अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1738, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम्। ८१ नापि भिन्नः प्रपञ्चः। जीवस्यैकत्वात्। 'अविद्यया मन्यते' इति वचनान्न तत्सुख- भाष्यप्रकाशः। तथाच नटवन्माययापि विहारसम्भवान्न तद्वलेन सत्यत्वं कल्पयितुं शक्यमित्यर्थः । ननु यत्र स्वप्नसृष्टिस्थले 'तस्य वा एतस्य पुरुषस्ये'ति जीव एवोपक्रान्तः, 'प्रस्वपिती'ति स्वापलिङ्गाच्च बोधितः, अतस्तत्कृता सा मिथ्यास्तु, तत्र विहारोपि जीवस्यैव, नेश्वरस्य, काठके तु प्रकरणलिङ्गवाक्य- शेषैः परमात्मैव प्रतीयत इति तत्कृतः प्रपञ्चो भिन्नोऽस्तु, तस्य सत्यत्व आश्रयरूपत्वे च को दोष इत्यत आहुः नापीत्यादि । यो हि प्रपञ्चो भिन्न आपाद्यते, स न सर्वसाधारणः, कात्स्न्ये॑नाभि- व्यक्तस्वरूपो वा, येन भिन्नत्वं कल्पयितुं शक्येत, किन्तु यदेकेन दृश्यते, तन्नेतरेणेति प्रतिनि- यतो द्रष्टुर्जीवस्यैकत्वात्, अतो न भिन्नः । किञ्च । स यदि भिन्नः सत्यः स्यात्, तदा तद्भोगोपि भिन्नः सत्योऽनुभूयेत, श्रुत्या वोच्येत । श्रुत्या तु जीवस्य भोगस्तत्राज्ञानिक एव बोध्यते । हितारूपा नाडीरुपक्रम्य 'अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छायायति गर्तमिव पतति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया भयं मन्यत' इति वचनात् । एवमेव 'अथ यत्र राजेव देव इवे'त्यादिनोक्तं सुखमप्याज्ञानिकम् । 'अविद्यया मन्यत' इत्यस्य देहलीदीपन्यायेनोभयत्र सम्बन्धात् । काठके तु न भोगवचनम् । अतः परं भेदसाधकत्वेन कर्तृभेदोऽवशिष्यते । सोऽप्ययुक्तः । स्वप्नसृष्टिवाक्येपि जीवकर्तृ- त्वावबोधनेन तदभावात् । तत्र हि 'आत्मज्योतिरेवायं पुरुष' इति कथनोत्तरं 'कतम आत्मे'ति प्रश्ने, रश्मिः। जीव एवेति। एवकारः 'कतम आत्मेति, योयं विज्ञानमयः प्राणेष्वि'त्युपक्रमे विज्ञानमयपदात्। जीवस्यै- वेति । एवकार उपक्रमादीश्वरयोगव्यवच्छेदकः । काठके त्विति । तुना ज्योतिर्ब्राह्मणं व्यावृत्य॑ते । प्रकरणं ब्रह्मणः । 'हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातन'मित्युपक्रमात् । 'सुप्तेषु जागर्ती'ति लिङ्गम् । शब्दस्य सामर्थ्यम् । स्वप्नो जीवावस्था, जागर्तीति ब्रह्मलिङ्गम् । 'तदेवं शुक्रं तद्ब्रह्मे'ति वाक्यशेषः । उपक्रमः यथा 'मरणं प्राप्य आत्मा भवति गौतम' इति जीवलिङ्गं च सन्देहबीजम् । तेन स्वप्नकर्ता जीवः परमात्मा वेति संशय उक्तवाक्यशेषः प्रवर्त्तते । तैः । परमात्मैवेत्येवकारः 'यस्मिंल्लोकाः श्रिताः सर्वे' इति श्रुतेः । जीवस्येतिभाष्यं विवृण्वन्ति स्म यो हीति । काठकोक्तो हि । भिन्नः ज्योति- र्ब्राह्मणोक्ताद्भिन्नः । आपाद्यत इति । यदि प्रपञ्चो भिन्नो न स्यात्, प्रकरणलिङ्गवाक्यशेषाः परमा- त्मनो न स्युरिति । अतः काठके ज्योतिर्ब्राह्मणे प्रपञ्चो भिन्न इत्यापाद्यते । स इति । स्वाप्निकः प्रपञ्चः । न भिन्न इति । ज्योतिर्ब्राह्मणोक्तात्काठकोक्तः प्रपञ्चो न भिन्नः । अविद्ययेति भाष्यं विवृण्वन्ति स्म किञ्चेति । तत्राज्ञानिक एवेति । तत्र स्वप्ने । आज्ञानिक आविद्यकः । एवेति । बाधात् । हिताख्येति । ज्योतिर्ब्राह्मणे । अर्थस्तु उक्तसुषुप्तावस्थाकामभगवत्तोरविद्यायाः स्वाप्निकायाः सम्बन्धो न स्वाभाविक इति दर्शयितुम् । 'ता वा अस्यैता हिता नाम नाड्यः' इत्यादिना नाडीनिरूपणम् । अस्येति । अकामभगवतो भेदे षष्ठी । अतोऽविद्यानाडीभिन्नाः स्वाप्निक्यः । ता उपक्रम्य 'अथ यत्रैन'मित्यादिग्रन्थः । पूर्वं 'न कश्चन स्वप्नं पश्यती'त्युक्तम्, तत्र प्रतियोगी स्वप्नं निरूपयन्ति स्म । यत्र स्वप्ने एनं स्वप्नसदृशं घ्नन्तीव तस्करादयो ये केचन जिनन्तीव वशीकुर्वन्तीव दासरूपेण । कदा- चिद्धस्तीव विच्छायायति विच्छादयति, विद्रावयति । तथा गर्तं जीर्णकूपादिकं प्रति पततीव, न वस्तुतः । किं तत इत्यत आह यदि॑ति । यदेव जाग्रत् जाग्रतः सम्बन्धि भयं पश्यति । षष्ठ्या लुक् । अन्ये तु जाग्रत् जागरिति इति सप्तम्यालुक् सूचयन्ति । तदत्र स्वप्ने र्मेति । अग्रे स्पष्टम् । कर्तृभेद इति । ब्र० सू० २ ० ११ 1617