भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1751, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1751

९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० २ सू० ७. सुखेन सिद्धेश्र । न च नाडीस्वापवाक्ये ब्रह्मणोऽप्रतिषेधात् प्राप्तिरिति वाच्यम् । आभ्यासिकभेदा- देवार्थात् तत्प्रतिषेधसिद्धेः । अन्यथा तद्वैय्यर्थ्यप्रसङ्गस्य दुर्निवारत्वादिति । एवञ्च सुप्तापोत्तर- कालीनस्मरणेपि कदाचित् सुखस्य स्वापविशेषणतया भानं कदाचिच्च नेत्यपि युज्यते । न च नाडीषु स्वापे प्रपञ्चदर्शनप्रसङ्गः । सुषुप्तौ कामाभावश्रावणेन मनसो लयावगमात् करणाभावेन मायिक- प्रपञ्चानुत्पत्त्या बाह्यस्य च विप्रकृष्टतया करणलयेन च तदप्रसङ्गात् । अतो न दर्शनाभावार्थमपि सत्सम्पत्त्यपेक्षा । किञ्च । सूत्रकारस्यापि सुषुप्तिद्वैविध्यमेवाभिप्रेतम् । अन्यथा 'तदभाव आत्मनि तच्छ्रुते'रित्येव सूत्रयेत् । तावतैव द्वैतदर्शनाभावपाप्मसंसर्गाभावयोः सिद्ध्या नाडीचकारयो- र्निर्देशस्य वैयर्थ्यात् । तेनैतत् सिद्धम् । नाडीपरिवर्तने स्वप्नदर्शनम् । तासां प्रान्तभागे पुरीत- त्निकटे सुषुप्तिः । पुरीतदन्तर्हृदये आकाशे सत्सम्पत्तिरिति । ननु भवत्वेवम्, तथापि विकल्पस्य कथमदुष्टत्वमितिचेत् । उच्यते । विकल्पे हि प्राप्तप्रामा- ण्यपरित्यागः, अप्राप्तप्रामाण्यस्वीकारः, परित्यक्तप्रामाण्यस्वीकारः, स्वीकृतप्रामाण्यपरित्यागश्चेति विशेषणत्वादिति भावः । आभ्यासिकेति । 'यत्र सुप्तो न कञ्चन कामं कामयत' इति वारद्वयमाह, अतो 'यत्र सुप्त' इति वाक्याभ्यासिकभेदात् । अभ्यासस्य भेदकत्वं पूर्वतन्त्रेस्ति । एवकारेण प्रकृत- च्छेदयोगव्यवच्छेदः क्रियते । तत्प्रतीति । ब्रह्मणः 'योन्तर्हृदयआकाशस्तस्मिञ्छेते' इति श्रुत्युक्तस्य प्रतिषेधसिद्धेः । ननु नञाभावात्कुतस्तत्प्रतिषेधसिद्धिः, अत उक्तं अर्थादिति । आक्षेपात् । ननु किमर्थं नञार्थप्रतिषेधाक्षेप इत्यतो युक्तिमाहुः अन्यथेति । तद्वैय्यर्थ्यप्रसङ्गस्याभ्यासिकभेदवैय्यर्थ्य- प्रसङ्गस्य । तथाचाभ्यासिकभेदवैय्यर्थ्यप्रसङ्गन्निवारणार्थमित्यर्थः । सुषुप्तापेति । 'सुखमहमस्वाप्सं न किञ्चिदवेदिष'मिति स्मरणे । कदाचिच्चेति । सुखसहचरितदुःखाभावकालो यदि । चिन्नद्यर्थकम् । मनस इति । कामरूपवृत्तिमतो मनसः । करणाभावेनेति । 'यथा शयानः पुरुषो मनसैवात्म- मायया । सृष्ट्वा लोकं परं स्वाप्नमनुविश्यावभासत' इत्युक्तश्रीभागवतवाक्यात् । तदप्रसङ्गात् प्रप- ञ्चदर्शनाप्रसङ्गात् । अपीति । पूर्वं सुषुप्तौ प्रपञ्चसतार्थं सत्सम्पत्तिः स्वाप्ययसम्पत्तिसूत्रोपन्यासे- नोक्ता । तथाच सत्सम्पत्तिश्रुत्युपन्यासो विषयश्रुत्युपन्यासे समाप्तपुनरात्तत्वदोषग्रस्त इति भावः । एवेति । नाडीषुपदस्य चशब्दस्य चोपादानादेवकारः । द्वैतदर्शनेति । तथाच भाष्यं 'नाडीषु सुप्तो भवती'त्युक्त्वा 'तन्न कश्चन पाप्मा स्पृशती'ति । ब्रह्मसम्पत्तिश्च पाप्मसंसर्गाभावे हेतुः समधि- गतः । 'सर्वे पाप्मानो निवर्तन्ते अपहतपाप्मा ह्येष ब्रह्मलोक' इत्यादिश्रुतिभ्यः । ब्रह्मसम्पत्त्या द्वैतदर्शना- भावोपि । पाप्मसंसर्गाभावोपि विवृतः । स्वप्नदर्शनसुषुप्तिद्वयविवेकमाहुः तेनैतदिति । प्रान्तभाग इति । 'ताभिः प्रत्यवसृप्य पुरीतति शेत' इति श्रुतेः । पुरीतन्निकट इति । तेन 'पुरीतति शेते' इत्यत्र सामीप्ये सप्तम्युक्ता । सति सम्पत्तिरिति । 'आत्मनि चे'त्युक्ता सुषुप्तिरपीयम् । कथमिति । शाङ्करप्रश्नः । श्रुतीनां विरोधे विकल्प इति मन्वङ्गीकारात्तत्समादधतिस्म विकल्पे हीति । 'नाडीषु सुप्तो भवतीति,' 'पुरीतति शेते,' 'य एषोन्तर्हृदय आकाशस्तस्मिञ्छेते' इति । 'एतदेकवाक्यतापन्ने नाडी- परिवर्तन' इत्याद्युक्ते वाक्ये । विकल्पे हि अष्टौ दोषाः । 'तस्मादात्मैव सुषुप्तिस्थान'मिति शाङ्करभाष्ये समुच्चयोज्झीकृतः, तत्र नैकोपीति तान् गणयन्तिस्मानुवादरूपात् । प्राप्तेति । 'इषेत्वेति शाखां छिनत्ती'- त्यनेन क्षशयन्नस प्राप्तत्वात् । शाखा क्षशय्येति व्याख्यानात् । अप्राप्तेति । वैदिकत्वेनाप्राप्तमप्रामाण्यं तस्य स्वीकारः । परित्यक्तेति । अर्थबोधार्थं तया । गौणं प्रामाण्यम् । स्वीकृतेति । तदर्थमेव १. सबिस्वत्र रश्मौ सतीति पाठः । २. मीमांसक । 1630