भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1714, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1714

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५९ च्यापत्तिशब्देन च तेजोभावापन्नस्य जलभावापत्तौ कान्तिनाशान्नाश इवेति गो- णयति । कुतः । उपपत्तेः । तथैवोपपद्यते, चित्रतुरगादिषु । विकारस्य विकारा- न्तरापत्तावियमेव व्यवस्था । उपासनायां न तदपि । नच 'भूत्वा' श्रुतेर्बाधः । भाष्यप्रकाशः । 'सर्वाणि रूपाणि विचित्ये'त्यादिश्रुत्या तानि तानि पदानि तस्यां तस्यामाकृतावेव व्यवहारार्थं भगवता नियमितानि । अतस्तद्भावानेऽप्याकृतिसद्भावान्न भवनोक्तिविरोध इत्यर्थः । नन्वयं गौण्येव इत्यत्र किं गमकमित्याकाङ्क्षायां हेतुं व्याकुर्वन्ति तथेत्यादि । तथाच यद्येवं न स्यात्, तदा चित्रतुरगादावपि तुरगादिपदप्रयोगो मुख्यवृत्तः स्यात्, तदा तुरगादिसाध्या अर्थक्रियापि तेन स्यात्, सा च न दृश्यत इति गौण्येव तत्र निश्चीयत इत्युपपत्तिरेव तद्गमिकेत्यर्थः । एतं न्यायमन्यत्राप्यतिदिशन्ति विकारस्येत्यादि । इयमिति । तत्तुल्याकृतिस्वरूपा । यथा 'विप्रो भूत्वाथ वृत्रहे'त्यादौ । उपासनायामिति । 'वाचं धेनुमुपासीते'त्याद्युपासनायाम् । तथाच तादृशस्थले किञ्चिदाकृतिसादृश्येपि चेत् तादृक्प्रयोगः, तदा भूयःसादृश्ये किं वाच्यमित्यर्थः । ननु तथापि तद्भावाभावे 'भूत्वा'श्रुतिर्बाध्येत, अतो नात्र गौणी युज्यत इत्यत आहुः नचेत्यादि । रश्मिः । य इमे ग्राम इष्टापूर्ते दत्त इत्युपासते' इति श्रुतेः । इष्टमग्निहोत्रखातादिकर्मणी । दत्तं बहिरर्थिभ्यो द्रव्यदानम् । ननु गुणः को येन गौणीति चेत् । न । अन्तरिक्षस्थत्वं गुणस्तद्योगात् । 'वायुर्वा अन्त- रिक्षस्याध्यक्ष' इति पूर्वकाण्डश्रुतेः । वाजसनेयके आहुत्यन्तरिक्षस्थत्वम् । 'ते वा एते आहुती हुते उत्क्रामतस्तेऽन्तरिक्षमाविशतस्ते तत आवर्तेते' इति श्रुतेः । प्रकृते । आकृतावेवेति । व्यक्तौ एवकारो जातिव्यवच्छेदकः । आकृतिर्जातिरिति मीमांसकाः, तन्नात्रेत्याहुः अतस्तद्भवदिति । गौण्येवेत्येवकारेण मुख्याव्यवच्छेदः । गौणीति । आहुतिः । वायुभवनमित्यत्र वायुभवनशब्दस्यान्तरिक्षस्थत्वधर्मलक्ष- कत्वं तात्पर्यमात्रेण लक्षकत्वं लक्षणाबीजतात्पर्यानुपपत्तिप्रतीकेन । तादृशगुणयोगः आहुतौ 'माणवकं पश्यन् सिंह इति प्रयुङ्क्ते' तत्र सिंहपदलक्षिततदीयक्रौर्यगुणयोगो माणवके यथा, तेन सिंहत्वेन मानव- कबोधः, तथा वायुभवनेनाहुतिबोधः । घटः पृथिवीत्यत्रेव । अत्र पृथिवीत्वेन बोधः, न घटत्वेनेति । हेतुमिति । उपपत्तिरूपम् । अर्थक्रियेति । अर्थो मुख्योऽश्वस्तस्य क्रिया चलनादिः । आभाव्या- पत्तिविशिष्टेन चित्रतुरगादिना । गौण्येवेति । मुख्या व्यवच्छिद्यते एवकारेण । तत्रेति । 'वायुर्भूत्वे'- त्यत्र । वायुभवनं कृत्वेत्यर्थः । सर्वेषां धातूनां प्रत्ययान्तानां भवतीत्यादिषु करोतिना विवरणात् । 'करोतिशब्दा'दिति जैमिनिसूत्रात् । एवेति । हेत्वन्तराकथनादेवेति । तद्गमिकेति । विप्र इति । विप्र- भवनं कृत्वा तदनन्तरं वृत्रहा । विप्रभवनं तदीयतमोगुणलक्षकम् । तादृशगुणयोगो वृत्रघ्नीति विप्रो वृत्रहेति । वृत्रहा इन्द्रः । देवेषु ब्राह्मणादिवर्णाः सन्ति । आदिना चित्रतुरगस्य विकारस्य मुख्याश्वस्य विकारान्तरस्यापत्तिस्तत्राभाव्यापत्तिरुपपत्तेः । इत्यादावित्यत्रेतिशब्दात्प्रकारवाचकात् षष्ठ्यालुक् इति प्रकारस्यादावित्यर्थः कर्तव्यः । इयमित्यस्य भाष्यीयं व्यवस्थेत्यर्थात् । आदिशब्दार्थोऽन्यो वा । इदं व्यवस्थामात्रम् । भाष्ये । एवकारः सौत्रत्वेनाप्रामाणिकत्वव्यवच्छेदकः । वाचमिति । शब्दात् । दृष्टिपक्षे वाचं शब्दं धेनुवपुषम् । 'उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पने'ति श्रुतेः । अनेकरूपस्य शब्दब्रह्मणो यत्किञ्चिद्रूपे तत् अव्ययम् । सा आभाव्यापत्तिरपि न । उपासकस्याभादर्शनात् । आदिना 'सर्वं खल्विदं ब्रह्मेति शान्त उपासीते'ति । जगदन्तर्गतभगवत्प्रतिकृत्यादिषु । किञ्चिदिति । बह्वीषु शब्दब्रह्माकृतिषु यत्किञ्चिदाकृतिसादृश्येपि तादृग्धेनुपदप्रयोगः, तदा भूयः सादृश्ये भक्तिमार्गीये सेव्य- स्वरूपे साक्षाद्भगवानयमिति प्रयोगे किं वाच्यमित्यर्थः । तद्भावेति । वाय्वादिभावाभावे । नात्रेति । 1595