अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1710, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५५ तिनियमाभावस्तु ज्ञानोपयोगिदेहेऽप्यंशावतरणे पुष्टिमार्गत्वान्न तत्र दोषः ॥ १८ ॥ स्मर्यतेपि च लोके ॥ १९ ॥ साधकान्तरमाह । अपि च लोकेपि मूर्च्छादिषु यमलोकगमनसम्भाषण- पुनरागमनानि स्मर्यन्ते ॥ १९ ॥ दर्शनाच्च ॥ २० ॥ यमपुरुषा दृश्यन्तेपि कैश्चिदजामिलप्रभृतिभिः । चकारात् तेषां वाक्यादि- श्रवणम् । तस्मात् वैवस्वतमार्गे न किमपि बाधकमिति सिद्धम् ॥ २० ॥ इति तृतीयाध्याये प्रथमपादे चतुर्थं विद्याकर्मणोरित्यधिकरणम् ॥ ४ ॥ भाष्यप्रकाशः। तद्देहस्य ज्ञानानुपयोगित्वमिति नात्र यममार्गप्रवेशः शक्यवचन इत्यर्थः । तस्मादित्यादि । ननु मास्त्वेवमाहुतिक्रमभङ्गः, तथापि विदुरार्जुनादौ सोमादिभावाभावात् संख्यानियमस्तु भग्न एवेत्यत आहुः पञ्चेत्यादि । तत्रेति । मर्यादामार्गे ॥ १८ ॥ स्मर्यतेपि च लोके ॥ १९ ॥ दर्शनाच्च ॥ २० ॥ एतत्सूत्रद्वयभाष्यं त्वतिरोहितार्थम् । एवञ्च सिद्धे यममार्गे 'जायस्वे'ति तृतीयस्यापि विवेचकसापेक्षत्वात् तन्निवेशः, न तु तस्य 'जायस्वे'ति मार्गे इति सिद्धमिति भावः ॥ १९ ॥ २० ॥ इति चतुर्थ विद्याकर्मणोरित्य- धिकरणम् ॥ ४ ॥ रश्मिः। क्लिन्नो भवति । जले स्थातुमप्यशक्तः, अयं तु मीनवत्स्थातुं शक्तः क्लिन्नो भवत्येवेति । न चात्मसहचर इति मृगशरीरभरतस्य तस्मिन्नाद्ये विशेषणाजीवसहितवृष्टिः पुरुषवचा इति वाच्यम् । एकाकीत्यर्थेन जीवप्रापकत्वाभावात् । नेति । 'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती'ति क्रमभङ्गो न । क्रमस्य भरतदेहपर्यन्तत्वात् । ब्रह्मभावं गतस्य जातदेहाभेदो देहद्वयेन योगिनामिव समवाय्य- भेदो मृद्घटवदित्येवकारो भाष्ये बाल्यादिवदेवेत्यत्र । एवमिति । अभेदेन पूर्वदेहस्य । सोमादीति । दासीपुत्रो विदुरः, इन्द्रादिपुत्रा अर्जुनादयः, तत्र ज्ञानोपयोगिदेहमात्रम्, न सोमादिभावः, अस्मरणान् । संख्येति । पञ्चाहुतिपञ्चसंख्यानियमः पञ्चेत्यादीति । अंशावतरण इति । विदुरादयोंशावतारा इति भावः । मर्यादेति । 'पार्थांस्तु देवो भगवा'निति वाक्यात् पुष्टिमर्यादायामङ्गीकारादिति भावः ॥१८॥ स्मर्यतेपि च लोके ॥ १९ ॥ दर्शनाच्च ॥ २० ॥ अतिरोहितेति । साधकान्तरेति । वैवस्वतमार्गे तथा । अजामिलेति । प्रभृतिशब्देन नृगादिः । वाक्यादीति । आदिना तदभाव- सजातिश्च । येनेन्द्रियेण यद्गृह्यते, तेनैवेन्द्रियेण तद्गता जातिस्तदभावश्च गृह्यत इति । एवमतिरोहितार्थ- मित्यर्थः । यममार्ग इति । यमगतिरूपे । विवेचकेति । मार्गत्वविवेचकगतिसापेक्षत्वात्तस्मिन् यमग- तिरूपे । तस्येति । यममार्गस्य यमगतित्वरूपेण ॥ १९ ॥ २० ॥ इति चतुर्थं विद्याकर्मणोरित्य- धिकरणम् ॥ ४ ॥ 1591