अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1722, कुल 2600 में से
संदर्भ में पढ़ेंहूयमानं निरूप्य फलं निरूपयति । 'तस्या आहुतेर्गर्भः सम्भवती'त्युच्यते । तत्र सन्देहः । योनावन्तःस्थितमेव फलम्, बहिर्निर्गतं वेति । तत्र गर्भशब्देना- न्तःस्थित एव । शरीरपरत्वे श्रुतिबाधः स्यात् । उपसंहारोप्यग्रे कर्तव्याभावादुप- पद्यते । ततश्च षण्मासानन्तरं गर्भे ज्ञानसम्भवाज्जननानन्तरं न गुरूपसत्त्यादि कर्तव्यमित्याशङ्क्य, परिहरति । योनेर्निर्गतं शरीरं गर्भशब्देनोच्यते । अग्रेरुत्पत्ति- भाष्यप्रकाशः। एव जीवः शुद्धस्तिष्ठति, न त्वन्योपि। अन्यथा बहव एव श्वादिवदुत्पद्येरन्, नत्वेक इत्यर्थः ॥२६॥ इति सप्तमं रेतःसिग्योगाधिकरणम् ॥ ७ ॥ योनेः शरीरम् ॥२७॥ सूत्रप्रयोजनमाहुः हूयमानमित्यादि । उपसंहार इति । 'इति रश्मिः। योगशब्दस्य किं प्रयोजनमित्यत उक्तं योगशब्देनेति । रेतःसिचि योग इति योगशब्देन । अन्ना- पीति । रेतस्यपि । अन्याधिष्ठाने अन्येषां जीवानामधिष्ठाने रेतःसिग्योगाभावो न । अयमर्थः । रेतः- सिक्शब्दो रूढः । 'रूढिर्योगमपहरती'ति प्रसिद्धेर्नैयायिकानाम् । तेन रेतःसिक्शब्दः एकजीवयुक्त- रेतसि रूढः, सोऽन्याधिष्ठाने रेतसि सति पुरुषे न प्रवर्तते । अतोऽनेकजीवयुक्तोजः सिचि प्रवृत्त्यर्थं योग आदर्तव्यः । अवयवशक्तिरूपः । तथाच रेतःसिग्योगाभावो न अनेकजीवयुक्तरेतःसिचि । अतो यमले ज्ञानोपयोगिदेहसत्त्वान्नाहुत्यनुपपत्तिः । ननु 'रूढिर्योगमपहरती'त्युक्तमिति चेत् । न । वेदान्ते योगः, वेदे योगरूढिरिति मीमांसाकारिकायामुक्तत्वेन नात्र तत्प्रवृत्तिरिति । तथा च सूत्रार्थः । रेतःसिग्योगः अथेति द्विपदमिदं सूत्रम् । रेतःसिक्शब्दो यौगिकः, न रूढः, यमले ज्ञानोपयोगिदेहवति पुरुषाभ्याहुत्यप्रवृ- त्तिप्रसङ्गात् । अतो रेतःसिचि योगः रेतःसिग्योगः । अथेत्यानन्तर्ये प्रसिद्धः । रेतःसिग्योगः पुरुषे । आनन्तर्यं रेतसि । पुरुषहुतान्नस्य रेतोभावश्रुतेः । 'पुरुषो वाव गौतमाग्नि'रित्यपक्रम्य 'देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवती'ति श्रुतिः । 'तर्काप्रतिष्ठान'सूत्रेणानुमानस्याभावात् शब्दार्थयोर्वैयधि- करण्यम् । 'केचिदत्र जन्मादिसूत्रमनुमानमिति वर्णयन्ती'ति भाष्ये केचित्पदात् । तथा च अथ पुरुषा- ज्ञानन्तर्यात् रेतसि पुरुषे रेतःसिचि योगः, न रूढिरित्यर्थः । अत्र पञ्चमाहुतिर्विषयः । तत्र गर्भः फलं पुरुषो वेति श्रुतिद्वयबीजे संशये । यद्वा । पुरुषेऽन्नहोमो रेतःसिचि वेति श्रुतिसूत्रबीजे संशये । पूर्व- संशये तु गर्भ एव कारणत्वात्पुरुषोऽपीति पूर्वपक्षे, उभये फले श्रुतत्वादिति सिद्धान्तः । पुरुषेऽन्नहोमः श्रुतत्वान्न तु रेतःसिचि सौत्रत्वादिति पूर्वपक्षे, रेतःसिगिति सिद्धान्तः ॥ २६ ॥ इति सप्तमं रेतः- सिग्योग इत्यधिकरणम् ॥ ७ ॥ योनेः शरीरम् ॥ २७ ॥ हूयमानमित्यादीति । अन्नरूपं रेतोरूपं च । एवेति । दर्शना- दित्येवकारः । श्रुतीति । 'गर्भः संभवती'ति श्रुतिबाधः । पूर्वपक्षसत्त्वाद्बाधशब्दः । पूर्वपक्षिणो हि श्रुत्योर्विरोधे विकल्पस्य मानवस्सास्फूर्तेः । अर्थवादत्वात् । षण्मासेति । तदनन्तरं नवमे मासि । 'अथ नवमे मासि स सर्वलक्षणज्ञानसंपूर्णो भवती'ति श्रुतेः । कुत उच्यत इत्यतो बृहदारण्यकसंग्रहा- दित्याहुः अग्रेरिति । योषारूपात् । एवकारो बृहदारण्यके 'तस्या आहुतेः पुरुषः सम्भवती'ति श्रुतेः गर्भपुरुषपदवाच्यशरीरेतरव्यवच्छेदकः । गर्भपुरुषरूपस्य फलरूपत्वात् । अग्रेरुत्पत्तिरित्यस्यैव फलतारूपत्वे-