सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1752, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1752

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९५ नाम नाड्यः', 'तद्वा अस्यैतदात्मकाम' मिति भेदेन । सुषुप्तिस्तृभयत्र । ज्ञानशक्तेः सर्वथा तिरोधानात् । तस्मात् सुषुप्तौ न प्रपञ्चसृष्टिः ॥ ७ ॥ इति तृतीयाध्याये द्वितीयपादे द्वितीयं तदभावो नाडीष्वित्यधिकरणम् ॥ २ ॥ अतः प्रबोधोऽस्मात् ॥ ८ ॥ ( ३-२-३ ) प्रबोधे सन्देहः । 'प्रतियोन्याद्रवति बुद्धान्तायैवे'ति जीवसमानधर्मब्रह्म- भाष्यप्रकाशः। ब्रह्मवाक्यकोटौ दोषचतुष्टयम् । एवं नाडीवाक्यकोटौ दोषचतुष्टये व्रीहियववाक्यद्वयोजितेऽष्टौ दोषा इति हि भवतां मतम् । तत्र प्रामाण्याप्रामाण्ययोः स्वरूपं विचारणीयम् । किं सदर्थबोधकत्वं प्रामाण्यम्, असदर्थबोधकत्वमप्रामाण्यम्, उत बोधकत्वं प्रामाण्यम्, अबोधकत्वमप्रामाण्यम्, अथवा अनुष्ठापकत्वं प्रामाण्यम्, अननुष्ठापकत्वमप्रामाण्यमिति । तत्र नाद्येन । वाक्यद्वयेनापि सदर्थबोधस्य जायमानतया तत्यागास्याभावेनासदर्धबोधकत्वस्य काप्यनङ्गीकारेण तत्कृतदोषाणा- मत्राभावात् । अत एव न द्वितीयेन । नापि तृतीयेन । वाक्यद्वयस्यापि सिद्धार्थपरतया अनुष्ठाप- कत्वस्याभावेन त्याज्यत्वस्य तत्रायोगात् । अननुष्ठापकत्वस्य सर्वसम्मतत्वेन विकल्पानङ्गीकर्तृमतेपि तुल्यतया तत्र पर्यनुयोगानवकाशात् । तस्मात् पूर्वोक्तमनवद्यम् ॥७॥ इति द्वितीयं तदभावो नाडीष्वित्यधिकरणम् ॥ २ ॥ अतः प्रबोधोऽस्मात् ॥ ८ ॥ अधिकरणप्रयोजनमाहुः प्रबोधे सन्देह इति । तथाच तन्निरासायेदमधिकरणमित्यर्थः । विषयवाक्यमाहुः प्रतियोनीत्यादि । इदं बृहदारण्यकीयज्योतिर्ब्राह्मणस्थम् । 'स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैवे'ति । अर्थस्तु, स प्रकृतो जीवात्मा रश्मिः। वेदान्ताधिकरणमालायां तु 'यदा जीवो नाडीषु शेते, तदा पुरीत्तद्ब्रह्मवाक्ययोः प्राप्तं प्रामाण्यं परित्यक्तं स्यात् । अप्राप्तं प्रामाण्यं चाङ्गीक्रियेत । यदा पुनः पुरीत्तद्ब्रह्मणोः शेते, तदा पुरीत्तद्ब्रह्मवाक्ययोः पूर्वत्यक्तं प्रामाण्यं स्वीक्रियेत । पूर्वस्वीकृतं चाप्रामाण्यं परित्यज्येतेति प्राप्तपरित्यागोऽप्राप्तस्वीकारस्त्यक्त- स्वीकारः स्वीकृतत्यागश्चेति दोषचतुष्टयं पुरीत्तद्ब्रह्मवाक्यकोटौ । तथा नाडीवाक्यकोट्यामपि दोषचतुष्टये योजिते सत्यष्टौ दोषाः सम्पद्यन्त' इति । एवमिति । ब्रह्मवाक्योक्तप्रकारेण । व्रीहीति । एकपुरोडा- शार्थत्वं व्रीहियवयोर्दृष्टम्, तद्वाक्ये तु 'व्रीहिभिर्यजेत यवैर्यजेते'ति च । तद्वत्सुषुप्त्यर्थत्वं ब्रह्मवाक्यनाडी- वाक्ययोरिति ब्रह्मवाक्य इव नाडीवाक्ये दोषचतुष्टये योजिते भवतां शाङ्कराणां मतम् । अत्र वितण्डा- माहुः सदर्थेति । प्रमाकरणं सदर्थबोधकं तत्त्वं प्रामाण्यमित्यर्थः । बोधकत्वमिति । अनधिगतार्थ- गन्तृत्वम् । वाक्यद्वयेनेति । विकल्पसङ्ग्राहकेण 'तासां प्रान्तभागे'त्याद्युक्तेन समुच्चयकसङ्ग्राहकेण । 'तस्मादात्मैव सुषुप्तिस्थान'मिति शङ्करभाष्यवाक्येन च । कापीति । प्रमाणलक्षणत्वेनोक्तव्याख्या- कत्वेन च क्वापि । अत्रेति । प्रामाणिकविकल्पे । अतएव काप्यनङ्गीकारादेव । सिद्धार्थेति । नतु साध्यार्थामिष्टोमवत्साध्यार्थपरतया । तत्रेति । अनुष्ठापकत्वाभावे । तत्रेति । विकल्पे । 'यत्रोभयोः समो दोषः परिहारश्च तत्समः । नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारण' इत्युक्तेः ॥ ७ ॥ इति द्वितीयं तद्भावो नाडीष्वित्यधिकरणम् ॥ २ ॥ अतः प्रबोधोऽस्मात् ॥ ८ ॥ प्रतियोनीत्यादीति । जीवसमानधर्मं ब्रह्म तस्य प्रकरणे । 1631

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1752, कुल 2600 में से · BharatKosha