सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1703, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1703

४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० १ अ० ३ सू० १३.

पञ्चाग्निविद्यायाश्चैषा व्यवस्था । चित्तशुद्धिभावाभावाभ्यां वा अवश्यं काण्डद्वय- व्यवस्था । एकस्यैतद्वक्तव्यम् । सकामनिष्कामभेदो वा । वेदान्तिनामपि पापार्थं यमापेक्षणात् सा गतिर्वक्तव्यैव । तस्मान्न सर्वेषां सोमगतिः ॥ १३ ॥

भाष्यप्रकाशः। हि तैत्तिरीयाणां श्रुतिः, सा च वैदिकानपि सङ्ग्रहीष्यति, तस्या गृह्यस्मार्तैकपरत्वे नियामकाभावात्, अतो न पूर्वोक्ता व्यवस्थायुक्तेत्याशङ्क्य पक्षान्तरमाहुः चित्तेत्यादि । यस्य चित्तशुद्धिस्तस्योत्तर- काण्डोक्तः पञ्चाग्निसंबन्धः । यस्य न सा, तस्य 'न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्, अयं लोको नास्ति पर इति मानी पुनःपुनर्वशमापद्यते मे' इति यमवचनश्रुतेः पूर्वकाण्डोक्ता वैवस्वतगतिरित्येवं श्रौतपरत्वेनैव तदुभयव्यवस्था मन्तव्या । तत्र हेतुः अवश्यमित्यादि । गतिर्हि पञ्चाग्नियमभेदेन काण्डद्वयेप्युक्ता । यदि तत्र व्यवस्था काचिन्नोच्येत, तदा गतिद्वयं सङ्कीर्येत । अतस्तदभावार्थमवश्यं काण्डद्वयस्य व्यवस्था । तत्र एकस्य येन केनापि प्रकारेण जघन्य- स्योत्तमस्य च यथायथमेतद्गतिद्वयमसंकीर्णं वक्तव्यम् । सङ्गफलयोस्त्याग एव यज्ञादीनां पावन- त्वस्य गीतायामुक्तत्वात् । पूर्वोपपादितः सकामनिष्कामभेदो वा तदर्थं वक्तव्यः। अन्यथा एकतर- श्रुतिव्याकोपस्य दुष्परिहरत्वादिति । ननु पूर्वकाण्ड एवेयं व्यवस्था भवतु, उत्तरकाण्डे तु ज्ञानस्य प्राधान्यात् तस्य च सर्वकर्मदाहकत्वान्नैतद्व्यवस्थोपयोग इत्याशङ्कायामाहुः वेदान्तिनामित्यादि । तथाच 'सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि' 'न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृ'दिति वाक्यात् कर्म तु नियतम्, ज्ञानं तूपायसाध्यत्वान्न श्रवणमात्रात् सर्वस्योत्पद्यते । अतस्तेषामपि सा वक्तव्यैवेति 'ये वै'ति श्रुतिः पूर्वोक्त एव विषये सङ्कोच्येत्यर्थः ॥ १३ ॥

रश्मिः। इति । व्यवस्थेति । यमवैवस्वतयमयोश्च श्रौतस्मार्तभेदेन । व्यवस्थेति । व्यवस्था अयुक्तेति पदच्छेदः । चित्तेति । चित्तस्य शुद्धितस्या भावाभावाभ्याम् । एवेति । गृह्यस्मार्तव्यवच्छेदकोऽ- यम् । सकामेति भाष्यं विवृण्वन्ति स्म सङ्गेति । एवेति । सङ्गाद्धरिणस्य जडभरतस्य, कामफलात् अजामिलस्य चित्तकालुष्येणापावनरूपेण जन्म यमदूताभ्यां क्लेशो दृष्ट इत्येवकारः । गीताया- मिति । अष्टादशाध्याये । 'एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्' । 'यज्ञो दानं तपश्चैव पावनानि मनीषिणा'मिति । पूर्वेति । वेदे हीत्याद्युक्तपूर्व- भाष्येणोपपादितः । तदर्थमिति । पञ्चाग्निविद्यायाः यमगतेश्च व्यवस्थार्थम् । एकतरेति । पञ्चाग्निय- मगतिप्रतिपादिकयोः श्रुत्योरेकतरेत्यादिः । एवेति । उत्तरकाण्डव्यवच्छेदकः। वेदान्तिनामित्यादीति । पापार्थमिति । पापनिवृत्त्यर्थम् । 'अर्थोऽभिधेये'ति कोशात् । सेति । यमगतिः । एवेति । विकर्मपाते हृदि सन्निविष्टस्य धूननकर्तृत्वेनाभावादेवकारः। तस्मादिति । 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽ- र्जुने'ति वाक्याविषयाणामपि सत्त्वात्तेषां यमगतेः सत्त्वान्न सर्वेषां सोमगतिरित्यर्थः । पूर्वोक्त इति । 'वेदे ही'त्याद्युक्ते । अन्यपक्षत्वादेवकारः । विषय इति । निष्कामे ॥ १३ ॥