अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1707, कुल 2600 में से
संदर्भ में पढ़ेंयहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-वार लिप्यन्तरण (Markdown format) दिया गया है:
५२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० १ अ० ४ सू० १८. रेव हेतुत्वेन निरूपणम् । विद्यया देवयानम्, कर्मणा सोमभाव इति । तयोरेव प्रकृतत्वात् कारणत्वात् । तेन कौषीतकिब्राह्मणेपि प्रकृतत्वात् कर्मिण एव सर्व- शब्देनोक्ताः । अत्रापि न यममार्ग उक्तः । तस्मात् विद्याकर्मणोर्मुख्यत्वान्मार्ग- द्वयमेवोक्तम् । नैतावता तृतीयबाधः ॥ १७ ॥ न तृतीयेऽतथोपलब्धेः ॥ १८ ॥ ननु द्वयोः स्तुत्यर्थं यस्तृतीयो मार्ग उक्तः, ‘अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ती'त्यादिना ‘जुगुप्सेते'त्यन्तेन तृतीयनिन्दया द्वयोः स्तुतिरिति स एव तृतीयोऽस्तु, किं यममार्गेणेत्यत आह । न तृतीये मार्गे तथा पुण्यपापयोरुपभोग उपलभ्यते । यतः समानब्राह्मणे भाष्यप्रकाशः। सोमभाव इति । प्रथमाहुतिफलात्मकः पितृयाणात्मकधूममार्गोक्तश्च सोमभावः । तयोरेव प्रकृतत्वात् कारणत्वादिति । मुख्यफलार्थं 'तद्य इत्थं विदु'रिति विद्यायाः, गौणफलार्थं 'य इमे ग्राम' इत्यादिना कर्मणश्च कारणत्वेन प्रकृतत्वात् । तथाच प्रकृतत्वाभावात् तदनुक्तिः, न तु यमगत्यभावादित्यर्थः । एतदेव स्फुटीकुर्वन्तो द्वितीयामपि शङ्कां परिहरन्ति तेनेत्यादि । मार्गद्वयमेवोक्तमिति । इदं सौत्रस्येतिशब्दस्य व्याख्यानं ज्ञेयम् ॥ १७ ॥ न तृतीयेऽतथोपलब्धेः ॥ १८ ॥ किञ्चिदाशङ्क्य परिहरतीत्याशयेनाहुः ननु द्वयोरि- त्यादि । इत्यत आहेति । यतः पूर्वसूत्रोक्तेऽर्थे एवमाशङ्कोत्पद्यते, अतस्तन्निवर्तकं हेतुमाहेत्यर्थः । यद्वा । अत्र 'न तृतीये मार्गे' इत्यादिकं सूत्रसिद्धार्थकथनम् । सूत्रयोजना त्वेवम् । न, यममार्गबाधो न । कुतः । तृतीयेऽतथोपलब्धेः । 'तानीमानी'त्यादिनोक्ते मार्गे यमगतिविलक्षणपापभोगोपलम्भा- दिति ज्ञेया । यतः समानब्राह्मण इत्यादिना तदुपपादनम् । समानब्राह्मणं च बृहदारण्यकस्थम् । तत्र 'कीटा' इत्यादिना क्षुद्राणि भूतानि निष्कृष्यन्ते । तादृश्यां योनौ निर्वृतिस्तु महाभारते रश्मिः। विद्याया इति । पञ्चाग्निविद्यायाः । प्रकृतत्वादिति । प्रकृतत्वादित्यस्य सौत्रपदस्य कारणत्वादित्यर्थः । तदनुक्तिरिति । तृतीयचित्रगुप्तपक्षानुक्तिः । स्फुटीति । तेनेत्यारभ्य उक्त इत्यन्तेन । अत्रा- पीति । पञ्चाग्निविद्यायाम् । एवोक्तमिति । तुरेवकारार्थ इति भावः । भाष्ये । एतावतेति । पक्षाविष- यमार्गोक्त्या । तृतीयबाध इति । सोममार्गों यमगतिश्चेति पक्षद्वयम् । चित्रगुप्तपक्षस्तृतीयः । तथा चात्र मार्गत्रयं पक्षत्रयं च । तथाच तृतीयपक्षबाध इत्यर्थः ॥ १७ ॥ न तृतीयेऽतथोपलब्धेः ॥ १८ ॥ भाष्ये । उक्त इति । छान्दोग्ये मार्गद्वयोक्त्यनन्तर- मुक्तः । अथैतयोरिति । पञ्चाग्न्यादिचतुष्टयानन्तरम् । तृतीयोऽस्त्विति । पक्षोऽस्तु । यम- मार्गेणेति । चित्रगुप्तपक्षेण । प्रकृते । यद्यपि पुण्यपापभोगस्योपलब्धेरिति कर्मणि क्तिन्बुधुपलभ्यते, तथापि भावेक्तिन्नन्तस्य प्रयोगे न सम्भवतीत्याशयेनाहुः यद्वेति । यममार्गेति । मार्गपक्षयोरभेदेन पक्षस्थले मार्गशब्दः । यमगतीति । उपलम्भसुन्दे भावे घञोपलब्धेरित्यत्र भावेक्तिन्नोऽविरोध इति भावः । १. अतथोपलम्भेरिति श्रीपुरुषोत्तमानां संमतः पाठः, अन्ये तु तथोपलब्धेरिति पठन्ति । २. क्षेत्राणि । 1588