अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1736, कुल 2600 में से
संदर्भ में पढ़ेंभिक्षुस्तु । सन्ध्यसूत्रे, 'न तत्र रथा' इति श्रुतेः 'स्वप्ने च जीवः सुखदुःखभोक्ता स्वमा- यया कल्पितविश्वलोकं' इति कैवल्योपनिषच्छ्रुतेश्चोदाहरणेन सृष्टिम्अङ्गीकृत्य, ततो निर्मातृसूत्रे स्वप्नसृष्टिमीश्वरकर्तृकामुक्त्वा, तर्हि 'स्वयं विहत्य स्वयं निर्माये'त्यन्यनिरपेक्षताबोधकस्य स्वयंपदस्य कथं सङ्गतिरित्याशङ्कायाम्, उपाधिद्वारकोपादानाभिप्रायेण स्वयंपदप्रयोग इति 'न तत्र रथा' इत्यत्रोक्तं जीवकर्तृत्वमपि 'पच्यन्ते तण्डुलः स्वयमेवे' तिवदुपाधिद्वारकपरिणामस्वातन्त्र्यविवक्षयोप- पन्नमित्युक्त्वा, ततो 'न तत्र रथा' इत्यत्रादृष्टद्वारा परम्परया गौणं कर्तृत्वं जीवस्योक्तम्, अतो न विरोध इति कस्यचिन्मतं चोक्त्वा, ततो ननु स्वप्ने ज्ञानमात्रमेवास्तु, किं तत्र सृष्टिकल्पनयेत्या- शङ्कायामाह, स्वप्ने जाग्रद्वदेव पुत्रादयः प्रतीयन्ते, ते चात्मचैतन्यमात्रा भवितुं नार्हन्ति, नित्य- त्वापत्तेः, स्वरूपचैतन्यस्य निराकारत्वाच्च, कर्मकर्तृविरोधेनैकस्य भास्यभासकतानुपपत्तेश्च, जाग्र- त्पदार्थानामपि तथात्वापत्त्या विज्ञानवादिबौद्धमताभ्युपगमापत्तेश्च । यदि च बुद्धेर्घटाकारः परि- णाम एव ज्ञानशब्देनोच्यते, तदा स एवास्माभिः स्वप्नसृष्टिरुच्यते । नैवमिष्यत इति विशेषः । स्वाप्नाः पदार्थाः बाह्या भवितुं न युक्ताः । बाधकं विना अन्तःस्थत्वांशे स्फुटप्रत्यक्षत्वांशे च बाधोत्तरमप्यनुभूयमाने भ्रमत्वकल्पनानौचित्यादित्याह । मायामात्रसूत्रे, स्वाप्ना विषया ऐन्द्रजा- लिकवत् परमेश्वरमायाकार्यतया मायामात्राः, न त्वभावस्वरूपास्तुच्छाः । 'नाभाव उपलब्धे'रिति सूत्रेणात्यन्तासत उपलब्धिप्रतिषेधात् । ऐन्द्रजालिकेश्वरयोर्विशेषस्त्वियान्, यदैन्द्रजालिकस्य मन्त्रादि, ईश्वरस्तु माययैव व्यामोहयतीति तयैव मनसः परिणाममात्रमर्थं कटककुण्डलादिवन्नि- र्म्मिमीते । स्वाप्नविषये बुद्धिवृत्यतिरिक्ताकारा बुद्धिवृत्तिरेव मोहो भ्रम इत्यतस्मिंस्तद्बुद्धिर्भ्रम इत्यादिरूपं लक्षणमपि तुल्यमित्याद्याह । तेन तन्मते बुद्धिग्राह्यो मनःपरिणामविशेषः स्वप्नसृष्टिरिति सिध्यति । माध्वास्तु । सन्ध्यं स्थानं मायामात्रम्, मनोगतान् पूर्वानुभूतवस्तुसंस्कारानुपदानीकृत्य निमित्तभूतया स्वेच्छयैवेश्वरेण निर्मितम् । 'मनोगतांस्तु संस्कारान् स्वेच्छया परमेश्वरः । प्रदर्श- यति जीवाय स स्वप्न इति गीयते' । 'यदन्यथात्वजाग्रत्त्वं सा भ्रान्तिस्तत्र तत्कृता । अनभिव्य- क्तरूपत्वान्नान्यसाधनजं भवे'दिति ब्रह्माण्डवाक्यात् । अत्र स्वशिरश्छेदनादीनामसत्त्वनिरासायाना- स्वयमिति । जीवः । अन्येति । ईश्वरनिरपेक्षतेत्यादिः । उपाधीति । अदृष्टमुपाधिः । उक्तेश्वरकर्तृत्वविरोधं परिहरन्ति स्म न तत्रेति । पच्यत इति । ईश्वरः जडजीवान् सृजति । यदा तु सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते, कर्मणः कर्तृत्वं विवक्ष्यते, तदा सृज्यते जीवः स्वयमेवेति तन्मते उपाधिरणुत्वं तद्द्वारकपरिणामः सृष्टिरूपस्तस्मिन् स्वातन्त्र्यं कर्तृत्वं तस्य विवक्षयोपपन्नम् । आहेति । 'पुत्रादयश्चे'ति सूत्र आह कर्मकर्त्रीति । ज्ञानं कर्तृ तत्कथं कर्म आत्मचैतन्यमात्रं पुत्रादिरूपमिति विरोधः । कर्मकर्तृत्वसहानवस्थानलक्षणस्तेन । एकस्येति । ईश्वरस्य । तथात्वेति । आत्मचैतन्यत्वापत्त्या । परि- णाम एवेति । एवकारः पदार्थायोगव्यवच्छेदकः । स्फुटेति । अयमंशः स्वाप्नः । जाग्रतश्च बुद्धि- वृत्तिरेवेति । तामसी बुद्धिः, अतो गीतोक्तो मोहस्तस्या वृत्तिः । इत्यादीति । तदभाववति तत्प्रका- रकं ज्ञानमादिशब्दार्थः । यद्वा । विशेषदर्शननाश्यत्वमादिशब्दार्थः । इत्याद्याहेति । ग्रन्थगौरवभि- यैतावत्तैव निर्वाहः । मनःपरिणामेति । मनोपि द्वारमित्येवमुक्तम् । जीवस्योपाधिद्वारकपरिणाम- विशेष इत्यर्थः । माध्वाः स्वप्नं सत्यमाहुः । तद्विषयकं ज्ञानं तु मिथ्येत्याहुः । अतो विषयपदव्याख्या क्रियते अत्र स्वशिर इत्यादि । अनादीति । अनादीति 'मनोगता'नित्यत्र विशेषणं दत्त्वानादिमनो-