अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1740, कुल 2600 में से
संदर्भ में पढ़ेंरुत्कल्पनायां प्रमाणाभावाज्ज्योतिःशास्त्रनियमाभावाच्च मायामात्रमेव स्वप्न इति न तत्कृतगुणदोषसम्बन्धः। दीक्षितस्यान्नभोजनादिप्रायश्चित्तं तु भगवत्क्रीडाया- मपि प्रतिच्छायत्वात् क्रियते । तदानीं कर्तृत्वस्यारोपात् । अन्यदा कर्तृत्वस्याशा- स्त्रत्वान्न धर्माधर्मजनकत्वम् । देवताज्ञादिस्तु जीवब्रह्मणोर्विद्यमानत्वादुक्ता । भाष्यप्रकाशः । सम्बन्धो नाङ्गीक्रियते इत्याशङ्कायामाहुः ज्योतिरित्यादि । मेषादिराशिगे सूर्ये एतावद्दिनम्, एतावती रात्रिः, अस्मिन् देशे चेत्यादिनियमस्य तत्राभावात् तथेति न तत्कृतगुणदोषसम्बन्ध इत्यर्थः । ननु यदि स्वप्नप्रपञ्चो मिथ्या, तदा दीक्षितेन स्वप्नेऽन्नभोजनादौ कृते यद्दीक्षितस्य प्रायश्चि- त्तविधानं तद्विरुध्येत, मिथ्याभूते भोजनादौ तदयोगादित्यत आहुः दीक्षितस्येत्यादि । यद्यपि तन्न भोजनम्, तथापि स्वाप्निक्यां भगवत्क्रीडायां भोजनसदृशत्वात् तदानीं जीवेऽपि कर्तृत्वस्या- विध्यनारोपात् प्रायश्चित्तं क्रियते । यथा व्रीह्यभावेपि नीवारेण कार्यसिद्धिः, तद्वदत्रारोपितकर्तृत्व- मादायाप्यपराधसिद्धेः । शास्त्रेण यज्ञकर्मण्येव कर्तृत्वे नियमिते निषिद्धेष्वभिमानिककर्तृत्वस्यापि दोषत्वादिति । अतो न तेन तस्य सत्यत्वसिद्धिरित्यर्थः । एतदुपष्टम्भाय युक्त्यन्तरमाहुः अन्यदे- त्यादि । तथाच यदि सा सत्या स्यात्, तदा तेनान्यदापि धर्माधर्मौ स्याताम् । तथा सति 'स्वप्ने- ऽवगम्यागमनं च धन्य'मित्यादिकं न स्मर्येतेति सा मिथ्यैवेत्यर्थः । ननु यदि स्वप्नः सर्वोपि मिथ्या स्यात्, तदा तत्र देवतादर्शनाज्ञादिकं न स्यात्, भवद्भा- तुम्र्त्वाादिविसंवादि स्यादित्यत आहुः देवतेत्यादि । जीवा इन्द्रादयो योगोत्थसामर्थ्याः, ब्रह्म स्वत एवातिसमर्थम् । अतः समाधाविव स्वप्नेऽप्यन्तर्हृदि प्रविश्य विद्यमानत्वाद्दर्शनाज्ञादिकं ददाति, तदानीं बुद्धिजार्गतीति स्वप्नदृशा जीवोप्यनुभवति । तेन तस्य तदानीं रथादिवत् करणाभावेन स्वप्नत्वाभावान्नतत्सत्यता युक्ता । किञ्च । तत्र यज्ज्ञानं जायते, तन्न लौकिकम्, तत्तदि- रश्मिः । अतो भगवदिति । तद्बलेनेति । भगवत्कृतमात्रवाचकशब्दबलेन । सूर्ये इति । सप्तम्यन्तम् । एतावत् त्रिंशद्धटिकापलचतुःपञ्चाशद्दिनम्, एतावती एकोनत्रिंशद्धटिकापलषट् [रात्रिः] । आदिना वृषेर्के द्वात्रिंशद्धटिकापलचतुर्विंशद्दिनम् । एकोनत्रिंशद्धटिकापलषट्त्रिंशद्रात्रिरनया । देश इति । ब्रह्मावर्तादौ । तत्रेति । स्वप्ने । तथेति । मायामात्रत्वम् । अन्नेति । आदिना रेतःस्रावः । आरोपादिति । ग्राह्यस्य कर्तृत्वस्य । यज्ञकर्मण्येवेति । एवकारेण स्वप्नयोग्यव्यवच्छेद(कः) क्रियते । निषिद्धेष्विति । स्वप्नाचार्याज्ञाविस्वासादिषु । तेनेति । आरोपितकर्तृत्वेन । तस्य स्वप्नस्य । सेति । स्वप्नसृष्टिः । अन्यदेति । दीक्षान्यकाले । भोजनकर्तृत्वेऽस्य न विद्यते शास्त्रं यस्मिन् तादृशत्वात् । धर्माधर्म- जनकत्वं गुणदोषजनकत्वम् । देवतेति । आदिना बाहुना मेलनम् । अनुभवादीति । आदि- नाप्तवाक्यम् । स्वत एवेति । उपाधिव्यवच्छेदकैवकारः । बुद्धिरिति । स्वप्नग्राहिका । तस्येति । दर्शनाज्ञादिकस्य । रथादिवदिति । आदिनाऽविद्य । करणाभावे हेतुरनुभवतीत्यनुभव उक्तः । अत उक्तं करणाभावेन । तत्सत्यता दर्शनाज्ञादेः सत्यता । अलौकिकेतिभाष्यं विवृण्वन्ति स्म किञ्चेति । १. अष्टाविंश । 1619