अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1723, कुल 2600 में से
संदर्भ में पढ़ें६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० १ अ० ८ सू० २७. तस्यैव फलरूपत्वात् । मध्यभावस्याप्रयोजकत्वात् । मातृपरिपाल्यत्वाय गर्भ- वचनम् । कललादिभावे पुरुषवचनत्वाभावादुपसंहारानुपपत्तिश्च । शरीरशब्देन वैराग्यादियुक्तः सूचितः । न तु स्वयं तदभिमानेन जात इति । तस्मात् भाष्यप्रकाशः । तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती'त्युपसंहारः । मध्यभावस्याप्रयोजकत्वादित्यनेन गार्भिकज्ञानित्वस्याप्यप्रयोजकत्वं संगृहीतम् । उत्पत्तिसमये वैष्णव्या मायया तस्य ज्ञानस्य तिरो- धानात् । शरीरपरत्वे गर्भश्रुतिबाधं परिहरन्ति मातृरित्यादि । उपसंहारानुपपत्तिं पूर्वपक्षिमते बोधयन्ति कलिलेत्यादि । शारीरशब्देनेति । शीर्यत इति शरीरमिति निरुक्तेन तेनेत्यर्थः । अधिकरणार्थनिगमनेनैतत्पादार्थमपि निगमयन्ति तस्मादित्यादि ॥ अत्रैतद्बोध्यम् । रंहतिसूत्रे 'प्रश्ननिरूपणाभ्या'मित्यनेन पञ्चाग्निविद्यैव विषयत्वेनादृता । पादान्ते च 'योनेः शरीर'मिति सूत्रेण 'पुरुषवचसो भवन्ती'ति पञ्चमाहुतिफलमेव विचारितमिति स्पष्टं प्रतीयते । श्रुतौ च मध्ये यन्मार्गादिकं प्रश्नान्तरोत्तरत्वेनोक्तम्, तत्सर्वं पञ्चाग्निविद्याशेष- त्वेनैव, मुख्या तु पञ्चाग्निविद्यैवेति 'य एतान् पञ्चाग्नीन् वेदे'त्युपसंहारात् तस्य फलसंबन्धाच्चाव- गम्यते । एतस्य पादस्य मुख्यतया ज्ञानोपयोगिदेहप्राप्तिप्रकारविचारार्थता, न तु वैराग्योत्पादन- रश्मिः । दकलात् । गार्भिकज्ञानित्वस्यापीति । अपिना गर्भपुरुषयोर्मध्यभावस्य । गार्भिकज्ञानं तृतीयस्कन्धे प्रसिद्धम् । अप्रयोजकत्वं पञ्चाग्निविद्यायामपि । किञ्च, गार्भिकज्ञानित्वम् । 'ऋतुकाले प्रयोगादेकरात्रोषितं कललं भवती'त्युपक्रम्य 'जातश्वाहं मृतश्चैव जन्म जन्म पुनः पुनः । यन्मे परिजनस्यार्थे कृतं कर्म शुभाशुभम् । एकाकी तेन दह्नेऽहं गतास्ते फलभागिनः । यदि योन्याः प्रमुच्येऽहं तत्प्रपद्ये महेश्वरम् । अशुभक्षयकारकं परमुक्तिप्रदायकम् । यदि योन्याः प्रमुच्येऽहं तत्प्रपद्ये नारायण'मिति गर्भोपनिषच्छ्रु- त्योक्तम् । वैष्णव्येति । 'अथ योनिद्वारं संप्राप्तो यन्त्रेणापीड्यमानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुना संस्पृष्टः तदा न स्मरति जन्ममरणानि न कर्म शुभाशुभं विन्दती'ति गर्भोपनिषच्छ्रुतेः । तस्येति । गार्भिकस्य । शरीरेति । बृहदारण्यकोक्तपुरुषरूपफलपरत्वे । गर्भेति । गर्भश्रुतिविकल्पं परिहरन्ति । बाधबाधोऽत्र बाधशब्दार्थः । कललेत्यादीति । 'एकरात्रोषितं कललं भवति सप्तरात्रोषितं बुद्बुदं अर्धमासाभ्यन्तरे पिण्डं मासाभ्यन्तरे कठिनं मासद्वयेन शिर' इत्यादिश्रुतेः । कललं शुक्रशोणित- मिश्रितम् । बुद्बुदं वर्तुलाकारम् । पिण्डं पेशीमांसपिण्डाकारम् । तेनेति । सूत्रेण । भाष्ये । नत्विति । देहशब्दाभावात्सूत्रे । तदभीति । शरीराभिमानोपचयेन । 'दिह उपचये' । पचाद्यच् । प्रकृते । निगमनेनेति । पञ्चम्यन्तघटितत्वेन तथा । तस्मात्पर्वतो वह्निमानिति निगमनवत् । तस्मादित्यादीति । साधनेति । 'अग्नयो हरन्ती'ति श्रुतेरग्निहोत्रादिसाधनं होमश्च साधनं तत्सहित इत्यर्थः । अधिकरणा- र्थोऽयम् । ब्रह्मज्ञानमिति पादार्थः । 'तत्र प्रथमे पादे ब्रह्मज्ञानौपयिकं जन्म विचार्यत' इति भाष्यात् । पञ्चाग्निविद्यैवेति । तन्निष्ठादेवकारोऽन्यव्यवच्छेदकः । । एवेति । पुरुषशरीरयोः पर्याय- त्वादेवकारोऽन्ययोगव्यवच्छेदकः । 'यद्य इत्थं विदु'रित्याद्युक्तार्चिरादिमार्गत्रयं यमगतिमित्येतेषां योज- नामाहुः श्रुतौ चेति । प्रश्नेति । पञ्चाग्निविद्याप्रश्नेतरप्रश्नाः 'वेत्थ यदितोऽधि प्रजाः प्रयन्ती'त्याद- यश्चत्वारः । तदुत्तरत्वेन । एवेति । तन्मध्यपातिनां तच्छेषत्वमिति नियमादेवकारः । एवेत्यीत्युक्तैवका- रसार्थक्यायाहुः य एतानिति । फलेति । 'य एतान् पञ्चाग्नीन्वेद न सह तैरप्याचरन् पाप्मना लिप्यते 1604