भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1739, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1739

दुःखभोगार्थमपि सत्यत्वमङ्गीकर्तव्यम् । स्थानद्वयप्रतिज्ञा च विरुध्येत । 'जीवतो मृताँश्च पश्यती'ति लोकद्वयदर्शनम् । अतो लोकद्वयप्रतिच्छायरूपत्वान्मायया क्रीडायामन्यानुरोधाभावेनातिसुखत्वात् भगवत्कृतमात्रवाचकत्वाच्च श्रुतेरतिरि- भाष्यप्रकाशः । 'योऽयं विज्ञानमयः पुरुषः प्राणेषु हृद्यन्तर्ज्योति'रिति प्रतिवचनं दत्वा, तादृशत्वं जीवस्याप्यस्तीति तन्निराकरणार्थं 'स समानः सन्नुभौ लोकौ सञ्चरती'त्यादिना जीवतुल्यतया क्रीडितुरन्यस्य कथ- नेन तस्मिन्नेव तत्कर्तृत्वस्य 'सुषुप्त्युत्क्रान्त्योर्भेदेने'ति सूत्रे व्यवस्थापितत्वात् । जीवस्य स्वदुःख- भयादिजनकसृष्टिकरणायोगाच्च । कार्त्स्न्येनानभिव्यक्तस्वरूपतया सत्यसङ्कल्पत्वाद्यभावाच्च । अत- स्तत्र भगवान्नेव कर्ता । जीवस्त्वविद्यया दुःखादिकमिव कर्तृत्वमपि मन्यते । अतो न तत्सुखदुः- खभोगार्थमपि स्वप्नप्रपञ्चस्य सत्यत्वमङ्गीकर्तव्यम् । किञ्च । यदि स्वाप्नप्रपञ्चस्य सत्यत्वं स्यात्, तदा 'तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं चे'ति श्रुत्युक्ता स्थान- द्वयप्रतिज्ञा च विरुध्येत । ननु तत्रैव 'सन्ध्यं च तृतीयं स्थानं तस्मिन् सन्ध्ये स्थाने तिष्ठन्नुभे स्थाने पश्यतीदं च पर- लोकस्थानं चे'ति तृतीयमप्युक्तम् । सत्यमुक्तम्, परं तूभयविलक्षणतया, तत्र च लोकद्वयदर्शनं जीवतां मृतानां च दर्शनेन । न हि ते तत्र सन्तीति प्रागेवोक्तम् । अतस्तृतीयत्वेऽपि लोकद्वयप्रतिच्छायारूपत्वान्न तेन प्रतिज्ञा- विरोधः । सत्यत्वे स स्यादेव । नच किमीदृशसृष्ट्या क्रीडयेति शङ्क्यम् । मायया क्रीडायामन्यानु- रोधाभावेनातिसुखत्वात् । अतो भगवत्कृतमात्रवाचकत्वात् काठकश्रुतेस्तन्मूलेनातिरिक्तसत्यसृष्टि- कल्पनायां प्रमाणाभावान्नातिरिक्तः स्वाप्नः प्रपञ्च इत्यर्थः । ननु कार्त्स्न्येनानभिव्यक्तत्वस्य जीवविशेषणत्वे 'न तत्र रथा' इति श्रुतेराश्चर्यपरत्वे सति जीवदर्शनस्य भ्रान्तित्वात् किं वा स्वप्नस्य भवदभिमतमायामात्रत्वगमकम्, येन तत्कृतगुणदोष- रश्मिः । ब्रह्मजीवरूपस्वप्नकर्तृभेदः । प्राणेष्विति । सामीप्यसप्तमीति केचित् । सूक्ष्मदेह इति व्याख्यातम् । तादृशत्वं विज्ञानमयत्वम् । स समान इति । स ईश्वरः समानो जीवसमानः । अन्यस्येति । ईश्वरस्य । तस्मिन्नेवेति । ब्रह्मण्येव, नतु जीवे । बलवदनिष्टाननुबन्धीष्टसाधनज्ञानप्रवर्तकं तत्कृष्ण- सम्बन्धीत्याहुः जीवस्य स्वेति । तत्रेति । स्वप्ने । भगवान्नेव, नतु जीव इति जीवयोग्यव्यवच्छेदक एवकारः । मन्यत इति । अहं कर्तेत्यभिमन्यते । 'परात्तु तच्छ्रुते'रिति सूत्रात् । स्थानद्वयेतिभाष्यं विवृण्वन्ति स्म किञ्चेति । जीवत इत्यादिभाष्यं विवृण्वन्ति स्म ननु तत्रैवेति । बृहदारण्यक एव । काठकव्यवच्छेदक एवकारः । इदंलोकपरलोकस्थाने उभे स्थाने । नहि ते तत्रेति । सन्ध्ये स्थाने मृताः सन्ति । मुक्तानामैक्येऽमुक्तानां संकर्मत्वेऽपि पृथग्दर्शनानर्हत्वेन परलोके सत्त्वात् । प्रागेवेति । 'सन्ध्यं तृतीय'२स्वप्नस्थानमिति, तस्मिन्सन्ध्ये स्थाने तिष्ठन्नुभे स्थाने पश्यतीदं परलोकस्थानं चे'त्यस्याः प्रागेवोक्तम् । उभयविलक्षणतयेत्युक्तं विशदयन्तो लोकेतिभाष्यं विवृण्वन्ति स्म अतस्तृतीयत्त्व इति । 'जीवतो मृताँश्च पश्यती'ति लोकद्वयप्रतिच्छायरूपत्वात् लोकद्वयसूक्ष्मरूपत्वात् । न तेनेति । न तृतीयेन द्वयप्रतिज्ञाविरोध इत्यर्थः । स इति । प्रतिज्ञाविरोधः । माययेतिभाष्यं विवरीतुं शङ्कते नचेति । अन्येति । विषयानुरोधाभावेन मिथ्यात्वादिति भावः । भगवत्कृतेतिभाष्यं विवृण्वन्ति स्म 1618