अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1754, कुल 2600 में से
संदर्भ में पढ़ेंन्याद्रवणं तु भगवत इति । किञ्च । प्रबोधोऽस्मात् । अस्मादात्मनः सकाशादेव प्रबोधः । प्रिययेव सम्परिष्वक्तस्य बोधाभावे कथमागमनम् । अत एव सम्परि- ष्वक्तो निबिडनिद्रः । तस्मात् यत्रैव तिष्ठति, तत एव प्रबोध इति सिद्धम् ॥ ८ ॥ भाष्यप्रकाशः । लिङ्गान्नाडीभ्य एव प्रबोधः । युक्तं चैतत् । गर्तपतितस्य प्रबोध एव ततो गमनं लोके यतो दृश्यते । न च 'चरित्वे'त्यस्य विरोधः । 'चर गतिभक्षणयो'रिति भक्षणार्थस्यैव तत्र ग्राह्यत्वात् । 'आनन्दभु'गिति श्रुत्या भोगस्य तत्रोक्तत्वादिति । नच तत्र प्रबुद्धोऽन्यत्र कुतो न गच्छतीति शङ्कनीयम् । श्रुत्यन्तर इन्द्रियाणां यथास्थानं विप्रतिष्ठावदत्र जीवस्य प्रतियोन्याद्रवणं भगवत एव । तस्यैव प्रेरकत्वात् । किञ्च । प्रतियोन्याद्रवणवत् प्रबोधोपि भगवद्धेतुकः । न हि स कर्मणेति वक्तुं शक्यम् । 'अनन्वागतं पुण्येनानन्वागतं पापेने'ति श्रुतेः । किञ्च । तत्र प्राज्ञेन सम्परिष्वक्तः प्रियया स्त्रियेव । न हि तादृशस्य बोधाभावे ततो निर्गत्यागमनं सम्भवति । अत एव सम्परिष्वक्तो निबिडनिद्रः । यदा हि भगवता परिष्वङ्गस्त्यज्यते, तदायं प्रबुध्यते । प्रति- योन्याद्रवति च । एवं सति तदभिप्रायाण्येव 'सत आगत्य न विदुः सत आगच्छामह' इत्यादीनि वाक्यानि । न तु स्थानान्तराभावाभिप्रायाणि । स्थानान्तरसद्भाव उपपत्तेरुक्तत्वा