सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1737, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1737

८० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० १ सू० ३. अयमाशयः । श्रुतिः सृष्टिमेवाह, न तस्य सत्यत्वमपि । यथा 'ऐतदात्म्यमिदं सर्वं तत् सत्य'मिति 'आत्मान५ स्वयमकुरुत' 'तत् सत्यमित्याचक्षते' 'कथमसतः सज्जायेत'त्यादिश्रुतिसहस्रेभ्योऽस्य सत्यत्वं प्रतीयते, नैवं स्वप्नप्रपञ्चस्य श्रुतिराह । सत्यप्रयोजनाभावाच्च । स्वमात्रविहारस्तु महामायावित्वान्माययापि सिध्यति । भाष्यप्रकाशः। दिमनोगतग्रहणम् । 'यदन्यथात्व'मित्यादिना च स्वप्नविषयाणां जाग्रत्पदार्थत्वमेव बाध्यत इति तत्प्रतीतिरेव भ्रान्ता, न स्वप्नप्रतीतिरित्याहुः । तेन तट्टीकाकारमते संस्काराणामुपादानत्वम्, भाष्यकारमते तु संस्काराणामेव विषय- त्वम् । मायापदं च मनसः संस्कारस्य वा वाचकमिति सिध्यति । तत्र सूत्राशयं स्फुटीकुर्वन्तः स्वप्नसृष्टेः सत्यत्वं प्रथमं निरस्यन्ति अयमाशय इत्यादि । अस्येति । बाह्यप्रपञ्चस्य । अत्र च सत्यत्वं जाग्रत्क्रियमाणा या तत्तत्प्रतिनियता यावदर्थक्रिया तत्कारित्वं विवक्षितम् । न तु साक्षात् परम्परया वा ब्रह्मोपादानकत्वमात्रम् । परम्परया ब्रह्मोपा- दानकत्वस्य मायामात्रेपि सत्त्वात् । नाप्यर्थक्रियाकारित्वमात्रम् । तस्य प्रतिबिम्बादिष्वपि दर्श- नात् । 'छायाप्रत्याह्वयाभासा असन्तोऽप्यर्थकारिण' इति भगवद्वाक्याच्च । नैवमिति । न सत्यत्वं ब्रह्मात्मकत्वं वा । तथाच तादृशश्रुत्यभावेपि भगवत्कर्तृकत्वादाश्चर्यरूपत्वाच्च यः सत्यत्वाग्रहः, सोऽसङ्गत इत्यर्थः । ननु सत्यत्वस्याभावितत्वेपि 'स वै नैव रेमे' इत्यत्र सृष्टेर्विहारार्थत्वस्य श्रावि- तत्वात्सङ्कल्पेन सत्यत्वं कल्प्यत इत्याशङ्कायामाहुः सत्येत्यादि । विभजन्ते स्वमात्रेत्यादि । रश्मिः । गतानां ग्रहणम् । तत्प्रतीतिरिति । जाग्रत्पदार्थत्वप्रतीतिः । एवकारेण स्वप्नप्रतीतियोगव्यवच्छेदः । तथाच यत्स्वप्नविषयाणां जाग्रत्वं जाग्रत्पदार्थत्वं अन्यथात्वं सा भ्रान्तिः । तन्न स्वप्ने । तत्कृता जाग्रत्पदार्थसादृश्यकृता । अनभिव्यक्तत्वादिति सौत्रांशार्थः । अनभिव्यक्तेति । अनभिव्यक्तरूपत्वा- त्स्वप्नस्य नान्येन जाग्रत्पदार्थसादृश्यान्येन साधनेन जन्यत इति भवेदित्यर्थः । तट्टीकेति । ब्रह्माण्ड- वाक्यातिरिक्ता टीका । ब्रह्माण्डवाक्यानि तु भाष्यमिति पूर्वं विवेचनीयम् । ब्रह्माण्डे 'संस्कारा'निति द्वितीया विषयार्थका । एवकारो ब्रह्माण्डवाक्यप्रामाण्यात् । मायापदमिति । 'मनोगतांस्तु संस्कारा'- नित्यत्र वाचकम् । मायामात्रपदं मनोमात्रं संस्कारमात्रं वेत्यर्थकम् । भाष्ये । देशकालवस्तुनानभि- व्यक्तस्वरूपत्वपदार्थः । अन्यलभ्यत्वात् । केनापि रूपेणानभिव्यक्तम् । स्वरूपं तु स्वप्नदेशकालपरीक्षा- बोधकशब्दलभ्यं पुराणे प्रसिद्धम् । तथा च हेतुतावच्छेदकगौरवापत्त्यानभिव्यक्तेरिति हेतुः । तदाहुः तथाभिव्यक्तिरिति । तथेति । कात्स्न्र्येन । तथाच कार्त्स्न्येनानभिव्यक्त्यभावत्वं हेतुतावच्छेदकम् । अत्राग्रे सहस्रशब्दाद्बहुवचनम् । संख्येयवाचकत्वात् । संख्यावाचकत्वे त्वेकत्वम् । 'विंशत्याद्याः सदैकत्व' इति कोशात् । प्रकृते । सत्यत्वं च त्रैकालिकाबाध्यविषयत्वम् । तच्च बाधित्वान्यलक्षणमाहुः अत्र चेति । जाग्रदिति । जाग्रति क्रियमाणा । 'सहसुपे'ति समासः । तत्तदिति । घटादिप्रतिनियता जलाहरणादिरूपा, भोजनप्रयोजकत्वादिरूपा च । यावदर्थक्रिया यावदर्थाः यावद्धटादिवर्तमानकालं अर्था घटादयः तेषां क्रियार्थक्रिया । सत्त्वादिति । माया ब्रह्मोपादानिकेति । प्रतिबिम्बेति । आदिना छायाप्रत्याह्वयादिः । माययेति । 'विष्णुर्नाम महायोगी महामायो महातपा' इति योगतत्त्वो- पनिषच्छ्रुतेः । स वा इति । पुरुषविधब्राह्मणे । सृष्टेरिति । 'स द्वितीयमैच्छदि'त्यादिना । 1616