अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1744, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ८७ आनन्दांशस्तु पूर्वमेव तिरोहितः, येन जीवभावः । अत एव काममयः । अकाम- रूपत्वादानन्दस्य । निद्रा च सुतरां तिरोभावकर्त्री भगवच्छक्तिः । अतोऽस्मिन् प्रस्तावे जीवस्य धर्मतिरोभाव उक्तः । अन्यथा भगवत ऐश्वर्यादिलीला निर्विषया स्यात् । तस्मान्न जीवस्वरूपपर्यालोचनया किञ्चिदाशङ्कनीयम् ॥ ५ ॥ देहयोगाद्वा सोपि ॥ ६ ॥ ईश्वरेच्छयैश्वर्यादितिरोभावं स्वमते निरूप्य, मतान्तरेणापि नियतधर्मवादेन निरूपयति । देहयोगाद्वा । देहसम्बन्धादेवास्य सर्वतिरोभावः । विपर्ययो वा । अपिशब्दान्वयत् । अस्मिन् पक्षे देहवियोग एव पुनरैश्वर्यादिप्राप्तिः । पूर्वस्मिन् भाष्यप्रकाशः । आनन्देत्यादि । पूर्वमिति । व्युच्चरणकाले । द्विविधा हि जीवाः, सदा मुक्ताः, बन्धयोग्याश्च । [L