अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1708, कुल 2600 में से
संदर्भ में पढ़ें[भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५१]
'कीटाः पतङ्गा यदि दन्दशूक'मिति योनौ निर्वृत्तेर्विद्यमानत्वान्न महत्पापोपभोगः१ । नापि कीटादिषु महासुखोपभोगः । एकवाक्यता चोभयोर्युक्ता । यद्यपि महाराजा- दिराजदण्डादिषु तथोपभोगः सम्भवति, तथापि रम्भादिसम्भोगे नरके च यथा,
भाष्यप्रकाशः ।
कीटोपाख्यानात् बोध्या । तथाच यममार्गे यादृशः सुखदुःखभोगः, तादृशो न छान्दोग्योक्ते तृतीयमार्गे इति न तेन तस्य गतार्थतेत्यर्थः । ननु योनिनिर्वृत्त्या पापभोगवैलक्षण्यसाधनमुक्तम्, 'नरकस्योपि वै जन्तुर्न देहं मोक्तुमिच्छति । नारक्यां निर्वृतौ सत्यां देवमायाविमोहित' इति तृतीयस्कन्धे नरकेपि निर्वृत्तिकथनात्, अतो न तृतीयस्य यममार्गाद्वैलक्षण्यमित्यत आहुः एकवाक्यतेत्यादि । 'तानीमानी'त्यादिनोक्तस्य उभयोर्देवयानपित