अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1715, कुल 2600 में से
संदर्भ में पढ़ें६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० १ अ० ५ सू० २३० प्रतिनियतपदार्था हि ते। भवनावरोहाभ्यामेव तथा वचनात् । अन्यस्यान्यभावं वदन्ती श्रुतिरेव गौणत्वं वदति। कारणांशभावव्यतिरिक्तस्थले तथैव प्रतीतेः। तस्मात् तदाकृतिमात्रेण न स्वरूपान्यथाभावः ॥ २२ ॥ नातिचिरेण विशेषात् ॥ २३ ॥ उपपत्त्यन्तरमाह । तद्रूपता च नातिचिरेण । न बहुकालं तद्रूपता । कुतः। विशेषात् । अन्नभावापन्नस्यैव बहुकालश्रवणात् । 'अतो वै खलु दुर्निष्प्रपतर' मिति । प्रापतरं प्रपतरं वा । वर्णलोपश्चान्दसः । अतस्तृतीयाहुतौ न चिरेणेत्यायाति । भाष्यप्रकाशः। प्रतिस्वरूपं नियतेषु वाय्वादिष्वाहिते निविष्टे जीवे ताद्रूप्यभवनावरोहाभ्यामेव 'भूत्वे'त्यस्य वचनात् । तदेव