अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1725, कुल 2600 में से
संदर्भ में पढ़ें७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० १ अ० ८ सू० २७. भाष्यप्रकाशः। देहोद्भवः । अन्येषां तु विनैव संख्यां भूतान्तरोपसृष्टाभिरद्भिर्देह आरभ्यते । अपि च । द्रोणधृष्टद्यु- म्नसीताद्रौपदीप्रभृतीनां चायोनिजत्वं स्मर्यते । द्रोणादीनां योषिद्विषयैकाहुतिर्नास्ति । धृष्टद्युम्नादीनां तु योषित्पुरुषविषये द्वे न स्तः । तत्र यथा संख्यानादरः, तथान्यत्रापि ज्ञेयः । बलाकापि रेतःसिचं विनैव गर्भ धत्त इति लोकरूढिः । अपि च । चतुर्विधे भूतग्रामे स्वेदजोद्भिज्जयोरुत्पत्तिर्ग्राम्यधर्मं विनैव दृश्यत इत्येवं सूत्रत्रये व्याख्याय, छान्दोग्ये 'तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्ज'मिति भूतग्रामत्रैविध्यश्रावणात्, कथं चातुर्विध्यमित्याकाङ्क्षायाम्, 'तृतीयशब्दावरोधः संशोकजस्ये'ति सूत्रं लिखित्वा, 'आण्डजं जीवजमुद्भिज्ज'मित्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोप- संग्रहो ज्ञेयः । स्वेदजोद्भिज्जयोर्भूम्युदकोष्मप्रभवत्वेन तुल्यत्वादिति व्याकुर्वन्ति । तदपि तथा । पञ्चाग्निविद्यायाः पुरुषशरीरभवनं प्रकृत्यैव प्रवृत्ततया तृतीयस्थाने आहुति- शङ्काया एवानुदयेन तत्र समाधेरपेक्षैव नेति सूत्रवैयर्थ्यप्रसङ्गात् । किञ्च, आहुतिनियमस्य बहुषु व्यभिचारेण तासामाहुतीनां कैमर्थ्याकाङ्क्षायां तद्विषयविचारे धूममार्गीयाः सर्वे तु न संभवन्तीति तदाकाङ्क्षापूरणाभावादपि ग्रन्थशैथिल्यम् । संशोकजशब्देन स्वेदजग्रहणमपि न रोचिष्णु । ईदृश- शब्दप्रयोगे प्रयोजनाभावादिति । रश्मिः। स्मर्यत' इति सूत्रार्थमाहुः अपिचेत्यादिना । स्मर्यते इति । यथा '