अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1732, कुल 2600 में से
संदर्भ में पढ़ेंयथा श्रुतिर्वदति, तथैव स्वप्ने दृश्यते । देवादिकवाक्यानां प्रबोधेपि बाधाभावात् । नचेयमेव सृष्टिस्तत्र दृश्यते । 'न तत्र रथा' इत्यादिना निषेधात् । श्रुतिवादिनां भाष्यप्रकाशः। स्वप्न इयमेव सृष्टिः सूर्यत इति नैयायिकादयो मन्यन्ते । तदयुक्तम् । स्वप्ने दर्शनाद्यभिमानस्य क्वचित् पश्यामीत्याद्यनुव्यवसायस्य जागरणोत्तरं चेदं मया दृष्टमिदं भुक्तमित्यादिज्ञानस्य च बाधापत्तेः । नचेयमेव दृश्यत इत्यपि युक्तम् । स्थूलानां गजतुरगादीनां शरीरान्तर्मातुमशक्यत्वात् । नच मिद्धामनःसंयोगे स्मृत्युपनीतमारोपितं भासत इत्यपि युक्तम् । आरोपनियामकस्य तत्तद्वस्तुसादृश्यस्यात्मनि मिद्धायां चासिद्धत्वात् । अप्रामाणि- कस्य तस्य कल्पने गौरवाच्च । क्षणे क्षणेऽन्यान्यदर्शनेऽन्यस्यान्यथात्वेपि नियामकाभावाच्च । नच क्षणानामेव नियामकत्वम् । साधनान्तर