भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1712, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1712

भव'दिति सहायः सूचितः । यद्यपि तत्रान्नाशब्देन पृथिवी, तथाप्यत्र पृथिव्या अग्निसमिद्रूपत्वादन्नमेव । तस्मात् कारणशक्तियुक्ताया वृष्टेरन्नं भवतीति न काप्यनुपपत्तिः ॥ २१ ॥ साभा व्यापत्तिरुपपत्तेः ॥ २२ ॥ किञ्चिदाशङ्क्य परिहरति । ननु कारणजलरूपवृष्टिरन्नं वक्तुं न शक्यते, यतः समानधूममार्गश्रुतौ वृष्टेरन्नभावे ऐक्ये वा 'तस्मिन् यावत्सम्पातमुषित्वा अथैत- मेवाध्वानं पुनर्निवर्तन्ते, यथेतमाकाश'मित्यादिना 'तिलमाषा इति जायन्त' इत्य- न्तेन । तत्र 'यथेत'मित्याकाश एव । 'आकाशाच्चन्द्रमस'मिति पूर्वमुक्तत्वादाकाशस्य भाष्यप्रकाशः। म्भस्था । तथाच भौतिकानामप्यपां कारणत्वस्य श्रुत्यन्तरेणोपष्टम्भार्थं तथा कथनमित्यर्थः । अग्नि- समिद्रूपत्वादिति । छान्दोग्येऽग्निरूपत्वात् बृहदारण्यके समिद्रूपत्वात् । शेषं स्फुटम् ॥ २१ ॥ साभा व्यापत्तिरुपपत्तेः ॥२२॥ सूत्रमवतारयन्ति किञ्चिदित्यादि । ऐक्य इति । पञ्चाग्नि- मार्गधूममार्गयोरभेदे । समाने धूममार्गे ऐक्ये वा वृष्टेरन्नभाव इत्यन्वयः । इत्यन्तेनेति । विरोधा- दिति शेषः । विरोधं व्युत्पादयन्ति तत्र यथेत्यादि । तत्र श्रुतौ 'यथेत'मित्यनेनोक्तं पुनर्निवर्तनमा- रश्मिः। धिकरणव्यत्ययः । शपः स्थाने श्यन् अलोपश्च । अद । यद्यपीति । अन्नापां द्रव्यजनकत्वेन सहायः सूचितः, सः 'अद्भ्यः पृथिवी'ति श्रुत्युक्तः, न विलक्षणः, अतो नात्रोपयुज्यत इति यद्यपीत्यादिग्रन्थेनो- क्तम् । तत्रेति । संहितायां यत्र कुत्रचित् अन्नशब्देन पृथिवी । 'पृथिवी वा अन्न'मिति तैत्तिरीयो- पनिषच्छ्रुतेः । अत्रेति । उत्तरमीमांसायाम् । प्रकृते । उपष्टम्भेति । भाष्यीयसहायपदार्थः । सहाय उपष्टम्भस्तदर्थम् । अग्नीति । 'पृथिवी वा गौतमाग्नि'रिति श्रुतेः । समिदििति । 'अयं वै लोकोऽग्निर्गौतम तस्य पृथिव्येव समि'दिति श्रुतेः । अन्नमेवेति भाष्ये । 'देवा अन्नं जुह्वती'ति श्रुतौ । ननु 'अद्भ्यः पृथिवी'तिश्रुतेरब्जन्यान्नं पृथिवीति चेत् । न । एवेत्यवधारणात् । तथाच श्रुतिः 'तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवती'ति । न हि वर्षेण पृथिवी भवति । दृष्टविरोधात् । अतः पृथिव्या व्यवच्छेदक एवकारः । कारणेति । आविर्भावशक्तियुक्तायाः । आविर्भावशक्त्याधारस्य कारणत्वात् । घटोत्पत्त्यनन्तरमाविर्भावशक्त्याधारत्वमिति चेदस्तु तथा व्यवहारात् प्रागभावाभावान्न घटोत्पत्तिः॥२१॥ साभा व्यापत्तिरुपपत्तेः ॥ २२ ॥ सा आभा व्यापत्तिः उपपत्तेरिति चतुष्पद- मिदं सूत्रम् । भाष्ये । समानेति । अर्चिरादिमार्गेण समाने । उभयत्र चन्द्रगतिदर्शनात् 'आदि- त्याच्चन्द्रमस'मिति 'आकाशाच्चन्द्रमस'मिति क्रमेण । 'यदेव विद्यया करोति' इति श्रुत्योक्तं स्मारितम् । वेदान्ते जैमिनिमतवत् । अन्यथा वेदान्ते धूममार्गः कस्मै प्रयोजनाय स्यात् । तस्माच्छान्दोग्यीयप्रव- क्ष्यमाण'जायस्व म्रियस्वे'ति मार्गे विलक्षणयमगतिसहितचन्द्रगतिसमानधूममार्गश्रुतौ वृष्टेरन्नभावे 'मेघो भूत्वा प्रवर्षति त इह व्रीहियवा' इत्यादिश्रुत्युक्तेः । तेन जीवमात्रहोमोऽत्र ज्ञेयः । 'तं प्रेतं दिष्टमितोऽग्नय एव हरन्ती'ति सावधारणश्रुतेः पञ्चाग्निविद्याविषयत्वेन धूममार्गे 'अथ य इम' इत्यथशब्देन भिन्नो- (पक्र)माच्च न धूममार्गे, श्रद्धाहोमाभावात् । प्रवर्षतीति प्रवर्षणं तु विद्यात्वा'त्तदपोऽसृजते'ति श्रुत्या भविष्यति । जीवकृतवृष्टेर्जीवेन सहान्नभाव इत्यर्थः । जैमिनिमते त्वाह । ऐक्ये वेति । पूर्वत्र जीवस्य नैक्यं वृष्टेरैक्यमत्र तूभयोरिति विशेषः । तथाच श्रुतिः 'अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्यात् जीवन्स्रवे'दिति । स्पष्टार्था । समानत्वप्रपञ्चार्थं विरोधं व्युत्पादयन्ति स्म तत्र यथेति । इतं गतं ब्र० सू० २०८ 1593