भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1750, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1750

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९३

भाष्यप्रकाशः। न कञ्चन पश्यति, अथास्मिन् प्राण एवैकधा भवती'ति कौषीतकिश्रुतौ प्राणाख्यस्य परमात्मनो नाडीसमुच्चयावधारणात् । यत्र पुनः केवलनाडीनामेव सुषुप्तिस्थानत्वेन श्रवणम्, तत्रापि ब्रह्मणः प्रतिषेधाभावान्नाडीद्वारेण ब्रह्मण एव स्थानत्वस्य युक्तत्वात् । नच द्वारत्वे 'नाडीषु सुप्तो भवती'ति सप्तमीविरोधः । सञ्चारस्थानत्वेन तदविरोधात् । गङ्गाया सागरं गच्छतो गङ्गायां स्थितिवत् तदुपपत्तेः । तस्मान्नाडीब्रह्मणोः समुच्चयः । एवं पुरीतद्ब्रह्मणोरपि । पुरीततोपि ब्रह्मप्रक्रियायां सङ्कीर्तनात् । 'योऽन्तर्हृदय आकाशस्तस्मिञ्छेते' इति प्रकृत्य, 'पुरीतति शेते' इति कथनात् । हृदयाकाशस्य ब्रह्मत्वं तु दहराधिकरणे सिद्धम् । पुरीतत्तु हृदयवेष्टनम् । एवञ्च तद्वेष्टितो हृदया- काशः प्राकारपरिक्षिप्तपुरमिव भवतीति हृदयाकाशे शयने पुरीततोपि समुच्चयो जात एवेति । एवञ्च श्रुतिषु स्थानत्रयकथनेपि नाडीपुरीततोर्द्वारमात्रत्वम् । ब्रह्मैव तु सुषुप्तिस्थानमित्युक्तम् । तत्र पुरीतत्समुच्चयं त्वनुमन्यामहे । एकवाक्यगतत्वात् । नाडीनां समुच्चयं तु न मृष्यामः । बृहदारण्यके ज्योतिर्ब्राह्मणे 'यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं पश्यति, ता वा अस्यैता हिता नाम नाड्य इति, अथ यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं पश्यति, तद्वा अस्यैतदात्मकाममाप्तकाममकाम ५ रूपं तद्यथा प्रियया स्त्रिये'ति नाडीपरमात्मभेदेन अथशब्दात् प्रकृतच्छेदेन च श्रुतस्य 'यत्र सुप्त'वाक्याभ्यासस्य विरोधात् । अभ्यासप्रकृतच्छे- दाभ्यां सिद्धे सुषुप्तिस्थानभेदे विकल्पस्यापि प्राप्ततया दुष्टत्वाभावात् । 'ताभिः प्रत्यवसृप्ये'त्युक्ते नाडीषु सर्पण इवार्थादपि तत्प्राप्तेश्च । एवं सति कौषीतकीये 'अथास्मिन् प्राण एवे'ति वाक्येपि विकल्पार्थक एवाथशब्दो ग्राह्यः । आनन्तर्यार्थकत्वेपि पूर्वापरकालभेदस्य प्राप्तत्वेन पूर्वकालिकस्य नाडीषु सुष्वापस्याबाधात् । अपरकालिकस्य प्राण एकीभावस्यापि भगवदिच्छाकृतप्रत्यवसर्पणतः रश्मिः। समुच्चयस्तु प्रासादे शेते, ततः प्रत्यवसृत्य पर्यङ्के शेत इति । एकविभक्तिः सप्तमी । हेतोः तच्छ्रुतिरूपस्य साध्याभाववत्यात्मनि सत्त्वेन साधारणत्वात् । नाडीति । तास्वितिषदोक्तनाडीसमुच्चयावधारणात् । अथेत्यस्यानन्तर्यार्थत्वात् । यत्रेति । 'आसु तदा नाडीषु सुप्तो भवती'त्यादौ । प्रकरणाभावादे- वकार आत्मव्यवच्छेदकः । ब्रह्मण एवेति । एकवाक्यतासम्भवादेवकारः साक्षान्नाडीव्यवच्छेदकः । सप्तमीति । किन्तु नाडीभिः सुप्तो भवतीति तृतीयापत्तिरित्यर्थः । सञ्चारेति । समस्तो जीवो नाडीषु सञ्चरतीति तथा । तद्विरोधात् सप्तम्यविरोधात् । गच्छत इति । काष्ठादेः । समुद्रे गच्छतः काष्ठादेः गङ्गायां समुद्रधारायां काष्ठादिर्गच्छतीति प्रयोगात् । तदुपपत्तेः । सप्तम्युपपत्तेः । नाडीब्रह्म- णोरिति । नाड्यात्मनोः । कथनादिति । दहरस्य परमात्मत्वनिर्णयात् । अन्तर्हृदय आकाशो दहरः । हृदयेऽन्तराकाश इत्यन्वयः । हृदयवेष्टनमिति । भास्करभाष्येप्येवम् । हृदयाकाश इति । ब्रह्मपुरम् । तदाहुः प्राकारेति । प्राकारो हर्म्यं परिक्षिप्तः यत्र पुरे तद्वत् । जात एवेति । उक्तदृष्टान्तादेवकारः । ब्रह्मैवेति । नाडीपुरीततोर्व्यवच्छेदकैवकारः । सुषुप्तिस्थानभेद इति । नाड्याकामजीवरूपसुषुप्ति- स्थानभेद इत्यर्थः । दुष्टत्वेति । अयमग्रे विचारयिष्यते । ताभिरिति । नाडीभिः सह जीवः । प्रत्यवसृप्येत्युक्ते नाडीषु सर्पणम् । पुत्रेण सह तृणं स्पृष्ट्वा गतः पितेत्यत्र पुत्रे तृणस्पर्शवत् । अर्थादा- क्षेपादपि तत्प्राप्तेर्विकल्पप्राप्तेः । विकल्पस्तु नाडीपुरीततोः । विकल्पार्थक एवेति । कोशादेवकारः । नन्वष्टदोषदुष्टविकल्पार्थं विकल्पार्थत्वं न युक्तमत आहुः आनन्तर्येति । पूर्वेति । अनन्तरस्य काल-

1629