भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1701, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1701

गतिः, सकामा निष्कामा चेति । सकामा यथाकाममनन्तविधा । निष्कामा ज्ञानर- हिता द्विविधा, वैदिकगृह्यस्मार्तभेदेन । तत्र गृह्यस्मार्ते यमः । श्रौते सोमभावः । तत्र श्वेताश्विविधानेन 'निष्कामानामहम्भानां पुण्यः स्या'दित्याधिकारिविशेषणात् विशेषतः सामान्यतश्च प्रायश्चित्तविधानात् । 'यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मा- न्मुच्यत' इति । 'तरति ब्रह्महत्या' मिति च सर्वप्रायश्चित्तविधानात् । ब्रह्मानुभवाभावे सोमगतिरेव । भाष्यप्रकाशः। दृश्यत इत्यर्थः । तत् व्युत्पादयन्ति वेदे हीत्यादि । अर्थस्तु स्पष्टः । श्रौते सोमभाव एवेत्यत्र किं नियामकमित्याकाङ्क्षायां विभजन्ते तत्रेत्यादि । 'निष्कामाना' मिति वाक्यं तु स्मार्तम् । श्रुत्योस्तु तैत्तिरीयशाखायांब्राह्मणस्य प्रथमा । संहिताप्रपाठकाष्टकस्य द्वितीया । पुण्यः स्यादिति । पुण्यो लोको भवेत् । विशेष