भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1700, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1700

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४५ जुहुयात्’ । ‘यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम्’ । ‘न हिंस्याद्भूतजातानि’ । ब्राह्मणादीनामपि त्रिविधकरणं सम्भवति । न हि सर्वोऽप्येकान्ततो विहितं वा प्रतिषिद्धं वा करोति । ततो विहितकर्तुरपि त्रयसम्भवाज्ज्ञानाभावेन फलभोग- नैरन्तर्यात् सोमभावानन्तरमेवाकर्मविकर्मभोगो वक्तव्यः । अत एवाविशेषोपसं- हारौ । तस्मात् सोमभावानन्तरमेव सर्वेषां जन्मेति प्राप्तम् ॥ १२ ॥ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ १३ ॥ तुशब्दः पक्षं व्यावर्तयति । विहितव्यतिरिक्तकर्मणां संयमने यमसंनिधाने सुखं दुःखं वा अनुभूय आरोहावरोहौ । अनुभवार्थमारोहः, अनुभूयावरोह इति । कुतः । तद्गतिदर्शनात् । तेषां गतिर्विसदृशी दृश्यते । वेदे हि प्रथमं विहिता ह्येषा भाष्यप्रकाशः। काधिकारिकः । तेषां च न हीत्यादिनोक्तरीत्या त्रयसम्भवात् । ज्ञानाभावेन फलभोगनैरन्तर्यात् । विहितस्य बलिष्ठत्वेन पूर्वं तद्भोगात् पूर्वं सोमभावः, ततो भुक्ते तस्मिन्नन्ययोर्भोगः । स च भूम्या- दिष्वेवेति ज्ञापनायैव ‘तद्य इह रमणीयचरणा य इह कपूयचरणा’ इत्युभयोरविशेषेणोपसंहारावुक्तौ । तस्मात् सोमभावानन्तरमेव सर्वेषामकर्मविकर्मभोगार्थं जन्म, सोमभावश्च पूर्वोक्तरीत्या द्वाभ्या- मेवेति सर्वेषामेव आहुत्यादिसम्बन्ध इति प्राप्तम् । तथाच पूर्वाधिकरणे यः सर्वेषां सोमभावाभावः प्रतिपादितः, यच्च पञ्चाग्निसिधितदेहानां फलानुशय एवेति निर्णीतम्, तदयुक्तमित्यर्थः ॥ १२ ॥ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ १३॥ पक्षमिति । इष्टा- दिव्यतिरिक्तकारिणां सोमभावप्राप्तिपक्षम् । अनुभवार्थमिति । पुण्यफलानुभवार्थम् । अनुभूयेति । तत्तल्लोके पुण्यफलमनुभूय । तस्मात् स्थानादवरोहः, न तु चन्द्रगतिरित्यर्थः । हेतुं व्याकुर्वन्ति तेषामित्यादि । तेषां विहितव्यतिरिक्तकर्मणां गतिः फलप्राप्तिर्वेदे विसदृशी सोमभावविलक्षणा रश्मिः। षष्ठस्य सप्तमेऽधिकरणे चिन्तितम् । तत इत्यादिभाष्यं विवृण्वन्ति स्म तेषां चेति । सर्वेषां च । उक्तेति । भाष्योक्तरीत्या । सोमभावेत्यत्रानन्तरशब्दार्थमाहुः ततो भुक्त इति । अन्ययोर्द्वयोर्मार्गयोर्वा भोगो वक्तव्य इति भाष्यार्थः । अत एवेति भाष्यं विवृण्वन्ति स्म स चेति । भोगश्च । अत इति सार्वविभक्तिकस्त- सिरित्याशयेनाहुः भूम्यादिष्विति । आदिना द्युलोकः । एवकारः इहेति शब्दात् । ज्ञापनायैवेति । श्रुतेरिहशब्दघटितत्वादेवकारः । तामेवाहुः तद्य इहेत्यादिना । उभयोरिति । योन्योः । मार्गयोर्वा । भाष्ये । अविशेषेणोपसंहारावविशेषोपसंहारौ इत्याशयेनाहुः अविशेषेणेति । तस्मादिति भाष्यं विवृण्वन्ति स्म तस्मादिति । एवेति । विहितसेत्यादिनोपपादनादेवकारः । पूर्वोक्तेति । पञ्चाग्निधूम- मार्गोक्तरीत्या । द्वाभ्यां पञ्चाग्निधूममार्गाभ्याम् । श्रुतत्वादेवकारः । एवेति । पूर्वपक्षोपपादनादेवेति । आहुत्यादीति । आदिना सोमभावः । फलानुशय एवेति । द्वितीयाधिकरणसमाप्तौ फलानुशय एवेत्यस्य प्रकाशस्य रश्मौ व्याख्यातः ॥ १२ ॥ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ १३॥ भाष्ये । संयमने इति । ‘वासः कुटी द्वयोः शाला सभा संयमनं त्विद’मिति सङ्गमनं साधारणं वासः, ‘वैवस्वतं सङ्गमनं जनाना’मिति विशेषवासोऽत आहुः यमेति । विवस्वद्यमस्य संनिधानं भगवतो भवति । घातकशक्ति- 1581