अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1731, कुल 2600 में से
संदर्भ में पढ़ेंनिरूप्यते । तत्र प्रथमं स्वप्नं निरूपयति । स्वप्नस्य सत्यत्वे तत्कृतगुणदोषसम्बन्धो जीवस्य भवेत् । ततश्च निरूपिता शुद्धिर्व्यर्था स्यात् । अतः स्वप्नस्य मिथ्यात्वं प्रदर्शयितुमधिकरणारम्भः । तत्र पूर्वपक्षमाह । सन्ध्ये स्वप्ने सृष्टिराह । 'तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं च सन्ध्यं तृतीयं स्वप्नस्थान'मित्युपक्रम्य, 'न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजत' इत्यादिना सृष्टिराह । सन्ध्ये स्थाने सृष्टिरस्ति । यतः श्रुतिः स्वयमेवाह । युक्तश्चायमर्थः । भाष्यप्रकाशः । पूर्वाधिकरणविषयमाहुः तत्रेत्यादि । तत्रेति । योग्यतायां निरूप्यायाम् । ननु तथा सति प्रथमं स्वप्ननिरूपणस्य किं प्रयोजनम्, अत आहुः स्वप्नस्येत्यादि । जीवस्येति । प्राप्तयोग्य- देहस्यापि जीवस्य । शङ्करभास्कराचार्ययोर्मते तु स्वयंज्योतिष्ट्वसिद्ध्यर्थं स्वप्ननिरूपणम् । तत्तु मुक्तियोग्यतायामेव पर्यवस्यति । रामानुजाचार्यास्तु, पूर्वपादे जीवस्य कर्मगतिं प्रदर्श्य दुःखित्वं स्थापितम्, इदानीमस्य स्वप्नावस्था परीक्ष्यत इत्याहुः । एवं तच्छैरोपि । तन्मते वैराग्यार्थतामात्रमायातीति बोध्यम् । प्रकृते त्वधिकरणप्रयोजनोक्त्यैव स्वप्नसृष्टिः सत्या मिथ्या वेति संशयोप्युक्त इति तम- नुक्त्वा पूर्वपक्षमेवाहुः तत्रेत्यादि । सन्ध्यमिति । एतल्लोकपरलोकयोः सन्धौ भवम् । रश्मिः । यार्थस्य शाब्दज्ञानजननस्वभावस्य पादयोः सङ्गतिरित्यर्थः । पूर्वोक्तशाब्दज्ञानस्य ज्ञानोपयोगिदेहसाधनं कार्यम् । तदनन्तरं किमन्यकार्यजनकत्वमिति जिज्ञासायां स्वरूपतो मुक्तियोग्यतारूपकार्यनिरूपणात् । एकस्य कारणस्य कार्यत्वमित्येककार्यत्वम् । पादयोस्तु प्रसङ्गः । स्वयमिति । 'अत्रात्मा स्वयंज्यो- तिर्भवती'ति श्रुतेः । 'अत्र' स्वप्ने । तत्तु मुक्तीति । शाब्दविषयं स्वयंज्योतिष्ट्वं मुक्तियो- ग्यतायाम् । एवेति । मुक्तेः स्वयंज्योतिष्ट्वम् । ज्योतिश्चरणाधिकरणे च ब्रह्मणः स्वयंज्योतिष्ट्वमित्ये- वकारः । पर्यवस्येति । मुक्तियोग्यता स्वामिकदोषाभावः । तत्र स्वयंज्योतिष्ट्वं स्वयंप्रकाशत्वं स्वामिक- दोषरहितत्वेऽभिन्नात्मत्वं विषयान्तराप्रकाशयत्वं स्वयंज्योतिष्ट्वं 'अत्रात्मे'ति श्रुतेरित्येवं पर्यवस्यतीत्यर्थः । तच्छौर इति । भगवच्छैवाचार्यः । वैराग्येति । जगतः कर्मगत्यधीनत्वे दुःखित्वं विषयवैतृष्ण्य- रूपवैराग्यार्थतामात्रम् । स्वप्नावस्थापरीक्षणेन च वैराग्यमिति तथा । मात्रचा ज्ञानोपयोगिदेह- व्यवच्छेदः । एवेति । जगद्दुःखिः सत्यत्वे बीजम्, निरूपितशुद्धिवैयर्थ्यं मिथ्यात्वे बीजमित्येवकारः । पूर्वपक्षमेवेति । संशयव्यवच्छेदक एवकारः । भाष्ये । सृष्टिराहेति । अत्र सृष्टिमाहेत्यापत्त्या तन्निवृत्तये सूत्रमेव विवृण्वन्ति स्म सन्ध्य- इत्यादि । सूत्रे 'सन्ध्य' इत्यस्य 'स्थान' इति विशेष्यं 'सृष्टि'रित्याग्रे 'ऽस्ती'त्यस्यानुसन्धानं विभक्तिप्र- योजकम्, तदाह सृष्टिरस्तीति । आहेत्यस्यार्थमाह पूर्वपक्षी यत इति । आहेत्यत्र श्रुतिः कर्त्री । एवकारः श्रुत्यन्ययोगव्यवच्छेदकः । सौत्रीहीत्यस्यार्थमाहुः युक्त इति । 1610