अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1743, कुल 2600 में से
संदर्भ में पढ़ें८६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० १ सू० ५. पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥ किञ्चिदाशङ्क्य परिहरति । ननु जीवाय भगवान् सृष्टिं करोति, प्रदर्शयति च स्वस्य सर्वलीलाम्, अंशाभ्यायम्, कथमस्य दुःखित्वमित्याशङ्क्य, परिहरति तुशब्दः । अस्य जीवस्यैश्वर्यादि तिरोहितम् । तत्र हेतुः पराभिध्यानात् । परस्य भगवतोऽभितो ध्यानं स्वस्यैतस्य च सर्वतो भोगेच्छा, तस्मात् । ईश्वरेच्छया जीवस्य भगवद्धर्मतिरोभावः । ऐश्वर्यतिरोभावादीनत्वं पराधीनत्वम्, वीर्यतिरोभावात् सर्वदुःखसहनम्, यशस्तिरोभावात् सर्वहीनत्वम्, श्रीतिरोभावाज्जन्मादिसर्वाप- द्विषयत्वम्, ज्ञानतिरोभावाद्देहादिष्वहंबुद्धिः सर्वविपरीतज्ञानं चापस्मारसहित- स्येव, वैराग्यतिरोभावाद्विषयासक्तिः । बन्धश्चतुर्णां कार्यः, विपर्ययो द्वयोः, तिरोभावादेवैवम्, नान्यथा । युक्तोऽयमर्थः । एकस्यैकांशप्राकट्येपि तथाभावात् । भाष्यप्रकाशः । पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥५॥ सूत्रमवतारयन्ति किञ्चि- दित्यादि । तुशब्दार्थकथनमुखेन तद्विभजन्ते नन्वित्यादि । परिहारं व्याकुर्वन्ति अस्य जीवस्ये- त्यादि । चतुर्णामिति । ऐश्वर्यादिचतुष्टयतिरोभावानाम् । विपर्ययो द्वयोरिति । अन्यथाज्ञानं ज्ञानवैराग्यतिरोभावयोः कार्यमित्यर्थः । तत इत्यादिकं व्याकुर्वन्ति तिरोभावादेवैवम्, नान्य- थेति । ऐश्वर्यादितिरोभावादेव बन्धविपर्ययौ, न तु स्वत इत्यर्थः । युक्तत्वं विवृण्वन्ति एकस्ये- त्यादि । 'युक्तं भगैः खै'रित्यादिवाक्यात् पूर्णा ऐश्वर्यादयो भगवत्येव । तन्मध्ये एकस्यैश्वर्यादे- रेकांशप्राकट्येपि 'यत्पादपङ्कजे'त्यादिवाक्यैस्तथानिश्चयेन बन्धाभावात् । तदभावादेव बन्धविप- र्ययाविति युक्तमित्यर्थः । नन्वानन्दांशतिरोभावादेवैतद्द्वयं कुतो न स्वीक्रियत इत्यत आहुः रश्मिः । पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥ तुशब्दार्थेति । आशङ्कापरिहारस्तुशब्दार्थः । तत्कथनोपायेनेत्यर्थः । नन्वित्यादि । जीबायेति । भक्ताय साधार- णाय च । लीलांशब्देन स्वप्रदर्शने यया तथेत्युक्तम् । स्वस्यैतस्येति । यया गोकुलाष्टके तथा । शृङ्गाररसमण्डने च । अमुक्तत्वदशायाम् । स्वस्योत्कर्षेण जीवस्य निकृष्टत्वेन च सर्वतो भोगेच्छा । 'भगवद्धर्मेति । उच्चनीचभावाय । समत्वे लीला न स्युः । दीनत्वमित्यादि । अन्यानुरक्षणाभावात् । पराधीनत्वं परोक्तकरणात् । सर्वदुःखेति । अनुभवसिद्धम् । सर्वहीनत्वमिति । 'यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो वाति, यथासिधारां कर्तेव हि तामवक्रामेद्यद्युवे- युवे ह वा विह्वयिष्यामि कर्तं पतिष्यामीत्येवममृतादात्मानं जुगुप्सेत्' । अत्र कर्मगन्धो यशः । स्वधर्मा- भावात्सर्वहीनत्वम् । जन्मादीति । लक्ष्यमभावं श्र्यभावो ज्ञापयति । लक्ष्म्यभावात्सत्कर्माभावेन जन्मादि । आदिना स्वार्थाल्पव्ययः । अहंबुद्धिरविद्यारूपा । एवेति । स्वतो योगव्यवच्छेदकः । बन्धेति । दीनत्वादिर्बन्धोऽहंबुद्ध्यादिः स्वरूपविपर्ययः तौ । युक्तत्वमिति । सौत्रहिशब्दार्थम् । 'भगवत्येवेति । एवकारेण जीवयोगव्यवच्छेदः । यत्पादपेति । आदिना 'वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा । येन मेऽपहृतं तेजो देवविस्मापनं मह'दिति प्रथमस्कन्धोक्तम् । तथेति । अस्यार्थो निश्चयेन बन्धः तस्याभावात् । तद्भावादिति । बन्धाभावाद्बाध्यरूपत्वात् । एवेति । इतरयोग- व्यवच्छेदकः । नच बन्धाद्वन्धविपर्ययौ न स्यातामिति चेत् । न । बन्धविपर्ययौ न बन्ध इति प्रयोगात् 1622