अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1730, कुल 2600 में से
संदर्भ में पढ़ेंश्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः ।* श्रीमद्ब्रह्मसूत्राणुभाष्यम् । भाष्यप्रकाश-रश्मि-परिवृंहितम् । तृतीयोऽध्यायः । द्वितीयः पादः । सन्ध्ये सृष्टिराह हि ॥ १ ॥ ( ३-२-१- ) पूर्वपादे अधिकारियोग्यदेहो निरूपितः । द्वितीये जीवस्य मुक्तियोग्यता भाष्यप्रकाशः । सन्ध्ये सृष्टिराह हि ॥ १ ॥ अथ द्वितीयपादं व्याचिख्यासवः पादयोः सङ्गतिमाहुः पूर्वे- त्यादि । अधिकारिणो ज्ञानोपदेशयोग्यदेहप्राप्तावपि यदि स्वरूपतो मुक्तियोग्यता न स्यात्, तदा तादृशदेहाप्तिर्वैयर्थ्यम्, अतस्तदर्थं द्वितीयपादे सा निरूप्यते । यदि हि सा न स्यात्, उपदेशो न स्थिरीभवेत्, अतस्तदर्थं तन्निरूपणमित्यर्थः । माध्वास्तु माहात्म्यज्ञानपूर्वकस्नेहस्य भक्तित्वादमुक्ते माहात्म्ये तदज्ञानेऽस्य भक्तेरप्य- सम्भवात् तत्सिद्धये माहात्म्यप्रदर्शनायायं पाद इत्याहुः । तन्न माहात्म्योक्तिस्तु पूर्वमपि निराबाधा । भिक्षुस्तु, पूर्वस्मिन् पादे ब्रह्मणः सकाशादवान्तरसृष्टिरुक्ता । अत्र त्वेकस्मिन् देहेऽपि खमादिसृष्टिस्तत उच्यते । तावता जन्मादिसूत्रस्थं लक्षणं विचारितं भवति । ततः स्वरूपलक्षणं विचार्यते, ततः प्रपञ्चब्रह्मणोर्भेदाभेदावित्याह । तत्रापि विचारस्य कैमर्थ्याकाङ्क्षा न पूर्यते । तस्मादुक्तमेव प्रयोजनम् । ततश्चैककार्यत्वं पादयोः सङ्गतिः । अस्या योग्यताया आन्तरत्वं च पादानन्तर्ये हेतुरिति द्रष्टव्यम् । रश्मिः । सन्ध्ये सृष्टिराह हि ॥ १ ॥ तदर्थमिति । उपदेशस्थिरीकरणार्थम् । तन्निरूपणं स्वरूपतो मुक्तियोग्यतानिरूपणम् । तदज्ञान इति । विषयत्वेन माहात्म्याज्ञाने । कारणाभावेन ज्ञाना- भावात् । अस्य पञ्चाग्निविद्यासाधितदेहकस्य । तत्सिद्धये माहात्म्यज्ञानसिद्धये । पूर्वमिति । पूर्व गतपादे । तेनास्यार्थस्यातिव्याप्तिः । स्वरूपतो मुक्तियोग्यता तु दीक्षितस्य स्वेऽश्वमेधोजनादौ प्राय- श्चित्तस्मरणात्स्वेऽश्वमेधोजनादिदोषनिवृत्त्या तादृशदोषज्ञानार्थमधिकरणारम्भः । अग्रे दोषासंसर्गे विषय- निर्धारार्थं ब्रह्मस्वरूपविचार इति नातिव्याप्तिः । माहात्म्यज्ञानं तु श्रवणाङ्गमीमांसाफलं षोडशपा- दानुस्यूतम् । खमादीति । आदि सुषुप्तिः । तत इति । तदनन्तरं द्वितीयपादे । तत इति । तदनन्तरं तृतीयपादे । तत इति । तदनन्तरं चतुर्थपादे । कैमर्थ्येति । असंदिग्धस्य स्वरूप- लक्षणस्य सूत्रविषयस्य महता प्रबन्धेन विचारः किमर्थ इति कैमर्थ्याकाङ्क्षा । उक्तमिति । खमदो- षज्ञानम् । एवेति । प्रयोजनद्वयनिरासादेवकारः । एककार्यत्वमिति । अविरोधस्य द्वितीयाध्या- १० ब्र० सू० २ ०