अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1753, कुल 2600 में से
संदर्भ में पढ़ें९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ३ सू० ८. प्रकरणे निरूपितम् । ततो नाडीभ्यः पुनर्हृदयदेशं गत्वा, भगवतो वा समागत्य, जागर्तीति, आहोस्विद्यत्र स्थितः, तत एव जागर्तीति । तत्र श्रुत्यनुरोधात् हृदयदेशमागत्य जागर्तीत्येवं प्राप्ते, उच्यते । अतो नाडीभ्य एव प्रबोधः । गर्तपतितस्य प्रबोधे हि ततो गमनम् । प्रतियो- भाष्यप्रकाशः। वै निश्चयेन एषः स्वयंज्योतिः। एतस्मिन् सम्प्रसादे सम्यक्प्रसीदत्यस्मिन्निति सम्प्रसादः सुषुप्ति- स्थानं तस्मिन् सम्प्रसादे रत्वा क्रीडित्वा सता सम्परिष्वज्य, चरित्वा 'चर गतिभक्षणयोः' तदानन्दं भुक्त्वा, दृष्ट्वैव पुण्यं च पापं च। चकारात् तदुभयफलभूते सुखदुःखे स्वाप्ने नाडीष्व- नुभूय, प्रतिन्यायम्, आयो गमनं नितरामायो न्यायः पूर्वस्मात् गमनात् प्रातिकूल्येन गमनं प्रति- न्यायः, तद्यथा स्यात् तथा, प्रतियोनि, यतः सम्प्रसादे समागतस्तत्स्थानं योनिस्तल्लक्षीकृत्य आद्रवत्यागच्छति बुद्धान्ताय जागरणायेति । अन्ये तु, रमणं स्वरूपानन्दानुभवः। 'आनन्दभु'गिति श्रुतेः। चरणं सुषुप्तावीश्वर- सम्पत्तिः। 'सता सौम्य तदा सम्पन्नो भवती'ति श्रुतेः। पुण्यदर्शनं त्वानन्दानुभवः। तस्य तत्फलत्वात् । सुखमहमस्वाप्समित्यनुभवात् । पापदर्शनं त्वज्ञानानुभवः। तस्य तत्फलत्वात्। न किञ्चिदवेदिषमित्यनुभवादिनेति श्रुतेरित्याहुः । तदग्रे विचारणीयम् । संशयाकारमाहुः तत इत्यादि । भगवतो वा समागत्येति । भगवतः सकाशाद् हृदयदेशं समागत्य । पूर्वपक्षमाहुः तत्रेत्यादि । श्रुतौ 'चरित्वा प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्ताये'ति गमनार्थकधातूत्पन्नक्त्वाप्रत्ययेन प्रतियोन्याद्रवणात् पूर्वकाले गमनं श्राव्यते । अतस्तदनुरोधात् स्वस्थानं हृदयदेशमागत्यैव जागर्तीत्येवं प्राप्त इत्यर्थः । सिद्धान्तं व्याकुर्वन्ति अत इत्यादि । श्रुतौ हि प्रतिन्यायमाद्रवणमुक्तम् । तच्चागमन- क्रियारूपम् । तादृशी च क्रिया न जागरणं विनोपपद्यते । अतः प्रतिकूलागमनरूपाज्जागरण- रश्मिः। सुषुप्त्युत्क्रान्त्यधिकरणे स्फुटम् । न्यायशब्दं व्युत्पादयन्तिस्म आय इत्यादि । योनिर्बीजम् । गमना- दिति । हृदयान्नाड्यात्मनो गमनात् । प्रातिकूल्येन नाड्यात्मभ्यां हृदये गमनम् । भगवत इति । 'आत्मनि चे'ति सूत्रांशेन भगवान् स्थानत्वेनोक्तस्तस्मात् । भाष्ये । यत्र स्थित इति । नाडीषु भगवति च । एवकारः प्रतिन्यायव्यवच्छेदकः। प्रकृते। तत्रेतिभाष्यशब्दार्थमाहुः श्रुताविति । प्रतियोनीति । यतः सम्प्रसादे समागतस्तत्स्थानं योनिस्तल्लक्षीकृत्याद्रवत्यागच्छति तस्मात्प्रतियो- न्याद्रवणात् पूर्वकाले चरित्वेति गमनं विषयश्रुतौ श्राव्यते । अत इति । उक्तार्थवाचकपदघटित- त्वात् । तदनुरोधाद्विषयश्रुत्यनुरोधात् । स्वस्थानं जीवस्थानम् । आगत्यैवेति । भाष्य एवकारो नास्ति, परं पूर्वपक्षिप्रौढ्योक्तः । पुरीतन्नाडीब्रह्मयोगव्यवच्छेदकः । प्रतिन्यायमिति । 'प्रतिन्यायं प्रतियोन्याद्रवती'त्यनेनोक्तम् । आगमनेति । आद्रवतीत्यस्यागच्छतीत्यर्थात् । न जागरणमिति । 'बुद्धान्ताये'त्युक्तजागरणं फलरूपप्रवर्तकं विना नोपपद्यते । 'प्रयोजनमनुद्दिश्य न मन्दोपि प्रवर्तत' इति वाक्यात् । अतः प्रतीति। फलस्य विवक्षणात् । प्रतिकूलागमनं हृदया- गमनं तेन रूप्यते व्यवह्रियते यद्बुद्धान्तरूपं जागरणं इन्द्रियैर्विषयग्रहणं तस्मात्फललिङ्गात् । अत इत्यावर्त्तते । अतो नाम नाडीभ्य एव प्रबोध इत्यर्थः । एवकारो हृदययोगव्यवच्छेदकः । एवकारस्य 1632