भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1713, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1713

मार्गतैव । 'वायुर्भूत्वा धूमो भवती'त्यादिषु तत्तद्भावः श्रूयते । ते च विकृताः । तदनन्तरभावित्वात् वृष्टिरपि विकृतैव । तस्मान्न कारणत्वमित्याशङ्क्य परिहरति । सा वाय्वादिरूपापत्तिराभा व्यापत्तिरेव । वायुवदाभा आभासम् । मध्ये वायुमण्डलेनागच्छन्ती आहुतिर्वायुभवनशब्देनोच्यते । आकृतेरेव पदार्थत्वात् । भाष्यप्रकाशः । काश एव । 'आकाशाच्चन्द्रमस'मिति पूर्वमारोहे उक्तत्वात् । नान्ने । आरोहावरोहाध्वनोर्भेददर्शनात् । अत आकाशस्य मार्गतैव, न तु जीवस्याकाशरूपेण भवनमपि । तत्राकाशो भूत्वेत्यश्रवणात् । अग्रे तु 'वायुर्भूत्वे'त्यादिषु तत्तद्भावः श्रूयते । ते च वाय्वादयो विकृता जन्याः । तदनन्तरभावित्वात् । अतस्तथेत्यर्थः । परिहारं व्याकुर्वन्तो भावशब्दे परे समानशब्दस्य सादेशः पाणिनीयविरुद्ध इत्यत एक- देशिकृतव्याख्यानं प्राञ्जलमपि परित्यज्य प्रकारान्तरेण व्याकुर्वन्ति सेत्यादि । ननु वाय्वादि- व