भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1702, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1702

An accurate line-by-line transcription of the text from the image:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४७ पूर्वजन्मधर्मस्य चित्तशुद्धावुपयोगः । तदानीन्तनस्य गङ्गास्नानादेः श्रौताङ्ग- त्वम् । अतः पापस्याभावात् पुण्यस्योपक्षीणत्वात् तस्य पञ्चाग्निप्रकार एव । ज्ञानो- पयोगिजन्मनि पापसंश्लेषाभावोपायमग्रे वक्ष्यति । पितृमेधप्रथमाहुतिमन्त्रस्तु मन्त्रत्वाच्चमसवन्न गतिनियामकः । त्रेताग्निविचाररहितानां पुण्यपापोपभोगो यम एव । 'वैवस्वते विविच्यन्ते यमे राजनि ते जनाः । ये चेह सत्येनेच्छन्ते य उ चानृतवादिन' इति । यमगतेः भाष्यप्रकाशः। रेवेत्युच्यत इत्याशङ्कायामाहुः पूर्वेत्यादि । पूर्वजन्मधर्मस्येति । पूर्वजन्महीनस्मार्तधर्मस्य । तथाच श्रौतस्य बलिष्ठत्वेन गृह्यस्मार्तस्यैवामुपयोगान् सा नेत्यर्थः । तेन सिद्धमाहुः अत इत्यादि । ननु भवत्वेवं पूर्वनिवृत्तिः, तथाप्युत्तरपापसंसर्गस्त्वनिवार्य इति पञ्चाग्निप्रकारेऽपायः संभाव्यत इति ज्ञानोत्पत्तिस्तु दुर्घटैवेत्यत आहुः ज्ञानेत्यादि । अग्र इति । 'तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशा'- नित्यत्र । ननु ब्रह्मवत्त्वशंसाहिताग्नेर्देहनादिसंस्कारो ब्रह्ममेधः, तद्रहितस्याहिताग्नेर्देहनादिसंस्कारः पितृमेधः, तस्य प्रथमाहुतौ 'वैवस्वतं संगमनं जनानां यमं राजान'मिति मन्त्रे यमंसबन्ध उक्त इति कथं वैदिकानां सोमगतिरेवेत्युच्यत इत्यत आहुः पितृमेधेत्यादि । अयं मन्त्रस्तु 'अर्वाग्बिलश्चमस ऊर्ध्वबुध्न' इति मन्त्रवत् सिद्धार्थबोधकत्वाञ्नाहिताग्निमात्रस्य यमगतिनियामकः । त्रेताग्निबोधकपदा- भावात् । केवलगृह्यस्मार्ताग्निवत्स्वप्याहिताग्नित्वस्य तुल्यतया तैरेव चारितार्थ्याच्च । तस्मान्निष्काम- स्यार्द्धाधानिनोपि सोमगतिरेवेति निश्चयः । अतः परं गृह्यस्मार्तानां गतिं विचारयन्ति त्रेतेत्यादि । पापान्तराभावेपि त्रेताग्निरहित्येन विहिताननुष्ठानस्य जातत्वात् तथेत्यर्थः । तेन सिद्धमाहुः यमगतेरित्यादि । तथाच यमगतेः पञ्चाग्निविद्यायाश्च एषा गृह्यस्मार्तश्रौतभेदेन भिन्ना व्यवस्थेत्यर्थः । ननु 'वैवस्वते विविच्यन्त' इति रश्मिः। यमगतिव्यवच्छेदकः । एवमिति । स्मार्ताधानं पूर्वजन्मीनम् । श्रौताधानमस्मिञ्जन्मनीत्येवम् । सेति । यमगतिः । तेन तदानीन्तनस्येत्यादिभाष्यस्य तज्जन्मकालिकस्य । आदिना विष्णुस्मरणम् । श्रौताङ्गत्व- मिति । श्रौतगृहेऽवान्तरपापनाशकत्वेन तथेत्यर्थो ज्ञापितः । गङ्गास्नानान्मार्जरीहत्याविमोकः । विष्णु- स्मरणेन पिपीलिकादिहत्याया विमोकः । निष्पापिश्रौताधानस्य पञ्चाग्निविद्या ज्ञानभक्त्यङ्गलमिति । अत इत्यादीति । एवेति । मोक्ष्यव्यवच्छेदकः । ननु पुण्यपापक्षये मोक्ष इति कुत एवकार इति चेत् । न । अत्र संदिग्धे विषये पञ्चाग्निप्रकार एवेत्यर्थात् । अपाय इति । निष्पापदेहनाशः । पापसंसर्गस्य सत्त्वात् । विशेपणाभावप्रयुक्तो विशिष्टाभावः । रक्तसरोजस्थले नीलं सरोजं नास्तीतिवत् । दुर्घटैवेति । 'निरवद्यं निरञ्जन'मिति श्रुतेर्यवकारः । कामक्रोधाभ्यां पापकरणात्तामिस्ररूपाविद्यापर्वणश्च । भक्त्युत्प- त्तिश्चेत् 'नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायत' इति वाक्यादेवकारः । आध्यात्मिकशुद्धौ ज्ञानोत्प- त्तिः । आधिदैविकशुद्धौ भक्तिरिति । एवेति । यमगतिव्यवच्छेदकः । सिद्धार्थेति । चमसेऽर्वाग्बिल- त्वोर्ध्वबुध्नतयोः सिद्धयोर्बोधकत्वं मन्त्रे, न तु साध्ययोः । तद्वत्सङ्गमने यमे राजत्ववैवस्वततयोः सिद्धयोः, न तु साध्ययोरर्थयोर्बोधकत्वात् । केवलेति । केवलगृह्यस्मार्ताग्निवत्सु अपि आहिताग्नित्व- स्वेति छेदः । तैरित्यादि । केवलगृह्यस्मार्ताग्निमद्भिः । एवकारः श्रौताग्निमद्व्यवच्छेदकः । तथाच केवलगृह्यस्मार्ताग्निमद्विषया यमगतिरिति भावः । सोमगतिरेवेति । यमगतिव्यवच्छेदक एवेति । तथेत्यर्थ इति । पुण्यपापोपभोगो यम एवेत्यर्थ इत्यर्थः । एवकारव्यावर्त्यवाक्याभावः । तदाहुः वैवस्वत १. इदानीन्तनस्य । 1583