अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1724, कुल 2600 में से
संदर्भ में पढ़ेंमात्रार्थतेति प्रथमसूत्रव्याख्यान एव व्युत्पादितम् । श्रुतावपि 'य इत्थं विदु'रित्यत्र 'य एतानेवं पञ्चाग्नीन् वेदे'त्यत्र च 'शुद्धः पूतः पुण्यलोको भवती'त्यनेन ब्रह्मप्राप्तिरेव फलत्वेन प्रतिपादिता । वैराग्यं तु मध्ये धूममार्गव्युत्पादने 'अतो वै खलु दुर्निष्प्रपतर'मित्यादिना तृतीयस्थानव्युत्पादने च 'तस्माज्जुगुप्सेते'त्यनेनोक्तम् । तथा सति तयोः पथोर्ज्ञानस्यैव फलम् । तदत्र ब्रह्मज्ञानोपकार- कत्वेनोक्तम् । आहुतीनां यथाज्ञानोपयोगः, तदपि प्रागेवोक्तम् । इयं च मर्यादामार्गीया व्यवस्था । पुष्टिमार्गे तु पञ्चाहुतिनियमाभाव इत्यपि 'न तृतीय' इति सूत्रे साधितम्, अतो वैराग्यमात्रार्थत्वं पादस्य यदुच्यते परैः, तदप्रयोजकम् । एवमनुशयाधिकरणे फलानुशयो यत्राङ्गीक्रियते, तदपि तथेत्यपि तत्रैव व्युत्पादितम् । अनिष्टादिकारिणामित्यधिकरणं तु सर्वैर्दशसूत्रमङ्गीक्रियते । तत्र सर्वेषां न चन्द्रगतिरिति सिद्धान्तस्तु समानः । न तृतीय इत्यादिसूत्रचतुष्टयं तु तृतीयस्थानेऽन्यत्र च पञ्चाहुतिनियमाभाव- बोधकम् । तत्र न तृतीये स्थाने आहुतिसंख्यानियम आदर्तव्यः । कुतः । तथोपलब्धेः । आहुति- संख्यानियमं विनैव 'जायस्व म्रियस्वे'त्युक्तप्रकारेण तृतीयस्थानोपलब्धेः । किञ्च । 'पञ्चम्यामाहु- तावापः पुरुषवचसो भवन्ती'ति मनुष्यशरीरहेतुत्वेनाहुतिनियमः सङ्गीर्यते, न कीटपतङ्गादिशरीर- हेतुत्वेन । पुरुषशब्दस्य मनुष्यजातिपरत्वात् । अपि च । पञ्चम्यामाहुतावापां पुरुषवचस्त्वमुपदिश्यते, न त्वपञ्चम्यां तन्निषिध्यते । वाक्यभेदप्रसङ्गात् । अतो येषामारोहावरोहौ संभवतः, तेषां पञ्चम्यां शुद्धः पूतः पुण्यलोको भवति य एवं वेदे'ति श्रुत्युक्तफलसम्बन्धात् । एवेति । अन्यसूत्रव्याख्यान- व्यवच्छेदकः एवेति । पुण्यलोक इति । पुण्यः पुण्यसाध्यो लोकोऽस्येति व्याख्यायाम् । ब्रह्म- प्राप्तिरेवेति । लोको ब्रह्मलोकः । 'मुख्ये कार्यसम्प्रत्ययात्' । अत उक्तं ब्रह्मप्राप्तिरिति । एवकारस्तु 'ब्रह्मज्ञानौपयिकं जन्म विचार्यत' इति भाष्यात् । तृतीयेति । 'जायस्व म्रियस्वे'ति श्रुत्युक्तम् । तथा सतीति । वैराग्यब्रह्मज्ञानयोर्निरूपणीयत्वे सति । तदिति । वैराग्यम् । तयोः धूमतृतीयमार्गयोः । ज्ञानस्यैवेति । 'य एवं वेदे'ति श्रुत्युक्तज्ञानस्य । एवकारेण ब्रह्मज्ञानं न खसाधनवैराग्येण फलं भव- तीत्यर्चिरादिमार्गज्ञानं व्यवच्छिद्यते । तदत्रेति । वैराग्यमत्र पञ्चाग्निविद्यायां साधनचतुष्टयान्तर्गतत्वा- द्ब्रह्मज्ञानेत्यादिः । प्रागेवेति । प्रथमसूत्रे एवकारोऽन्ययोगव्यवच्छेदकः । परैरिति । शङ्कररामानुजप्र- भृतिभिः । तथाच भाष्यम् । 'प्रथमे तावत्पादे पञ्चाग्निमाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतोः । 'तस्माज्जुगुप्सेते'ति चान्ते श्रवणात् ।' 'उपासनारम्भाभ्यर्हितोपायश्च प्राप्यवस्तुव्यतिरिक्तवैतृष्ण्यं प्राप्य- तृष्णा चेति तत्सिद्ध्यर्थं जीवस्य लोकान्तरेषु संचरतो जाग्रतः स्वपतः सुषुप्तस्य मूर्च्छतश्च दोषाः परस्य च ब्रह्मणस्तद्रहितता कल्याणगुणाकरता च प्रथमद्वितीयपादयोः प्रतिपाद्यत' इति च भाष्यान्तरम् । तथेति । अप्रयोजकम् । तत्रैवेति । एवकारेणेतरयोगो व्यवच्छिद्यते । न चन्द्रगतिरिति । 'ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ती'ति श्रुतेः सुकृतिविषयत्वात् पापिनां न चन्द्रगतिरिति सिद्धान्तस्तु समान इति । परन्तु सूत्रचतुष्टयार्थासङ्गतिरिति भावः । तामेवाहुः न तृतीयेति । तृतीयं स्थानमुक्तम् । अन्यत्रेति । अर्चिरादिमार्गे धूममार्गे च । इत्युक्तेति । इति छान्दोग्योक्तप्र- कारेण । वाक्यभेदेति । वाक्यस्य द्व्यर्थताप्रसङ्गात् । 'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति,' नत्वपञ्चम्यां भवन्तीति वाक्यस्य द्व्यर्थता वाक्यभेदरूपा । आरोहेति । 'ते धूममभिसम्भवन्ति धूमाद्रात्रि'मित्याद्यारोहः । 'तस्मिन्द्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्त' इत्यवरोहः । 'अपि