अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1711, कुल 2600 में से
संदर्भ में पढ़ें५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० १ अ० ५ सू० २१. तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥ ( ३.१.५ ) तृतीयामाहुतिं विचारयति । तत्र 'वृष्टेरन्नं भवती'ति तृतीयाहुतिः सफला । पूर्वद्वयं शब्दैकसमधिगम्यम् । 'वृष्टेरन्न'मिति साधनफलयोः प्रत्यक्षत्वान्न वृष्टिमात्रे- णान्नं भवति बीजव्यतिरेकेण । बीजस्य हि फलम् । न निमित्तमात्रेण तद्भावो वक्तुं शक्यते । तस्मादसङ्गतं वृष्टेरन्नमित्याशङ्कयाह । तृतीयशब्दावरोधः । तृती- याहुतौ शब्देन शब्दसाम्येन कारणभूतस्य जलस्य अवरोधो ग्रहणम् । 'सदेव सोम्येदमग्र आसी'दित्यत्र 'तत् तेज ऐक्षत, बहु स्यां प्रजायेयेति, तदपोऽसृजत, तस्माद्यत्र क्वच शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापो जायन्त' इत्यत्र कारणरूपाणां निरूपणे शोकजत्वमपामुक्तम् । अग्रे च 'तस्मात् यत्र क्वच वर्षति, तदेव भूयिष्ठमन्नं भवती'ति । अतः पञ्चाग्निविद्यायामपि देवहोमात् कारणभूतैव वृष्टिर्जातेति नात्र बीजान्तरापेक्षा । शोकपदेन 'यदश्रुवशीयत तद्रजतं५हिरण्यम- भाष्यप्रकाशः। तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥ अधिकरणप्रयोजनं वदन्तोवतारयन्ति तृतीयामित्यादि । तथाच तृतीयाहुतावेतादृशशङ्कोत्थानात्तां विचारयतीत्यर्थः । सूत्रं व्याकुर्वन्ति तृतीयाहुतावित्यादि । शब्दसाम्येनेति । अन्नफलजनकहोम्यवाचकस्य वर्षशब्दस्य जलसंग्राह- कतया कारणभूते कार्यभूते च जले तुल्यत्वेन । हेतुं व्याकुर्वन्ति सदेवेत्यादि । उक्तमित्यन्तेन । आसीदित्यत्रेति । अस्मिन् सन्दर्भे । जायन्त इत्यत्रेति । अस्मिन् वाक्ये । तथाचात्र कारण- भूतानामपां शोकजत्वकथनादित्यर्थः । ननु तासां शोकजत्वकथने कथं प्रकृते कारणरूपजलसिद्धि- रित्यत आहुः अग्रे चेत्यादि । तथाच कारणरूपाणां प्रक्रमात् पश्चादन्नकारणत्वेन तत्कथनात्त- त्सन्दष्टत्वेन शोकजानामपि कारणरूपत्वमेवाभिप्रेतमित्यर्थः । अत इति । उक्तरीत्या कारणरूपाणां वर्षेणान्नात्मकफलकथनात् । अत्र च होतारो देवा अप्याधिदैविका भगवदवयवभूता एव बोध्याः । वैदिकसृष्टेरतिरिक्तत्वस्य प्रथमाध्याये एव व्यवस्थापनादिति । नन्वेवं सति शोकपदकथनस्य किं प्रयोजनमत आहुः शोकेत्यादि । इयं श्रुतिस्तु तैत्तिरीयसंहिताप्रथमकाण्डीयपञ्चमप्रपाठकार- रश्मिः। तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥ हेतुमिति । संशोकजस्येति हेतोरिति सम्बन्धसामान्यविवक्षायां षष्ठीत्याशयेनोक्तं हेतुपदम् । संशोकजशब्दो भावप्रधानः संशोकजत्वस्येत्यर्थः । तथा च संशोकजत्वादिति हेतुस्तम् । शोकजत्वेति । संशोकजस्येति भावप्रधानमित्युक्तम् । हेतुता- सम्बन्धविवक्षायां षष्ठी सम्बन्धसामान्ये इति भावः । यद्यपि