववन्दे शिरसा विष्णोः किङ्करान् दर्शनेोत्सव' इत्यनुभवस्य पौरा- णिकानि वाक्याक्युक्तानि । तत्संवादरूपा बोध्येत्यर्थः । भाष्योक्तनृगप्रसङ्गे च 'एतस्मिन्नन्तरे याम्यै- र्दूतैर्नीतो यमालयम् । यमेन पृष्टस्तत्राहं देवदेव जगत्पते । पूर्वं त्वमशुभं भुङ्क्ष्व उताहो नृपते शुभम् । नान्तं दानस्य धर्मस्य पश्ये लोकस्य भास्वतः । पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति सः । तावदद्राक्षमात्मानं कृकलासं पतन् प्रभो' इति पौराणिकवाक्यसंवादरूपा बोध्या । बहुवचनादन्य- त्रिकानि वाक्यानि संग्राह्याणि ॥ १४ ॥ १५ ॥ १. समङ्क्ष्यम् । ब्र० सू० २० - ७ 1585