भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ३ सू० ८. प्रकरणे निरूपितम् । ततो नाडीभ्यः पुनर्हृदयदेशं गत्वा, भगवतो वा समागत्य, जागर्तीति, आहोस्विद्यत्र स्थितः, तत एव जागर्तीति । तत्र श्रुत्यनुरोधात् हृदयदेशमागत्य जागर्तीत्येवं प्राप्ते, उच्यते । अतो नाडीभ्य एव प्रबोधः । गर्तपतितस्य प्रबोधे हि ततो गमनम् । प्रतियो- भाष्यप्रकाशः। वै निश्चयेन एषः स्वयंज्योतिः। एतस्मिन् सम्प्रसादे सम्यक्प्रसीदत्यस्मिन्निति सम्प्रसादः सुषुप्ति- स्थानं तस्मिन् सम्प्रसादे रत्वा क्रीडित्वा सता सम्परिष्वज्य, चरित्वा 'चर गतिभक्षणयोः' तदानन्दं भुक्त्वा, दृष्ट्वैव पुण्यं च पापं च। चकारात् तदुभयफलभूते सुखदुःखे स्वाप्ने नाडीष्व- नुभूय, प्रतिन्यायम्, आयो गमनं नितरामायो न्यायः पूर्वस्मात् गमनात् प्रातिकूल्येन गमनं प्रति- न्यायः, तद्यथा स्यात् तथा, प्रतियोनि, यतः सम्प्रसादे समागतस्तत्स्थानं योनिस्तल्लक्षीकृत्य आद्रवत्यागच्छति बुद्धान्ताय जागरणायेति । अन्ये तु, रमणं स्वरूपानन्दानुभवः। 'आनन्दभु'गिति श्रुतेः। चरणं सुषुप्तावीश्वर- सम्पत्तिः। 'सता सौम्य तदा सम्पन्नो भवती'ति श्रुतेः। पुण्यदर्शनं त्वानन्दानुभवः। तस्य तत्फलत्वात् । सुखमहमस्वाप्समित्यनुभवात् । पापदर्शनं त्वज्ञानानुभवः। तस्य तत्फलत्वात्। न किञ्चिदवेदिषमित्यनुभवादिनेति श्रुतेरित्याहुः । तदग्रे विचारणीयम् । संशयाकारमाहुः तत इत्यादि । भगवतो वा समागत्येति । भगवतः सकाशाद् हृदयदेशं समागत्य । पूर्वपक्षमाहुः तत्रेत्यादि । श्रुतौ 'चरित्वा प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्ताये'ति गमनार्थकधातूत्पन्नक्त्वाप्रत्ययेन प्रतियोन्याद्रवणात् पूर्वकाले गमनं श्राव्यते । अतस्तदनुरोधात् स्वस्थानं हृदयदेशमागत्यैव जागर्तीत्येवं प्राप्त इत्यर्थः । सिद्धान्तं व्याकुर्वन्ति अत इत्यादि । श्रुतौ हि प्रतिन्यायमाद्रवणमुक्तम् । तच्चागमन- क्रियारूपम् । तादृशी च क्रिया न जागरणं विनोपपद्यते । अतः प्रतिकूलागमनरूपाज्जागरण- रश्मिः। सुषुप्त्युत्क्रान्त्यधिकरणे स्फुटम् । न्यायशब्दं व्युत्पादयन्तिस्म आय इत्यादि । योनिर्बीजम् । गमना- दिति । हृदयान्नाड्यात्मनो गमनात् । प्रातिकूल्येन नाड्यात्मभ्यां हृदये गमनम् । भगवत इति । 'आत्मनि चे'ति सूत्रांशेन भगवान् स्थानत्वेनोक्तस्तस्मात् । भाष्ये । यत्र स्थित इति । नाडीषु भगवति च । एवकारः प्रतिन्यायव्यवच्छेदकः। प्रकृते। तत्रेतिभाष्यशब्दार्थमाहुः श्रुताविति । प्रतियोनीति । यतः सम्प्रसादे समागतस्तत्स्थानं योनिस्तल्लक्षीकृत्याद्रवत्यागच्छति तस्मात्प्रतियो- न्याद्रवणात् पूर्वकाले चरित्वेति गमनं विषयश्रुतौ श्राव्यते । अत इति । उक्तार्थवाचकपदघटित- त्वात् । तदनुरोधाद्विषयश्रुत्यनुरोधात् । स्वस्थानं जीवस्थानम् । आगत्यैवेति । भाष्य एवकारो नास्ति, परं पूर्वपक्षिप्रौढ्योक्तः । पुरीतन्नाडीब्रह्मयोगव्यवच्छेदकः । प्रतिन्यायमिति । 'प्रतिन्यायं प्रतियोन्याद्रवती'त्यनेनोक्तम् । आगमनेति । आद्रवतीत्यस्यागच्छतीत्यर्थात् । न जागरणमिति । 'बुद्धान्ताये'त्युक्तजागरणं फलरूपप्रवर्तकं विना नोपपद्यते । 'प्रयोजनमनुद्दिश्य न मन्दोपि प्रवर्तत' इति वाक्यात् । अतः प्रतीति। फलस्य विवक्षणात् । प्रतिकूलागमनं हृदया- गमनं तेन रूप्यते व्यवह्रियते यद्बुद्धान्तरूपं जागरणं इन्द्रियैर्विषयग्रहणं तस्मात्फललिङ्गात् । अत इत्यावर्त्तते । अतो नाम नाडीभ्य एव प्रबोध इत्यर्थः । एवकारो हृदययोगव्यवच्छेदकः । एवकारस्य 1632

न्याद्रवणं तु भगवत इति । किञ्च । प्रबोधोऽस्मात् । अस्मादात्मनः सकाशादेव प्रबोधः । प्रिययेव सम्परिष्वक्तस्य बोधाभावे कथमागमनम् । अत एव सम्परि- ष्वक्तो निबिडनिद्रः । तस्मात् यत्रैव तिष्ठति, तत एव प्रबोध इति सिद्धम् ॥ ८ ॥ भाष्यप्रकाशः । लिङ्गान्नाडीभ्य एव प्रबोधः । युक्तं चैतत् । गर्तपतितस्य प्रबोध एव ततो गमनं लोके यतो दृश्यते । न च 'चरित्वे'त्यस्य विरोधः । 'चर गतिभक्षणयो'रिति भक्षणार्थस्यैव तत्र ग्राह्यत्वात् । 'आनन्दभु'गिति श्रुत्या भोगस्य तत्रोक्तत्वादिति । नच तत्र प्रबुद्धोऽन्यत्र कुतो न गच्छतीति शङ्कनीयम् । श्रुत्यन्तर इन्द्रियाणां यथास्थानं विप्रतिष्ठावदत्र जीवस्य प्रतियोन्याद्रवणं भगवत एव । तस्यैव प्रेरकत्वात् । किञ्च । प्रतियोन्याद्रवणवत् प्रबोधोपि भगवद्धेतुकः । न हि स कर्मणेति वक्तुं शक्यम् । 'अनन्वागतं पुण्येनानन्वागतं पापेने'ति श्रुतेः । किञ्च । तत्र प्राज्ञेन सम्परिष्वक्तः प्रियया स्त्रियेव । न हि तादृशस्य बोधाभावे ततो निर्गत्यागमनं सम्भवति । अत एव सम्परिष्वक्तो निबिडनिद्रः । यदा हि भगवता परिष्वङ्गस्त्यज्यते, तदायं प्रबुध्यते । प्रति- योन्याद्रवति च । एवं सति तदभिप्रायाण्येव 'सत आगत्य न विदुः सत आगच्छामह' इत्यादीनि वाक्यानि । न तु स्थानान्तराभावाभिप्रायाणि । स्थानान्तरसद्भाव उपपत्तेरुक्तत्वा

९८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ३ सू० ९. स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥ किञ्चिदाशङ्क्य परिहरति । ननु प्रिययेव प्राज्ञेनात्मना परिष्वक्तस्य ब्रह्मलोकं गतस्य प्रबोधेन ज्ञाने मुक्त एव भवेत्, न तु पुनरागच्छेत्, अतो भगवदिच्छया देहनिर्वाहाय तत्स्थाने नियुक्तोऽन्य एव जीवः समायातु, अन्यतः प्रबोधे तु स एव, व्यवहारस्तु तावता सेत्स्यति, मुक्त्यर्थं प्रयत्नस्तु न कर्तव्य इत्याशङ्क्य, परि- हरति तुशब्दः । अस्मादपि प्रबोधे स एव । कुतः । कर्मानुस्मृतिशब्दविधिभ्यः । चत्वारो हेतवः । लौकिकवैदिकयोर्ज्ञानकर्मभेदात् । तत्र लौकिके कर्मणि सामिकृतकर्मणः शेषसमापनात् । न हि कश्चिदपि सुसंबुद्धः सामिकृतं न समापयतीति क्वचित् सिद्धम् । तथानुस्मृतिः । न हि पूर्वदृष्टं न स्मरतीति क्वचित् सिद्धम् । शब्दाच्च 'पुण्यः पुण्येन कर्मणा भवति, पापः पापेन' 'कैष तदाऽभूत्, कुत एतदागा'दिति, भाष्यप्रकाशः । स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥ सूत्रमवतारयन्ति किञ्चिदित्यादि । एतेनाधिकरणान्तरत्वं निवारितम् । तुशब्दव्याख्यानमुखेन शङ्कां व्याकुर्वन्ति नन्वित्यादि । अत्र समायात्वित्यन्तमेक आक्षेपः । अन्यत इत्यादिस्त्वन्यः । तथाच लाघवात् द्वितीयः पक्ष एवादर्तव्य इति युक्तम् । किञ्च, अन्यस्मिन् जीवे तत्रागते पितृपुत्रभर्तृभार्यादिव्यवहारविघातापत्तौ स भगवता योगिप्रवेशन्यायेन सेत्स्यतीति कल्प्यम् । किञ्च । मुक्त्यर्थं यत्नस्तु न कर्तव्यः । निद्रयैव तत्सिद्धेः । तेन साधनशास्त्रवैफल्यम् । अन्यतः प्रबोधे तु न कश्चिदपि दोष इति स एवादर्तव्य इत्याशङ्केत्यर्थः । परिहारं व्याकुर्वन्ति अस्मादित्यादि, सिद्धमित्यन्तेन लौकिकं हेतुद्वयमुक्तम् । रश्मिः । स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥ निवारितमिति । शङ्काव्यावर्त- कत्वेन पूर्वपक्षाव्यावर्तकत्वात् । तुशब्देति । मुख्यमुपायः । समायात्वित्यन्तमिति । अत्र भाष्य एवकारः 'न स पुनरावर्तत' इति श्रुतेः । अन्यत इति । नाडीतः । स इत्यादि । स व्यवहारः भगवता व्यापकेन सर्वपित्रादिरूपिणा योगिप्रवेशन्यायेन राजादिव्यवहारन्यायेन । मुक्त्यर्थमिति- भाष्यं विवृण्वन्तिस्म मुक्त्यर्थमिति । निद्रयैवेति । सुषुप्तेस्तृतीयावस्थात्वेनैवकारः । तत्सिद्धेः 'स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं ही'त्याविष्कृतेन सायुज्ये मुक्तिसिद्धेः । तेनेति । अस्य साधनस्य सकलसाधारण्येन । तत्रागतजीवस्यान्यत्वेन च । स एवेति । द्वितीय एव । निर्दुष्टत्वादेवकारः । परिहारमिति । ॐमिति परिहारम् । अङ्गीकारेण परिहारस्य छलत्वात् । अस्मादित्यादीति । नाडी- तोत्सादात्मनोपि प्रबोधे स एव समायाति । लौकिके होलाकाद्युत्सवाख्ये कर्मणि । न स्मरतीति । अनु न स्मरतीत्यर्थः । शास्त्रक्रमेण पूर्वं कर्मोदाहृतम्, पश्चाज्ज्ञानम् । कैष तदेति । दृप्तबालाकि- ब्राह्मणस्थम् । तदेति । सुप्तकाले । 'सति सम्पद्ये'त्यादिश्रुतिः स्पष्टा । आदिसन्दर्भो व्याख्यातः । १. सुसप्रतिबुद्ध इति पाठः । 1634

तथा 'सति सम्पद्ये'त्यादयश्च । विधयश्च 'श्वोभूते ब्रह्माणं वृणीते' 'श्वोभूते शेषं समामृश्यात्' 'एक एव यजेत' 'द्वादशरात्रीर्दीक्षितः स्या'दित्यादि, 'यः कामयेत वीरो म आजायेते'त्यादयः । भगवतैव मर्यादारक्षार्थं तथा करणात् । पूर्वपक्षयुक्तयो दुर्बलाः । तस्मात् स एव प्रतिबुध्यते ॥ ९ ॥ भाष्यप्रकाशः। वैदिकं हेतुद्वयं व्याकुर्वन्ति शब्दाश्चेत्यादि । तथाच सौषुप्तिकसत्सम्पत्त्या मुक्तौ पुण्यपापात्म- कफलाभावादुक्तवाक्यं विरुध्येत । 'कैष' इत्यत्रा'प्येष' इत्यनेन सुप्तं आगतं चैकमेव परामृशति । तदपि विरुध्येत । 'सति सम्पद्ये'त्यत्रापि सर्वासां प्रजानामज्ञानं वदति । यदि ता मुक्ताः स्युः, तदा अज्ञानोक्तिरपि विरुध्येत । अत एते शब्दाः सुप्तप्रबुद्धस्यैकस्यैव ज्ञापकाः । एवं विधयोपि । ननु भवत्व

१७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ३ सू० १०. मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥ किञ्चिदाशङ्क्य परिहरति । ननु यत्र कर्मानुस्मृतयो न सन्ति, तत्रान्यो भविष्यति, कचिन्मूर्च्छादिविशेषे सर्वस्मृतिनाशेन मुग्धभावदर्शनात्, तत्र यथा लौकिकवैदिकव्यवहाराः, तथान्यत्रापि भविष्यन्ति, अनुस्मरणादयश्च बुद्धिवृत्तयः, गङ्गाप्रवाहजलस्य गङ्गावत् , य एव चिदंशस्तत्रायाति, स एव तथा भवतु, किं स एवेति निर्बन्धेनेत्याशङ्क्य परिहरति । भाष्यप्रकाशः । मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥ सूत्रमवतारयन्ति किञ्चिदित्यादि । एतदेव विभजन्ते नन्वित्यादि । यत्रैते हेतवः सन्ति, तत्र स एव भवतु । यत्र पुनरैक्यसाधका एते हेतवो न सन्ति, यथा मूर्च्छाविशेषनिवृत्त्यनन्तरमतिमुग्धे अमरुनामके राजनि । तद्देहे शङ्कराचार्यजीव- प्रवेशस्य लोके प्रसिद्धेः । अतस्तादृशे मुग्धे यथा लौकिकवैदिकव्यवहाराः, तथा सौषुप्तिकेऽप्य- न्यजीवे भविष्यन्ति । किञ्च । अनुस्मृत्यादयो बुद्धेर्वृत्तयः, ता जाग्रत्यपि नाना भवन्ति । अतो गङ्गाप्रवाहे पतितस्य जलान्तरस्यापि यथा गङ्गावत् व्यवहारः, तथा य एव चिदंशस्तस्मिन् बुद्धिवृत्ति- प्रवाह आयात, स एव पूर्वकर्मसमापनकर्ता भवतु । एवं शब्दा विधयश्च बुद्ध्यैक्यमादायैव नेतव्या इति लौकिकवैदिकव्यवहारसिद्धौ किं स एव समायातीति निर्बन्धेनेत्याशङ्क्य परिहरतीत्यर्थः । परिहारं व्याकुर्वन्ति मुग्ध इत्यादि । मूर्च्छानन्तरं जीवतो मुग्धभावे अर्धसम्पत्तिः तत्तदितरानिश्चायिका साधारण्येव बुद्धिविंचारकस्य भवति, न सर्वा, नान्यतरनिश्चायिकेत्यर्थः । रश्मिः । मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥ एते हेतव इति । 'अनुस्मरणादयश्च बुद्धि- वृत्तय' इति भाष्यात् । अन्यजीव इति । 'ननु प्रिययेवे'ति भाष्योक्ते । न सन्तीति । 'तत्रान्यो भविष्यती'तिभाष्यमत्र ज्ञेयम् । दृष्टान्तमुखेन कचिन्मूर्च्छतिभाष्यार्थमाहुः यथा मूर्च्छति । मूर्च्छा- विशेषो मरणमूर्च्छाभिन्नः । अतिमुग्धे इति । एकदेशविकृतिन्यायेन भाष्ये मुग्धशब्द इत्याशयः । भाष्ये मूर्च्छादीत्यत्रादिशब्देनाघातः । राजनिति । सर्वस्मृतिनाशेन मुग्धभावदर्शनादिति भाष्यं योजनीयम् । सर्वस्मृतिनाशो 'मेनेऽसन्तमिवात्मान' मिति वाक्येोक्त इव । अत्र हेतुः तद्देह इत्यादिः । तत्र यथेतिभाष्यं विवृण्वन्तिस्म अतस्तादृश इति । तथान्यत्रापीति भाष्यविवरणं तथा सौषु- प्तिकेत्यादि । अन्वित्यादिभाष्यं विवृण्वन्ति स्म किञ्चेति । 'अनुस्मरणादय' इत्युक्ते शाङ्करोक्तोपाधिबु- द्धिसरजन्माकस्मिकं स्यात्तदर्थं लाघवाय सौत्रानुस्मृतिशब्दपुरःसरं व्याकुर्वन्तिस्म अनुस्मृत्यादय इति । 'बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यपरोपि दृष्ट' इति श्रुतेर्जीवोपाधिबुद्धेर्वृत्तयः । आदिना पूर्वदृ- ष्टस्मरणानुव्यवसायस्मृतस्मरणे । य एवेति । अन्ययोगव्यवच्छेदकः । बुद्ध्यैक्यमिति । बुद्ध्यैक्यमे- वादादाय । जीवैक्ययोगव्यवच्छेदकैवकारः । स एवेति । अन्ययोगव्यवच्छेदक एवेति । नान्यः समायातीति । गङ्गेत्यादिभाष्यस्य गङ्गाप्रवहणजले प्रवहणक्रियैक्यप्राप्ते जले । कर्मादीनां सम्ब- न्धसामान्यविवक्षायां षष्ठी । गङ्गाम्बुवत्पुस्तद्वदित्यप्यर्थः । मूर्च्छादीति । आदिनाघात इत्युक्तम् । तत्तदिति । तत्तत् च यत् इतरत् तत्तदितरत् । कर्मधारयः । तस्यानिश्चायिका । साधारण्येव, नतु तत्तद्विषयिकाऽसाधारणीत्येवकारार्थः । सापि विचारकस, अविचारकस्य तु राजामरुवत्सर्वापि । नान्यतरेति । तयोर्द्वयोः संशयविषययोरन्यतरस्य निश्चायिका । ततश्च तयोः संशयिकेति सर्वेत्यु- 1636

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २०१ मुग्धे मुग्धभावे अर्धसम्पत्तिरेव, न सर्वा । नहि मुग्धस्य यज्ञादावधिका- रोऽस्ति । पूर्वप्रवृत्तानि तु जीवनाधिकारात् क्रियन्ते । लौकिकव्यवहारोपि नापूर्वः सिध्यति । पूर्वोक्तहेतुसद्भावे तु न कोपि दोषः । अतो मुग्धे अर्धसम्पत्तिः पूर्वैव, नोत्तरा । कुत एतत् । परिशेषात् । स एव वा, न वेति निश्चयप्रमाणानामभा- भाष्यप्रकाशः । कथमर्धेत्याकाङ्क्षायामेतदेव व्युत्पादयन्ति न हीत्यादि । मुग्धस्येति । मूर्च्छोपरतावपि निवृत्त- पूर्वसंस्कारस्य । अयमर्थः । शास्त्रार्थवत्त्वाधिकरणे कर्तृत्वं जीवगतमेव, न तूपाधिगतमिति स्थितम् । अतः शब्दा विषयश्च जीवमेव विषयीकुर्वन्ति । तत्र 'अर्थी समर्थो विद्वा' नित्यादिनोक्तो यो यज्ञादाव- धिकारः, स मुग्धस्य तस्यापि नास्ति, अर्थित्वाद्यभावात्, अतोऽपूर्वाणि न क्रियन्ते । पूर्वप्रवृत्तानि त्वग्निहोत्रादीनि जीवनाधिकारात् क्रियन्ते । एवं लौकिकव्यवहारोपि पूर्व एव निर्वहति, नापूर्वः कोपि सिध्यति । असिद्धे च तंस्तित्त्र स वा, अन्यो वेति निर्णतुं न शक्यते । लोके अमरुशरीरे अन्यस्येव, ब्रह्मवैवर्तेब्रह्मखण्ड उपबर्हणगन्धर्वशरीरे तस्यैव प्रवेशस्मरणात् । वसिष्ठोपदिष्टविस्मृत- मन्त्रपूजादेस्तत्पल्या बोधनेनातिमुग्धताया अपि स्मरणाच्च । अतो यत्र मुग्धभावानन्तरं कर्मानु- स्मृत्यादिहेतूनां सद्भावः, तदा तु स एव तत्र जीव इति न कोपि शब्दादिविरोधदोषः । यत्र पुनरनुस्मृत्याद्यभावः, तत्र, अत उक्तदोषात् हेतूनां पूर्वैव संपत्तिः, नोत्तरेत्यर्धेव विचारकस बुद्धिरित्यर्थः । अत्र पृच्छति कुत इत्यादि । एतत् अर्धमपि कुत इत्यर्थः । तत्रार्धसत्तायां हेतुं विवृण्वन्ति स एव वा न वेत्यादि । प्रसक्तप्रतिषेधे यः प्रसक्तस्तदप्रतियोगी स परिशेषः । रश्मिः । च्यते । शास्त्रार्थेति । गताध्यायेऽस्ति । एवेति । उपाधिव्यवच्छेदकः । तदेवाहुः नत्विति । जीव- मेवेति । न तूपाधिम् । उक्त इति । कचिच्छास्त्रे उक्तः । तस्यापीति । विचारकस्यापि । पूर्वे- तिभाष्यं विवृण्वन्ति स्म पूर्वप्रवृत्तानीति । जीवनेति । 'यावज्जीवमग्निहोत्रं जुहोती'ति श्रुत्या । लौकिकेतिभाष्यं विवृण्वन्ति एवं लौकिकेति । पूर्व एवेति । अपूर्वयोग्यव्यवच्छेदकः । सिध्य- तीति । पूर्वकर्मवदपूर्वकर्मणि विद्यमानान्न सिध्यति । तस्यैवेति । गन्धर्वस्य । एवकारेण नान्यस्य । वसिष्ठेति । गन्धर्वस्य । पूर्वोक्तेतिभाष्यं विवृण्वन्ति स्म अतो यत्रेति । स एवेति । हेतुसत्त्वे साध्यसत्त्वनियमादेवकारः । न कोपीति । साधारण्यविदेहत्वाभासरूपोपि । शब्दादिसहानवस्थानल- क्षणविरोधरूपो दोषः । अत इतिभाष्यं विवृण्वन्ति स्म यत्र पुनरिति । गन्धर्वे । उक्तेति । शब्दादिविरोधदोषात् । पूर्वैवेति । कर्मरूपा । एवकारः उत्तरानुस्मृत्यादियोगव्यवच्छेदकः । तेनार्था कर्मसम्पत्तिः । नोत्तरेति । अनुस्मृतिसम्बन्धविधिरूपा । नेत्येवमेवकारव्यवच्छेदोत्तरा सम्पत्तिरुक्ता । तेनार्धसम्पत्तिरंशसंपत्तिः । अर्धसम्पत्तिलेनार्धसम्पत्तिस्वीकारः । अर्धमपीति । अविनाश्वरूपं गौणार्थम् । अर्धसत्तायामिति । गौणमुख्यार्धसत्तायाम् । हेतुं विशेषम् । स वान्यो वेत्युक्ते संशय एवकारघ- टितत्वे प्रत्यभिज्ञेत्याशयेन विवृण्वन्ति स्म प्रस्तुते ति । प्रस्तुतं पूर्वसूत्र ऐ

१०२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ३ सू० १०. बादर्थात् सन्देहोऽवशिष्यते । तस्मात् सन्देहान्मुग्धे अर्धप्रतिपत्तिः । भाष्यप्रकाशः। प्रकृते च स एवायं न वेति सन्देहे एकतरनिश्चयजनकप्रमाणानामभावात् सन्देह एवार्थाभिषेधा- प्रतियोगित्वेनावशिष्यते। अतः स एव परिशेष इत्यर्थः । सिद्धमाहुः तस्मादित्यादि । उक्तविधात् परिशेषरूपात्सन्देहान्मुग्धेऽर्धप्रतिपत्तिरर्ध ज्ञानं विचारकस्य, तस्मादेव पूर्वा संपत्तिः, न तु निश्चयात्। अतो मुग्धदृष्टान्तेन न सौषुप्तिकसिद्धान्तभङ्ग इत्यर्थः । किञ्च, अत्र प्रतिपत्त्यादिपदमनुक्त्वा यत् संपत्तिपदमुक्तम्, तेन मुग्धे मूर्च्छितेऽर्धसंपत्तिः। यथा नाडीषु सतो नैक्याद् दुःखाभावमात्ररूपार्ध- संपत्तिः, तथेति बोध्यते । तेन कालीयदमनस्थले मूर्च्छितस्यार्धसंपत्त्या इन्द्रियाणां प्राणानां च पुनरागमनं यदुक्तम्, तदपि न विरुध्यत इति बोधितम् । अनुस्मृत्या च स एव जीव इत्यपि । अविचारस्तु जीवावस्थाभावत्वादेवेति च। एवमत्र प्रासङ्गिकपरिहारेण सुषुप्तेः प्रबुद्धः स एव, न त्वन्य इति निर्णीतम् । अन्ये तु । अस्मिन् सूत्रे मुसलाद्यभिघातजन्यां मूर्च्छा विचारयन्तो, 'जाग्रत्स्वप्नः सुषुप्त'मिति तिस्रोऽवस्था बृहदारण्यके जीवस्योक्ताः, ताः पूर्वं विचारिताः, उत्क्रान्तिश्चतुर्थी, साऽग्रे विचार- यिष्यते, इयं तु न जाग्रत्स्वप्नयोरन्तर्भवति, ज्ञानाभावात्, नापि सुषुप्तौ, निमित्तभेदादाकारभेदाच्च, नापि मरणे, प्राणोष्मणोरुपलम्भात्, अतः परिशेषादियं पञ्चमीत्याहुः । रश्मिः। स एव वा नवेति सन्देहः स परिशेष इत्यर्थः । सन्देह इति । प्रत्यभिज्ञाविषयविषयके सन्देहे द्वितीय- कोटिसहिते । कोट्योरेकतरनिश्चये प्रमाणानां शब्दयोगिप्रत्यक्षानुमानानामभावात् । सन्देह एवेति । एकतरयोगव्यवच्छेदकैवकारः । स एवेति । सन्देहः । एवकारः पूर्ववत् । अर्धं ज्ञानमिति । सन्देहार्धं स एवेति ज्ञानम् । तस्मादेव अर्धज्ञानात् । एवेति । कर्मयोग्यव्यवच्छेदकः । गौणत्वात् । किञ्च, नतु स एवेत्येकविषयकान्निश्चयात् । पूर्वोत्तरीयभावाभावात् । अत इति । आभ्यां सन्देहात् परिशेषरूपात् निश्चयाभावाच्चेत्यर्थः । मुग्धेति । सुषुप्तिः स एवेत्यैक्यवती कर्मानुस्मृतिशब्दविधिभ्यः सैवेयं दीपमालिके- तिवत् । अस्य सौषुप्तिकसिद्धान्तस्य । मुग्धदृष्टान्तेन सुषुप्तिः न स एवेत्यैक्यवती। परिशेषात् । मुग्धवदिति सत्प्रतिपक्षाद्भङ्गो नेत्यर्थः । किञ्च, अत्रेति । सूत्रे । तेनेति । सत्स्मारकेण सम्पत्तिशब्देन । 'सता सौम्य तदा संपन्नो भवती'त्यत्र सत्सम्पत्तिरित्यत्र च सम्बन्धायधारणादेकसम्बन्धिज्ञानमपरसम्ब- न्धिस्मारकमिति सत्स्मारकत्वम् । हेतुचतुष्टये कर्मरूपार्थसम्पत्तिः स एवेत्यर्थसम्पत्तिः सन्देहे । मोक्षे- र्धसम्पत्तिं दृष्टान्तेनाहुः यथेति । दुःखेति । 'दुःखाभावः सुखं चैव पुरुषार्थद्वयं मत'मिति मोक्षेर्ध- सम्पत्तिर्दुःखाभावरूपा । असौत्री नात्र दार्ष्टान्तिके सन्दिग्धव्या । मूर्च्छितस्येति । नन्दादिषु यस्स- कस्यचिन्मुग्धस्य त्रिविधार्थसम्पत्तिः । यदुक्तमिति । श्रीभागवते यदुक्तम् । ननु नन्दादीनां गर्गोप- दिष्टानां कुतो न 'नारायणसमो गुणै'रित्यस्य विचारो मोहजनक इत्याशङ्क्याहुः अविचार इति । विचारस्य न जीवावस्थात्वम् । प्रकरणं तु जीवावस्थानामिति भावः । एवकारो मोहयोगव्यवच्छेदकः । अत्रेति । सूत्रद्वये । प्रासङ्गिक आशङ्काविषयस्तस्य परिहारेण । स एवेति । उक्तद्वितीयकोटिकः । नत्वन्य इति । प्रथमकोटिकोन्यर्थः । निमित्तेति । मूर्च्छाया मुशलाद्यभिघातो निमित्तम् । सुषुप्तौ तु तमः । 'न किञ्चिदवेदिष'मिति तमःकार्याज्ञानकथनात् । इति भेदात् । उपेति । मूर्च्छायां 1638

न तत्र प्राणायनविघातकृता मूर्च्छा विचार्यते । तस्याः प्राणधर्मत्वात् । यथा बाल्यं शरीरधर्मः । व्यर्थश्च विचारः । जीवावस्था एव हि विचार्यन्ते । केवलसाक्षि- वादस्तु न ब्रह्मवादः । तस्मादेक एव जीवः खमादिदोषसम्बन्धरहितस्तादृशजन्म-

भाष्यप्रकाशः।

तद् दूषयन्ति न तत्रेत्यादि । तत्रावस्थासु इन्द्रियादिस्थानभूतगोलकाभिघातकृता मूर्च्छा तु न विचार्यते, तस्याः प्राणानां स्वस्थानपरित्यागेन जायमानतया प्राणधर्मत्वात्, अतो यथा बाल्यं शरीरधर्मो न विचार्यः, तथेयमपि । किञ्च, अयं व्यर्थो विचारः । यथा भवन्मते नाड्यः पुरीत्तद्वा सुषुप्तिस्थानमिति विज्ञानेन न किञ्चित्प्रयोजनम्, तथैतज्ज्ञानेनापि न किञ्चित् प्रयोजनम् । यत् पुनर्भाभत्याम् , एतस्या अवस्थान्तरत्वे तत्प्रविलायाय यत्नान्तरमास्थेयमित्येतद्विचारप्र- योजनमुक्तम् । तदपि तदा युज्येत, यदि सूत्राणि संसारव्यवहाराय प्र

युक्तो भगवज्ज्ञानरहितो ज्ञानाधिकारीति सिद्धम् ॥ १० ॥ इति तृतीयाध्याये द्वितीयपादे तृतीयमतः प्रबोध इत्यधिकरणम् ॥ ३ ॥ भाष्यप्रकाशः। सुषुप्तिरितीति, यथा संप्रज्ञातासंप्रज्ञातभेदेन योगो द्विविधो भवति, तथा सुषुप्तिरपीति । इमां च ब्रह्मव्यर्षसंपत्तिरूपां सुषुप्तिमधिकृत्य, 'आनन्दभुक् चेतोमुखः प्राज्ञः' 'जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत् प्रकाशते' इत्यादिश्रुतयः प्रवृत्ता इत्याह । तन्न । श्रुतीनां या प्रवृत्तिः, सा नाडीषु सुषुप्तिमादायाप्युपपद्यमाना न मोहावस्थामपेक्षत इति न श्रुतिम्यस्तत्रान्तर्भावः शक्यवचनः । सुखदुःखमोहानुस्यूतीनां रोमहर्षवेपथुवैकल्यादीनां च दर्शनेन सुषुप्तेः सकाशाद्भेदस्य स्वयमेवाङ्गीकारात् तस्याः सुषुप्तावन्तर्भावेऽपि हेत्वभावः । नचायोगिनां जीवदशायां बृहदारण्यकेऽवस्थात्रयस्यैवोक्तत्वाज्जाग्रत्स्वप्नयोर्वैलक्षण्ये परिशेषात् सुषुप्तावन्तर्भाव इति युक्तम् । परिशेषस्य मरणार्थसंपत्तावपि तौल्यात् । नच पुनरुत्थानान्न मरणेऽन्तर्भाव इति वाच्यम् । नामभ्रान्त्या यमदूतनीतानामपि पुनरुत्थानात् । षष्ठस्कन्धे चित्रकेतुसुतस्य पुराणान्तरेषु सावित्री- पत्युः सत्यवतश्च पुनरुत्थानकथनाच्च । अतो मरणं सर्वप्राणदेहसंबन्धोपरतिः, मूर्च्छा तु सूक्ष्मप्राणदेहसंबन्धावस्थितिरिति रामानु- जाचार्योक्तमेवात्र युक्तम् । परमेतद्विचारस्यात्र प्रयोजनं तैरपि नोक्तम् । माध्वास्तु भिक्षुवदेवाङ्गीकुर्वन्ति ॥ १० ॥ इति तृतीयमतः प्रबोध इत्य- धिकरणम् ॥ ३ ॥ रश्मिः। सम्प्रज्ञातेति । सबीजनिर्बीजसमाधिः । 'परो हि योगो मनसः समाधि'रिति वाक्यात् । तत्र शब्दार्थ- ज्ञानविकल्पै संकीर्णा सवितर्का समापत्तिः । तत्रेति । समापत्त्योर्मध्ये । स्मृतिपरिशुद्धौ स्वरूपशून्येवा- र्थमात्रनिर्भासा निर्वितर्केति तयोर्लक्षणे । इमामिति । सम्प्रज्ञातसमाधिवदस्पष्टज्ञानरूपाम् । आन- न्दभुगिति । सुखमहमस्वाप्समित्यर्थे सुखलेनानन्दभुक् मनोबुद्धिचेतस्सु सुषुप्तिश्रेतोमुखः चेतउपाया चेतःकरणा । प्राज्ञस्तु सुषुप्तिसाक्षी । यदिति । यदव्ययं प्रकाशते । अत्र यदव्ययं प्राज्ञः । इत्यादीति । आदिना 'यत्र न कंचन कामं कामयते न स्वप्नं पश्यती'ति । वितण्डां वारयन्ति स्म न मोहेति । मूर्च्छावस्थां नापेक्षते । तत्रान्तरिति । अवस्थात्रये मूर्छान्तर्भावः । रोमेति । आदिना स्वेदः । स्वयमिति । भगवता भिक्षुणैव । नान्येन युक्तिं सहपक्षकेण । तस्या मूर्छायाः । एवेति । अन्याव- स्थाव्यवच्छेदकः । मूर्च्छा सुषुप्त्यन्तर्भूता । अवस्थात्रयबोधकबृहदारण्यकात् । जाग्रत्स्वप्नवैलक्षण्यप- रिशेषवत् इत्यनुमानमाहुः नचायोगिनामिति । अयं हेतुः हेतुतावच्छेदकलाघवे उक्तो हेतुः । परिशेषादिति । शङ्कराचार्यजाग्रत्स्वप्नवदिति स्फुटम् । अतः सन्देहात् सुषुप्तौ खमवज्जाग्रतोप्यन्त- र्भावः । अयं दृष्टान्तः । सुषुप्तावित्यादिसाध्यम् । स्मरणादिति सौत्रात्स्मरणालम्भानात् संशयार्थ- सम्पत्तावपि । तौल्यादिति । एककोटिकस्य । एवं कृते मूर्च्छाया मरणेन्तर्भावः वैद्यके प्रसिद्धः । 'मूर्च्छायां चतस्रो गुटिकाः संजीविन्या देया' इति । जीवनसंभावनाकर्त्री संजीविनीति । तत्र शङ्कते न चेति । यमेति । नृगाजामिलप्रभृतीनाम् । पुनरुत्थानेति । मृतस्य । एवात्रेति । मूर्च्छाविषये- ऽन्ययोगव्यवच्छेदः क्रियते । रामानुजाचार्यवचनात् । तद्युक्तम् । एवेति । अन्यप्रकारयोगव्यव- च्छेदकः ॥ १० ॥ इति तृतीयमतः प्रबोध इत्यधिकरणम् ॥ ३ ॥

न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥ (३. २. ४.) इदानीं विषयनिर्धारणार्थं ब्रह्मस्वरूपं विचार्यते । तत्र प्रथममन्योन्यविरुद्ध- वाक्यानां निर्णयः क्रियते । तदर्थमेतावत् सिद्धम् । समन्वयाविरोधाभ्यामेकमेव ब्रह्म प्रतिपाद्यत इति । तत्र यथा कार्यविरोधः परिहृतः, एवं ब्रह्मधर्मविरोधोपि परिहरणीयः । अन्यथा अबोधकता स्यात् । तत्र स्वगतधर्माणामविरुद्धनामग्रिम- पादे विचारः । जडजीवधर्मत्वेन प्रतीतानामत्र विचारः क्रियते । भाष्यप्रकाशः । न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥ प्रस्तूयमानस्य ग्रन्थस्य सङ्गतिं वदन्तः प्रयोजनमाहुः इदानीमित्यादि । ज्ञानाधिकारिविचरोत्तरं ज्ञानविषयनिर्धारो युक्त इति तदर्थ- मवसरसङ्गत्या ब्रह्मणो विवक्षितज्ञानविषयस्य स्वरूपं पादशेषेणाग्रिमपादेन च विचार्यत इत्यर्थः । एतेन विचारेणोपनिषदां ब्रह्मबोधकताप्रकारो ज्ञातो भविष्यतीति तदर्थोऽयं विचार इति बोधितम् । नन्वस्मिन्नधिकरणे वाक्यविचारो दृश्यते, न तु स्वरूपस्येत्याशङ्क्य एतदधिकरणप्रयोजनमाहुः तत्र प्रथममित्यादि । प्रथममिति । स्वरूपविचारात् पूर्वम् । ननु ब्रह्मस्वरूपनिर्णयः प्रथमाध्याये कृतः, विरुद्धवाक्यनिर्णयश्च द्वितीयाध्याय इति किं पुनस्तन्निर्धारणादिनेत्यत आहुः तदर्थ- मित्यादि । तदर्थमिति । स्वरूपनिर्धारणार्थम् । तथाच कार्यमन्यस्य न भवति, किन्तु सर्वं ब्रह्मण एव कार्यमिति तत्र निर्धारात् सर्वत्र वेदान्तेष्वेकमेव ब्रह्म प्रतिपाद्यत इत्येतावत् सिद्धम् । द्वितीयोक्तो विरोधपरिहारोपि तद्विषयनिर्धारणार्थत्वेनैव फलितः, न तु ब्रह्मस्वरूपनिर्धारणार्थत्वेन, ब्रह्मधर्मविरोधस्यापरिहृतत्वात् । अतस्तत्र यथा कार्ये अन्यजन्यत्वकृतो विरोधः कारणैक्य- निर्धारार्थं परिहृतः, एवं कारणभूतब्रह्मस्वरूपनिर्धारणार्थं ब्रह्मधर्मविरोधोपि परिहरणीयः । अन्यथा सधर्मकं निर्धर्मकं वा, जीववत् सदोषं वा, यावद्दोषरहितं वेत्यादिसन्देहानपायादबोधकता वाक्यानां स्यात् । अतस्तन्निवृत्त्यर्थमिदं निर्धारणमित्यर्थः । एवं विचारावश्यकत्वं प्रतिपाद्य तत्रावान्तरविषयं विभजन्ते तत्र स्वगतेत्यादि । अविरुद्धानामिति । परस्परविरुद्धत्वेपि भगवदीयत्वेन प्रतीततया स्वरूपाविरुद्धानाम् । रश्मिः । न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥ अवसरेति । समन्वयेऽविरोधेन स्थिरीकृते विषयनिर्धारः प्रसङ्गसङ्गत्या युक्तः, परन्तु अनधिकारिहृदये न स्फुरतीति प्रतिबन्धकीभूताधि- कारिचिन्तानिवृत्तौ सत्यामवश्यवक्तव्यत्वमवसर उक्तः । आवृत्तौ गौरवमित्यवसरसङ्गत्या । विव- क्षितेति । परम्परासम्बद्धधर्मिसाक्षात्सम्बद्धधर्मिविषयकज्ञानविषयस्य । ब्रह्मण एवेति । एवकारेण सांख्यादिष्टत्युपरुन्धप्रधानादिव्यवच्छेदः । तत्रेति । प्रथमद्वितीयाध्याययोः । तत्र यथेति भाष्यं विवरीतुमाहुः द्वितीयोक्त इति । तद्विषयेति । वाक्यविषयनिर्धारार्थत्वेन । एवेति । ब्रह्मस्वरूपनि- र्धारार्थत्वव्यवच्छेदकः । ब्रह्मधर्मेति । द्वितीयाध्याये तथा । विवृण्वन्ति स्म अतस्तत्रेति । तत्र द्विती- याध्याये ब्रह्मणि ब्रह्मत्वेन सहावस्थानलक्षणो हि कार्यस्य विरोधः ब्रह्मरूपकारणैक्यनिर्धारार्थ प्रधानादि- कारणवादनिरासेन परिहृतः । एवमितिभाष्यं विवृण्वन्ति स्म एवं कारणेति । ब्रह्मधर्मेति । रूपमरूपं चेति ब्रह्मधर्मयोर्विरोधः सहानवस्थानलक्षणः । अन्यथेति भाष्यं विवृण्वन्ति स्म अन्यथेति । इत्या- दीति । आदिना रूपमरूपं चेति सन्देहः तेषामनपायात् । तत्तद्धर्मप्रकारकबोधकता तत्तत्प्रतियोगिता- ब्र० सू० २० १४            1641

१०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ४ सू० ११. तत्र क्वचिज्जडजीवधर्मा भगवति बोध्यन्ते, क्वचिन्निषिध्यन्ते । यथा 'सर्व- कर्मा सर्वकामः' । नचैते जीवधर्मा एव न भवन्तीति वाच्यम् । उच्चावचकर्मणां कामानां च जीवगतत्वप्रतीतेः । 'नेतरोऽनुपपत्ते'रिति सर्वत्र बैलक्षण्यस्योक्तत्वात् । कार्यवि- शेषधर्माणां कारणे वक्तुमशक्यत्वात् । नच कारणधर्मा एव सर्वे कार्ये अंशो वा प्रतीयन्त इति वाच्यम् । 'अस्थूलमनण्वि'त्यादिवाक्यैः प्रापञ्चिकसर्वधर्मवैलक्ष- ण्यस्योक्तत्वात् । अत्र केचिदविरोधमेवमाहुः । सर्वत्र कारणत्वात् भगवानस्ति । ततश्च अस्थूले अस्थूलः, अनणावणुः, उच्चावचकर्तृषूच्चावचकर्ता, उच्चावचकामे उच्चावचकामः, पृथिव्यां सर्वगन्धः, जलादावगन्धः । एवं रसादिषु । एवं स्थानतः परस्योभय- लिङ्गत्वमुपपद्यते । भाष्यप्रकाशः । एवं विषयं विभज्य प्रस्तुताधिकरणविषयादिकमाहुः तत्र क्वचिदित्यादि, निषिध्यन्त इति । अस्थूलादिवाक्येषु निषिध्यन्ते । तथाच विरुद्धवाक्यद्वयदर्शनात् संशयः । किमुभयलिङ्गं ब्रह्म, अन्यतरलिङ्गं वेति । पूर्वपक्षमाहुः नचेत्यादि । प्रकरणावरुद्धत्वाच्चेति न वाच्यमित्यर्थः । तत्र हेतुः उच्चावचे- त्यादि । प्रतीतेरिति । प्रत्यक्षादेव प्रतीयमानत्वात् । नच श्रुत्यपेक्षया लौकिकप्रमाणस्य निर्बलत्वात् तस्य भ्रान्तत्वमिति वाच्यम् । 'नेतरोऽनुपपत्ते'रित्यादिसूत्रेषु सर्वत्र जीववैलक्षण्यस्योक्तत्वात् सर्वकामत्वादीनां ब्रह्मधर्मत्वे जीवसारूप्यापत्त्या शास्त्रस्यापि विरोधात् । कार्यकारणव्यवहार- मङ्गापच्या कार्यविशेषधर्माणां कारणे वक्तुमशक्यत्वात् । शेषं स्फुटम् । तथाच धर्मविधेरुपासनार्थ- तयोपचारादपि नेतुं शक्यत्वाभिषेद्यस्य तु प्रयोजनान्तरशून्यतया स्वरूपबोधनमात्रफलकत्वेनान्यथा नेतुमशक्यत्त्वान्निर्विशेषलिङ्गमेव प्रतिपत्तव्यमिति प्राप्तम् । तत्र सूत्रं व्याकुर्वन्ति अत्रेत्यादि । रश्मिः । कामावो वाक्यानां स्यादित्यर्थः । प्रकरणेति । ब्रह्मप्रकरणावरुद्धत्वात् । एवेति । अनुमानयोग्य- वच्छेदकः । न चेतिभाष्यं विवरीतुमाहुः नच श्रुतीति । तस्येति । अंशांशिनोरभेदे सति वैलक्षण्यस्य अप्रप्तेयुः । विवृण्वन्ति स्म नेतरेति । आनन्दमयाधिकरणे व्याकृतानि । सर्वत्रेति । जीवे जडे च । शास्त्रस्येति । 'नेतरोऽनुपपत्ते'रित्यादेः । कार्येतिभाष्यं विवृण्वन्ति स्म कार्येति । कार्यविशेषेति । सर्वकर्मसर्वकामादीनाम् । पूर्णत्वेन तत्राभावात्, नतु कार्यत्वादीनाम् । 'अजायमानो बहुधा विजायते' इति प्राकटरूपामुल्यत्तिमादायांशतस्तेषां सत्त्वात् । स्फुटमिति । एवेति । नैयायिकप्रवादादेवकारः । अंश इति । 'यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे जीवाः सर्व आत्मान' इति पृथगुपदेशात् । प्रापञ्चिकेति । नञः पर्युदासार्थत्वात्तथा । एवं शेषं स्फुटमित्यर्थः । पर्युदासः सदृग्राही । अस्य पूर्वपक्षत्वं स्फुटयन्ति स्म तथाच धर्मेति । धर्मविधेरिति । 'सर्वकर्मा सर्वकाम' इति भाष्योक्तोभयक्रोडीकारेण यो धर्मविधिः 'ज्योतिष्टोमेन स्वर्गकामो यजेते'ति धर्मैकदेशधर्मविधेः । 'धर्मं चरे'ति विधेर्वा । सर्वकर्मत्वेन सर्वकामत्वेन ब्रह्मोपासनार्थतया सामान्यविशेषभावसम्बन्धरूपोपचा- राच्छक्यसम्बन्धात् । शक्यसम्बन्धो लक्षणा । एवेति । आरोपापवादसङ्गतिसत्त्वादेवकारः । तत्रेति । 1642

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०७ अथवा । कारण एव रूपमरूपं चावच्छेदभेदेन अचिन्त्यसामर्थ्याद्वा । अन्यथा असतः सज्जननप्रसङ्ग इति अपिना संगृहीत इति । एतदुभयमपि न । कुतः । सर्वत्र हि । सर्वत्रैतादृशं रूपं भगवत उपदि- श्यते । हि युक्तोऽयमर्थः । भगवत्स्वरूपप्रतिपादकानि हि एतानि वाक्यानि, भाष्यप्रकाशः। केचित् ब्रह्मवादैकदेशिन ऋषयो वक्ष्यमाणरीत्योभयलिङ्गाविरोधं व्युत्पादयन्ति । 'यतो वा इमानि' 'सदेव सौम्ये'त्यादिभिर्भगवत उपादानत्वस्य सिद्धत्वात् सर्वत्रोपादेये कार्ये भगवानस्तीत्य- विवादम् । ततश्च यथा पार्थिवकारणभूता पृथिवी घटपटस्तम्भादिषु कार्येषु निमित्तवशात् तत्तद्रूपतां धत्ते, तथा भगवानप्यस्थूलादिषु द्रव्येषु, रसादिषु च गुणेषु, तत्तद्रूपतां धत्ते इत्येवं स्थानधर्मरूपं तत्तल्लिङ्गं परस्मिन् भासत इति परस्योभयलिङ्गत्वमुपपद्यत इत्येकं मतम् । अथवेत्यादिनोक्तं द्वितीयं मतम् । अवच्छेदभेदेनेति । अवच्छिद्यत इत्यवच्छेदः प्रदेशस्तेन । तत्र युक्तिस्त्वचिन्त्यसामर्थ्यम् । भाष्ये वाशब्दो वाक्यालङ्कारे । पूर्वोक्तरीत्यान्यथा- ङ्गीकारे तु स्थानस्य कार्यत्वात् स स धर्मस्तत्र तत्र स्थाने कुत आगत इति विमर्शे कारणस्य तद्धर्मवत्त्वाभावेन कार्ये तस्यासतः सत्ता स्यात् । तस्मात् तद्विहायैवं तत्तदवच्छेदभेदेनाचिन्त्य- सामर्थ्यादुभयलिङ्गत्वमुपपादनीयमिति । तदिदमपिना संगृहीतम् । एवं स्थानतोपीतिपदद्वयेन तदुभयमनुवदन्निषेधति नेत्यनेन । तत्र हेतुः सर्वत्रेति । तं व्याकुर्वन्ति सर्वत्रेत्यादि । ननु तत्तद्वाक्येषु तत्तल्लिङ्गताया एव श्रवणात् सर्वत्रैतादृशरूपोपदेशस्य चाश्रवणात् कथं युक्तत्वमित्याकाङ्क्षायां तद्व्याकुर्वन्ति भगवदित्यादि । एतानीति । सर्वकर्म- त्वास्थूलत्वादिवोधकानि । तथाहि । सर्वकर्मत्वादिवाक्यं तावत् , 'अथ खलु क्रतुमयः पुरुष' इति क्रतूपदेशं प्रकृत्य शाण्डिल्यविद्यायाम्, 'एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्य संभवितासी'त्युपसंहारे रश्मिः। एवं पूर्वपक्षे सिद्धान्तसूत्रं व्याकुर्वन्ति अस्तीति । कार्यरूपतया तदाधेयतया च । तेन 'तद्रूपं तत्र च स्थितं साकारव्यापकत्वाचे'त्युक्तेषु द्वयं द्रव्ये, साकारव्यापकं तु गुणे द्रव्येपीत्याशयेनाहुः अस्थूलादिष्विति । अस्थूलादिषु स्थानेषु रसादिषु च स्थानेषु । अथवेत्यादिनेति । पूर्वत्र कारणरूपस्य ब्रह्मणः कार्यस्थानत उभयलिङ्गमूक्तम् । अधुना कारणस्थानत उभयलिङ्गमाहुः अथवेति । एवकारेण कार्यरूपव्यवच्छेदः । .रूपं मूर्तं अरूपममूर्तम् । मूर्तामूर्तब्राह्मणेन । अन्यथेति भाष्यं विवृण्वन्ति स्म अन्यथेति । अस्मात्प्रकारादन्यप्रकारस्य । अन्यथेत्यस्मात्षष्ठ्या लुक् । तद्विहायेति । पूर्वपक्षं विहाय । अत्रेति । पृथिवीदेशेन रूपं वायुदेशेनारूपमिति देशभेदरूपावच्छेदभेदेन । पदद्वयेनेति । नन्वेकमपि न पदं 'अव्ययादाप्सुप' इति 'सुब्लुकि लुकालुप्तत्वे नलुमताङ्गस्ये'त्यस्य प्राप्त्या कथं 'सुप्तिङन्त'- मित्यनेन पदत्वमिति चेत् । न । शब्दलक्षकलक्ष्यान्तेर्जोधर्मत्वात् । तदुभयमिति । पक्षद्वयम् । एतेनैत- दुभयमिति भाष्यं विवृतम् । तत्तल्लिङ्गताया इति । 'सर्वकर्मा सर्वकाम' इत्यादिषु सर्वकर्मत्वादिनो तत्तज्जीवादिषु तत्तच्छन्दस्य सामर्थ्यं शक्त्यादि तस्य समूहस्यैव श्रावणात् । एवकारः शक्यार्थव्यवच्छे- दकः । अर्थपदशक्त्यादिज्ञानानन्तरं गुरूपदेशादिसहकारणसाध्यत्वात् । तत्तल्लिङ्गसमूहस्तत्तल्लिङ्गता तस्या इत्यर्थः। शब्दरूपमङ्गीकृत्य यत्किञ्चिच्छब्दं वाङ्गीकृत्याह सर्वत्रेति । युक्तत्वमिति । भगवदुपदेशरू- 1643

न त्वनुवादकानि । वैयर्थ्यापत्तेः । अचिन्त्यत्वे ज्ञानानुदयः । 'तमेव विदित्वातिमृत्युमेति' 'भक्त्या माम-


भाष्यप्रकाशः । तत्क्रतुविषयं ब्रह्मैव बोधयति । क्रतुश्चात्र नोपासना । शब्दान्तरात् । अन्यथा तद्वैयर्थ्यप्रसङ्गात् । किन्तु मननम् । एवमन्यान्यपि वाक्यानि 'अणोरणीया'नित्यादीनि जीवव्यतिरिक्तमात्मानं विषयीकुर्वन्तीत्यस्थूलादिवाक्यवत् प्रमाणान्तरानवगतभगवत्स्वरूपप्रतिपादकानि, न त्वनुवादकानि । यदि हि तेषां स्थानगतधर्मानुवादकत्वं स्यात्, तदा तद्ब्रह्मज्ञानाभावात् तेषां वैयर्थ्यमेव स्यात् । न ह्यौपाधिकानां धर्माणां तद्वत्तया ब्रह्मणो वा ज्ञानं मुक्त्यर्थमिति वक्तुं शक्यम् । तथा सति दर्शनान्तरीयज्ञानादपि सा स्यात् । ततश्च शास्त्रवैयर्थ्यापत्तिः । नापि यथाकथञ्चिच्छाखाचन्द्र- न्यायेन ब्रह्मप्रतिपत्त्यर्थम् । तथा सति परस्परविरुद्धान् धर्मान्न बोधयेयुः । प्रतिपत्तिजननप्रति- बन्धकत्वात् । किञ्च । अस्मिन् वाक्येऽनुवादकत्वं संभवत्यपि न । 'ज्यायानाकाशा'दित्युक्तेः । न हि लोके आकाशाज्ज्यायः किञ्चिदस्ति स्थानम्, येन तद्वशाद्ब्रह्मणि तदनूद्येत । दिक्कालात्मनां तत्समत्वात् । एवं सांख्यादिदृष्ट्या प्रकृत्यादिग्रहणेपि ततो नान्यस्य ज्यायस्त्वम् । ज्यायस्त्वं चात्र परिमाणादेव विवक्षितं ज्ञायते । अग्रे 'अणीयान् व्रीहे'रिति श्रावणात् । अतस्तत्प्रतिपादकत्वमेवात्र मन्तव्यम् । तथा सर्वकर्मत्त्वादिप्रतिपादकत्वमपि, निरङ्कुशानां तेषामन्यत्राभावादिति । तस्मान्नात्र स्थानप्रयुक्तानुवादकत्वम् । एवं द्वितीयेपि मते, सामर्थ्यस्याचिन्त्यतया तस्याज्ञानात् तद्गतो ब्रह्मणोप्यज्ञानापत्तिः । रश्मिः । पार्थस्य युक्तत्वम् । तद्ध्येति । ब्रह्मैवेति । अन्तर्हृदय इति लिङ्गादेवकारः । तद्वैयर्थ्येति । शब्दा- न्तरवैयर्थ्यप्रसङ्गात् । विषयीति । विरुद्धसर्वधर्माश्रयत्वेन विषयीकुर्वन्ति । अनधिगतार्थगन्तृत्वप्रमाणा- दन्यत् प्रमाणं प्रमाणान्तरं तदनवगतं यद्ब्रह्मस्वरूपं विरुद्धधर्माश्रयं तस्य प्रतिपादकानि । हेतुभाष्यं विवृण्वन्ति स्म यदी त्यादि । ब्रह्मेति । किन्तु स्थानगतधर्मज्ञानात् । तेषां ब्रह्मज्ञानांशे वैयर्थ्यम् । एवेति । अवैयर्थ्ययोग्यव्यवच्छेदकः । नहीति । उपाधिः अस्थूलादिः स्थानं अस्थूलादेः । पृथिवीस्थानं सर्वगन्धस्य । जलादिस्थानमगन्धस्य । तादृशधर्माणामौपाधिकानाम् । तादृशधर्मवत्तया तादृशास्थूलाद्यौ- पाधिकस्थूलादिमत्तया पृथिव्याद्यौपाधिकसर्वगन्धादिमत्तया वा ब्रह्मणो वा ज्ञानम् । दर्शनेति । मायावच्छिन्नं चैतन्यमीश्वरः इति ज्ञानात् । सांख्यदर्शनेऽसङ्गोपाधिका सङ्गपुरुषज्ञानात् । शास्त्रेति । अविरोधाध्यायसहकृतोक्तोपपादकवेदान्तशास्त्रवैयर्थ्यापत्तिः । यथाकथमिति । औपाधिकेनापि प्रकारेण । अस्यां स्थूलायां शाखायां चन्द्र इति न्यायेन । शाखाद्रष्टारं चन्द्राद्रष्टारं प्रत्युक्तिः सूक्ष्मप्रतिपत्त्यर्था । प्रतिपत्तीति । नच विरुद्धधर्माश्रयत्वेन प्रतिपत्तिः । अन्यैरनङ्गीकारात् । तद्वशादिति । स्थानवशात् । तदनूद्येतेति ।

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०९

भिजानाति यावान् यश्चास्मि याहशः, ततो मां तत्त्वतो ज्ञात्वा विशते तदन- न्तर'मिति ज्ञानानन्तरमेव सायुज्यप्राप्तेः । न च 'यस्यामतं तस्य मतं मतं यस्य न वेद सः, अविज्ञातं विजानतां विज्ञातमविजानता'मिति वाच्यम् । शास्त्रानारम्भप्रसङ्गात् । अयं च विरोधः परिहरणीयः । सर्वे हि विरोधा अत्र चिन्त्यन्ते । नापि तत्तदुपादानभूतप्रदेशविशेषेणाविरोधः । अनुवा- दकत्वेन वैयर्थ्यापत्तेः । न च भगवति भेदोऽस्ति । प्रत्यारम्भ'मेकमेवा-

भाष्यप्रकाशः ।

ततश्च 'तमेवे'त्यादिश्रुत्युक्तसाधनाभावान्मोक्षस्याप्यप्राप्त्यापत्तिः । भक्त्याभिज्ञानादेरपि बाधापत्तिः स्यात् । नच 'यस्यामत'मित्यादावमतस्य मतत्वश्रावणादचिन्त्यत्वेनामतत्वेपि सुखेन ज्ञानोदयसंभव इति वाच्यम् । तथा सति विचारशून्यानामपि ज्ञानसंभवेन विचारशास्त्रस्य वेदान्तरूपशास्त्रस्य वानारम्भप्रसङ्गात् । किञ्च । एतद्वाक्योक्तम॑मततायां मतत्वं तदा बुद्धिगोचरीभवेत्, यदास्य बोधन- प्रकारोवगम्येत, स एव तु नावगम्यते । वदतो व्याघातात् । अतोयमपि विरोधः परिहरणीयः । यतः सर्वे विरोधा अत्र चिन्त्यन्ते । अतो यावदस्य बोधनप्रकारो न व्युत्पादितः, तावत्पर्यन्तम- बोधकत्वाभानेन ज्ञानं वक्तुं शक्यम् । किञ्च । नापि तत्तदुपादानभूतप्रदेशविशेषेणाविरोधो युज्यते । तादृशत्वस्य पृथिव्यादौ दर्शनात् वाक्यस्य लोकसिद्धानुवादकत्वेन वैयर्थ्यापत्तेः । नच पृथिव्यादीनां सांशत्वादंशभेदेन तथात्वम्, भगवतस्तु निरंशत्वात् प्रदेशभेदेनोपगम्यत इत्यनु- वादकत्वाभावान्न वैयर्थ्यमिति वाच्यम् । यदि भगवति स्वगतभेदो भवेत्, तदा पत्रपुष्पादीनामिव, तदैवमुपगन्तुं शक्येत । स तु नास्ति । प्रत्यारम्भं यत्र यत्र ब्रह्म निरूपणमारभ्यते, तत्र तत्र 'एकमेवाद्वितीय'मिति वचनात् । यदि सर्वत्रैकरूपता न स्यात्, तदा प्रत्यारम्भं तथा कथन-

रश्मिः ।

किन्तु ब्रह्मप्रतिपादकत्वम् । अचिन्त्यत्व इति भाष्यं विवृण्वन्ति स्म एवं द्वितीय इति । तमेवेति- भाष्यं विवृण्वन्ति स्म ततश्चेति । बाधेति । ज्ञानाभावेऽभिज्ञानबाधः । अभित इत्यस्य ज्ञानधर्मत्वात् । भाष्ये ज्ञानानन्तरमिति 'विदित्त्वे'ति क्त्वान्तार्थः । क्रमादेवकारः । अन्यथा 'अतिमृत्युमेति विदित्वे'त्यपि वदेत् । नचेतिभाष्यं विवृण्वन्ति स्म नचेति । शास्त्रेतिभाष्यं विवृण्वन्ति स्म तथा सतीति । विचारेति । मतपदोक्तं मननं विचारस्तच्छून्यानाम् । अयं चेति भाष्यं विवरीतुमाहुः किञ्च एतदिति । वाक्योक्तेति । ममेदं मतमिति ममतायां श्रुतिनिष्ठायाम् । अवगम्येतेति । अधोक्षजव्यतिरिक्तप्रकारः सर्वेषामाचार्याणां नूतनमार्गप्रवर्तकत्वात्तन्मध्ये कस्यचिन्मार्गत्त्वेन ज्ञायेत सर्वैः । वदत इति । मतममतमिति वदतो व्याघातः 'मम माता वन्ध्ये'ति वाक्यवत् । विवृण्वन्ति स्म अतोयम- पीति । यतो हीतिभाष्यं विवृण्वन्ति स्म यत इति । अत्रेति पूर्वपादे । उत्तरत्र च पादे । अस्येति विरोधस्य । बोधनप्रकारो विरुद्धसर्वधर्माधारत्वलक्षणः । विरोधस्य ज्ञानावरोधकत्वात् । नापीतिभाष्यं विवृण्वन्तिस्म किञ्चेति । तत्तदुपादानेति । यथोद्भूतगन्धोपादानपृथिवीभूतप्रदेशरूपविशेषेण पाषा- णभूतप्रदेशेन चाविरोधो गन्धतदभावयोः । वैयर्थ्येति । लोकेऽनधिगतार्थगन्तृत्वाभावेनाप्रामाण्यात्तथा । न चेतिभाष्यं विवरीतुमाहुः न चेति । विवृण्वन्ति स्म भगवत इति । इत्यन्विति । इति उक्त- प्रकारेण लोकेऽंशभेदात्तदनुवादमादाय प्रमाणलक्षणोपपत्तेरनुवादकत्वाभावादित्यर्थः । स्वगतेति । गीताष्टादशाध्यायोक्तसात्त्विकज्ञाननष्टस्वगतभेदो भवेत् । प्रत्यारम्भमिति भाष्यं विवृण्वन्ति स्म प्रत्या-

१. अमततायामित्यत्र ममतायामिति पाठो रश्मौ । २. सर्वे हीत्यत्र यतो हीति रश्मौ पाठः स्यात् । 1645

११० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ४ सू० १२. द्वितीय'मिति वचनात् । अल्पकल्पनायामपि श्रुतिविरोधः सिद्धः । श्रुत्यविरो- धार्थमेव हि प्रवृत्तेः । तस्मान्न मतान्तरानुसारेण जडजीवधर्माणां सत्त्वासत्त्वे परिहर्तुं शक्ये ॥ ११ ॥ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥ प्रकारान्तरेण समाधानमाशङ्क्य परिहरति । न भवदुक्तो विरोधः सम्भ- वति । भेदात् । कारणकार्येषु सर्वत्र भेदाङ्गीकारात् । प्रपञ्चविलक्षणं ब्रह्म भिन्नम् । प्रपञ्चधर्मवत् ब्रह्म भिन्नम् । तथा अज्ञातं ज्ञातं च । एकस्य भेदस्याङ्गीकारे सर्वमुपपद्यत इति चेत् । न । प्रत्येकमतद्वचनात् । अभेदवचनात् । 'इयं पृथिवी सर्वेषां भूतानां मध्वि'ति ब्राह्मणे 'अयमेव स योऽय'मिति सर्वत्राभेदवचनात्, कार्यकारणरूप- भाष्यप्रकाशः। मनर्थकमेव स्यात् । अतोल्पकल्पनायामपि श्रुतिविरोधः सिद्धः । न च सोल्पत्वान्न दुष्ट इति युक्तम् । श्रुत्यविरोधार्थमेव भगवतो व्यासस्य प्रवृत्तेः । तस्मान्न मतान्तरोक्तरीत्या जडजीवधर्माणां सत्त्वा- सत्त्वरूपस्योभयलिङ्गविरोधस्य परिहारसिद्धिरित्यर्थः । विद्वन्मण्डने तु प्रकरणसिद्धार्थविचारेणैतस्य सिद्धान्तसूत्रत्वमेव सेत्स्यतीत्याशयेन वक्ष्य- माणरीत्यैतदधिकं व्याख्यातम् । सोपाधिकं ब्रह्म सविशेषश्रुतिविषयः, निरुपाधिकं तन्निर्विशेष- श्रुतेरित्यपि मतमर्थाद्भिरस्तम् ।

प्रकाराणां भेदनिषेधात्। तस्मान्न भेदाङ्गीकारेण श्रुतयो योजयितुं शक्याः ॥ १२ ॥ भाष्यप्रकाशः। स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्व'मित्येकं वाक्यम् । एवमग्रेऽपि, अब्व्याकाशवाय्वादित्यचन्द्र- दिग्विद्युत्स्तनयित्नुधर्मसत्यमानुषात्मवाक्यानि । एवं चतुर्दश । तत्रायमर्थः । इयं प्रसिद्धा पृथिवी सर्वेषां भूतानां ब्रह्मादितृणस्तम्बान्तानां मधु मध्विव । उपकारकं कार्यम्, भूतादृष्टजन्यत्वात् । तथा, अस्यै पृथिव्यै अस्याः पृथिव्याः सर्वाणि भूतानि पूर्वो- क्तानि मधु मध्विव उपकारकाणि, कारणत्वात् । किञ्च । यश्चायमस्यां पृथिव्यां तेजोमयश्चिन्मात्र- प्रकाशमयः अमृतमयः अमरणधर्मा पुरुषः, सोऽपि 'तदभिध्यानादेव त्वि'ति न्यायेन पृथिवी- रूपतया तदुपकारकत्वात् तस्यै मध्विति चकारेण समुच्चीयते । यश्चायमध्यात्मम्, 'अधिशरीरं शारीरः शरीराभिमानी' त्यन्ये । वस्तुतस्तु 'यः पृथिव्यां तिष्ठ'न्नित्यादिनोक्तोऽन्तर्यामी तेजोमयो- ऽमृतमयः पुरुषः सोऽपि तेनाभिमानेन प्रकारेण भूतोपकारकत्वाद्भूतानां मध्वित्यपि चकारान्तरेण समुच्चीयते । अयमेव सः । अयं तेजोमयादिरूपः पुरुष एव सः । मैत्रेयीब्राह्मणान्ते पूर्वग्रन्थ उक्तो योऽयमात्मा उक्तविधपुरुषरूप इदममृतमानन्दः । इदं ब्रह्माक्षरम् । इदं सर्वं पूर्वोक्तकार्यकार- णरूपप्रकारात्मकमिति । एवमग्रिमेष्वपि वाक्येषु बोध्यम् । सिद्धमाहुः तस्मादित्यादि । एतेषां कार्यादीनां भगवदात्मकत्वनिगमनेन प्रतिवा- रश्मिः। एवेति । अन्यत्रादानां द्वितीयाध्यायपादयोर्निराकरणादेवकारः । कार्यकारणरूपभेदात् । छान्दसी षष्ठीस्थाने चतुर्थीत्याहुः अस्याः पृथिव्या इति । पूर्वोक्तानीति । ब्रह्मादितृणस्तम्बान्तानि । कारणत्वादिति। ब्रह्मणः कारणत्वं तृतीयस्कन्धे । तृणस्तम्बान्तानां सत्तारूपाणां कारणत्वमवयवत्वात्। तदभिध्यानादिति । अयं न्यायः द्वितीयाध्यायतृतीयपादे गतः । पृथिवीति । तस्य तस्य कार्यस्यो- त्पादनार्थं तदभिध्यानं तत्तदात्मकत्वं तत्तत्कार्यकारणात्मकत्वं तेन तत्कारणवाचकत्वमिति 'तदभि- ध्यानादेव तु तल्लिङ्गात्स' इति सूत्रांशार्थात् पृथिवीरूपतया तदुपकारकत्वात् तस्य 'तस्माद्वा एतस्मा'दिति श्रुतिप्रसिद्धस्योषध्यादेः उपकारकत्वात् कारणत्वात् । तस्यै तस्याः पृथिव्या मधु कार्यम् । चकारेण 'यश्चाय'मिति चकारेण । अधुना 'इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्म१शरीरस्तेजोमयोऽमृतमयः पुरुषोयमेव स योयमात्मेदममृतमिदं ब्रह्मेद५सर्व'मिति पूर्वकण्डिकां पुरुपान्तां व्याकृत्य भाष्य 'मयमेव स' इत्यंशवि- वरणेन विवरिष्यन्त आहुः यश्चायमिति । अधिशरीरमित्यव्ययीभावः । आत्मनीत्यध्यात्ममिति । भूतोपेति । शरीररूपभूतसोपकारकत्वात्कारणत्वात् । भूतानां मधु कारणम् । भाष्यं विवृण्वन्तिस्म अयमेवेति । उक्त इति । विज्ञाता । 'विज्ञातारमरे केन विजानीया' दिति श्रुतेः । 'इदममृत'मि- त्यादित्रयं व्याकुर्वन्तिस्म इदममृतमिति । पूर्वोक्तेति । एतेन कार्यकारणेति भाष्यं व्याकृतम् । कार्यादिरूपमग्रे वक्तव्यम् । एवमिति । कार्यकारणरूपप्रकाराणां भेदनिषेध इति बोध्यम् । एतेषामिति । कार्यकारणरूपप्रकाराणाम् । भगवदात्मेति । इदं निगमनं मधुब्राह्मणसमाप्तौ 'तदेतद्ब्रह्मापूर्वमनपरम- नन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासन'मिति श्रुतौ तच्छब्दान्निगमनेन । यद्यपि यदेतादृशं ब्रह्म तदेवैतत्समस्तं जगदिति व्याख्यानम्, तथाप्यारम्भेऽथवैतैर्हेतुभिः साधित'मिदं सर्वं यदयमात्मे'त्यस्यैव पूर्वप्रतिज्ञातस्य निगमनार्थमिदमिति ग्रन्थान्निगमनं बोध्यम् । प्रतिवाक्यमिति । चतुर्दशवाक्येषु । 1647

११२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ४ सू० १३ . अपिचैवमेके ॥ १३ ॥ भेदाङ्गीकारे बाधकत्वात् । अपिच एवमेवाभेदमेव भेदनिषेधेनैके शाखिनो वदन्ति । 'मनसैवेदमाप्तव्यम्, नेह नानास्ति किञ्चन, मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यती'ति भेददर्शननिन्दावचनात् । तस्मान्न भेदाङ्गीकारः कर्तुं शक्यः । इवशब्दो 'बहु स्या'मिति व्यावृत्त्यर्थः । तस्मादुपनिषत्सु सर्वप्रकारो- ऽविरोधः सिद्धः ॥ १३ ॥ इति तृतीयाध्याये द्वितीयपादे चतुर्थमुभयलिङ्गमधिकरणम् ॥ ४ ॥ भाष्यप्रकाशः । क्यमभेदस्य बोधनात् । तथाच तत्तद्वाक्येषु तत्तद्धर्मश्रावणेपि ब्रह्मण ऐक्यात् सर्वत्र सर्वं कार्यं सर्वं कारणं सर्वाणि रूपाणि सर्वे प्रकाराः सन्तीति विरोधात्तादवस्थ्यान्न भेदाङ्गीकारेण श्रुतयो [

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११३ अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥ (३-२-५.) एकदेशिमतेन समाधानमाह । कथमत्र सन्देहः, विरोधो वा जडजीवध- भाष्यप्रकाशः। वयवत्वेन वा अतिरिक्ततया वेदनविषयं भवति, तत् ब्रह्मैव, न तु तदतिरिक्तम् । विलक्षणप्रती- तिविषयस्य कथमपृथक्त्वमित्याशङ्कावारणाय अर्थान्तरकल्पनैनास्य भेदपरत्ववारणाय च भेदाङ्गी- कारे बाधकमाह मृत्योः स इत्यादि । इवशब्धं विनापि भेददर्शननिन्दासिद्धेस्तद्वैयर्थ्यं स्यादिति तत्प्रयोजनमाहुः इवेत्यादि । तथाच घटपटवत् घटान्तरवत् तरुकुसुमवच्च तत्त्वतो नानेव नाना पश्यति तस्य दोषः, न त्वैच्छिकं विलक्षणप्रतीत्युत्पादकं यः पश्यति, तस्य दोषः । तादृशस्य श्रौतत्वेन वास्तवत्वादिति बोधनं प्रयोजनमित्यर्थः । सिद्धमाहुः तस्मादित्यादि । यस्मादुपनिषत्सु सर्वत्रोभयलिङ्गमुच्यते, भेदश्च सर्वप्रकारेण निषिध्यते, तस्मात् तथेति श्रुतीनामबोधकत्वमेव प्रस- क्तमित्यर्थः । एवमत्राधिकरणे आक्षेपसङ्गत्या विरोधः साधितः ॥ १३ ॥ इति चतुर्थ- मुभयलिङ्गाधिकरणम् ॥ ४ ॥ अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥ सङ्गतिं वदन्तोधिकरणमवतारयन्ति एकदेशीत्यादि । अयं ह्येकदेशी ब्रह्मण एकदेशेन जगत्समवायित्वं तदतिरिक्तस्य जगद्वैलक्षण्यं स्वरूपतः सधर्मकत्वं स्वेच्छया व्यवहार्यत्वं ज्ञानात्मकं ब्रह्मण आकारं च मन्वानो ज्ञानाकारस्य ब्रह्मणः प्रपञ्चे प्रतिबिम्बवेन लौकिकधर्मवत्त्वभानं मनुते । तन्मतेन विरोधसमाधानमाहेत्यर्थः । अस्याग्रे किञ्चिदंशेनादरणीयत्वादादावेवन्मतेन कथनम् । तत्रैकदेशी स्वमतं व्युत्पादयितुं पूर्वा- धिकरणसन्देहं सिद्धान्तं चाक्षिपन्ननुयुङ्क्ते कथमित्यादि । अत्रोभयलिङ्गवाक्यश्रवणे किमापाततः रश्मिः। व्यवच्छेदः । मनसा मानसीसेवानिविष्टेन । ब्रह्मैवेति । 'एकमेवाद्वितीय'मिति श्रुतेर्ब्रह्म, नतु तदतिरिक्तमित्येवकारार्थः । सात्त्विकज्ञानविषयत्वेन तत्स्मृत्युपष्टम्भात् । विलक्षणेति । प्रतीतिशब्देन शब्दात्पाबल्यम् । अर्थान्तरेति । अर्थः भेदपक्षे नानेव यत्किञ्चिद्भेदद्रष्टुः निन्दाश्रावणात्, किं पुनर्भेदद्रष्टुरित्येकः । द्वितीयस्तु 'य इह नानेव पश्यति' भेदमिव पश्यति किं पुनर्भेदमिति । तदुभयादन्योऽर्थोऽर्थान्तरम् । यथा 'य इह स्वप्ने' नानेव भातं ब्रह्म पश्यति 'अविभक्तं च भूतेषु विभक्तमिव च स्थित'मिति ब्रह्मप्रकरणीयगीतावाक्याद्ब्रह्म तादृक् 'स मृत्योर्मृत्युमाप्नोति' । तथाच स्वप्नाध्याये आत्मदर्शनस्य मृत्युजनकत्वमुक्तम् । एवमर्थान्तरकल्पनेनेत्यर्थः । भेदाङ्गीकार इति । 'बहु स्या'मितीच्छात्तः पूर्वं नानेव भाते भेदाङ्गीकारे । तत्प्रयोजनमिति । ब्रह्मस्वरूपे इवार्थसाधनं गीतानुरोधेन फलम् । तत्त्वत इत्यादि । इच्छातोपि पूर्वम् । नानेव वर्तमानं नाना तत्र भेदं पश्यति । विलक्षणेति । नाना, भेदमिति यावत् । तादृशस्येति । ऐच्छिकभेदस्य । अतएव भेदाभेदवादः । तादृशस्य नानेव भानस्येति वार्थः । श्रौतत्वं तु मुखपद्माद्विनिःसृतत्वेन वेदत्वाद्गीतायाः । तथेति । जीवपरत्वेन प्रतीतानां विरोधादपि तथा । एवेति । उभयलिङ्गवत्त्वस्य वक्ष्यमाणत्वेनानिष्यतेस्तथा । आक्षेपेति । अबोधकत्वमाक्षेप्यमिति विरोधाग्रे तन्निराकरणयोराक्षेपसङ्गत्येत्यर्थः ॥ १३ ॥ इति चतुर्थमुभयलिङ्गाधिकरणम् ॥ ४ ॥ अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥ सङ्गनियमिति । आक्षेपसङ्गतिं समाधान- पदेन वदन्तः । आक्षेप्यविरोधसमाधानात् । मुख्यसिद्धान्तं त्यक्त्वैकदेशिमतकथने बीजमाहुः अस्याग्र इति । एकदेशिमतस्य । अनुयुक्त इति । अत्रैकदेशी जैमिन्यादीनां सूत्राणामन्यतमो नोदयति १. विरोधे । २. अविरोध आक्षेप्यः । ब्र० सू० २० १५ 1649

११४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १४. र्माणां विधिनिषेधयोः । जडजीवयोर्हि जडजीवधर्मा भवन्ति । अन्यत्र तूपदिश्य- माना उपासनार्था भवन्ति । ननूक्तो भेदाभावः । सत्यम् । तथापि कार्यकारणां- शाभावकृतस्य भगवद्विहारार्थं जातस्य भेदस्य निषेद्धुमशक्यत्वात् । तस्मात् ब्रह्मणि जडजीवधर्माणां निषेधो युक्तः । उपचारात्तु सर्वकर्मादयः । विपरीतं किं न स्यात्, अत आह । अरूपवदेव । रूप्यते निरूप्यते व्यव- ह्रियत इति रूपं सर्वव्यवहारविषयत्वम्, तद्युक्तं रूपवत् विश्वम् । ब्रह्म तु भाष्यप्रकाशः। सन्देहः, उत ब्रह्मणि जडजीवधर्माणां विधिनिषेधयोर्विरोधनिर्धारात् । विरोधश्च किमुभयलिङ्ग- श्रवणात्, उतोभयलिङ्गवतोर्भेदनिश्चयादिति । तत्र सन्देहे द्वितीयं हेतुं निरस्यति जडजीवयो- रित्यादि । तथाच द्वितीयस्य हेतोरभावात् ततः सन्देहो न युक्त इत्यर्थः । सन्देहे द्वितीयं हेतुं निरस्य स्वमतं साधयितुं विरोधद्वितीयहेतुमुज्जीवयति नन्वित्यादि । तथापीति । उक्तत्वेपि । तथाच तादृशस्यापि निषेधे 'बहु स्या'मित्यादेः 'स वै नैव रेम' इत्यादेश्च पीडया सृष्टिदशायां भेदाभावस्यैवाशक्यवचनत्वात् द्वितीय एव हेतुरवश्यमभ्युपेय इति तादृग्वाक्यश्रवणादापातत एव सन्देहः, उभयलिङ्गवतोर्भेदनिश्चयादेव च विरोध इत्यर्थः । तेन सिद्धं स्वसिद्धान्तमाह तस्मादित्यादि । एवमेकदेशिसिद्धान्तेन समाधानं सङ्क्षेपतो निरूप्य, तदेव विशेषतो वक्तुं सूत्रमवतारयन्ति विपरीतमित्यादि । ब्रह्मण उपादानकारणत्वं पूर्वं सिद्धम् । अतः कारणधर्मा एव सर्वकर्मादयः कार्ये प्रतीयन्ते, सुवर्णरूपादय इव कटकादिषु, अतस्ते युक्त्या श्रुत्या च तत्र सिद्धा इत्यनेकप्रमाण- सिद्धत्वाद् विधिपक्षोपि युक्त इति स एव कुतो न स्यात्, विरोधपक्ष एव वा कुतो न स्यादित्याश- रश्मिः। सेत्यर्थः । अग्रेत्यस्य व्याख्यानमुभयेति । जीवब्रह्मलिङ्गवाक्यश्रवणे । आपाततो निर्धारं विना । जीवधर्मा ब्रह्मधर्मा वेति सन्देहः । एवं पूर्वाधिकरणसन्देहमुक्त्वा विरोधमाहुः सिद्धान्तरूपम् । विरोधश्चेति । उभयलिङ्गवतोर्ब्रह्मजीवयोः । 'न भेदा'दिति सूत्रे भेदस्य निश्चयादाशङ्कांशे । तथाच भाष्यार्थ एवम् । विरोधो वा जडजीवधर्मसम्बन्धिनोः सर्वकर्मादिवाक्यस्थूलादिवाक्यगतविधिनिषे- धयोः श्रवणादिति । निरस्यतीति । एकदेशी । तत इति । हेत्वभावात्सन्देहो न युक्तः । एतेन पूर्वाधि- करणसन्देह आक्षिप्त इत्याक्षेपसङ्गतिरुक्ता । उज्जीवयतीति । शङ्कामुखेन प्रतिपादयति । उक्तत्वेपीति । 'प्रत्येकमदूषणा'दिति हेतुनोक्तत्वेपि । तादृशस्येति । क्रीडोपयोगिभेदस्येत्यर्थः । तेनैकदेशी जैमिनिः शिष्य इत्युक्तम् । पूर्वतन्त्रे भेदस्य द्वितीयाध्याय्यार्थत्वात् । तादृशस्येति । एवेति । भेदव्यवच्छेदकः । द्वितीय एवेति । उभयलिङ्गवतोर्भेदरूपः । एवकारः प्रथमहेतुव्यवच्छेदकः । आपातत एवेति । एवकारो ब्रह्मणि जडजीवधर्माणां विरोधनिर्धाररूपद्वितीयहेतुव्यवच्छेदकः । एवेति । उभयलिङ्गश्रवणरूपहेतुव्यवच्छेदकः । विरोध इति । सिद्धान्तः । तस्मादित्यादीति । भाष्ये । निषेध इति । अस्थूलादिश्रुतिषु निषेधः । उपचारादंशांशिभावसम्बन्धरूपात्तु सर्वकर्मसर्वकामादयो ब्रह्मणि जीवधर्मा इत्यर्थः । प्रकृते । तदेवेति । अन्ययोगव्यवच्छेदक एवकारः । पूर्वमिति । द्वितीयाध्याये समन्वयाधिकरणोक्तं उपादानकारणत्वं मतान्तरनिरासेन सिद्धम् । एवेति । कार्यधर्मयोगव्यवच्छेदक एवकारः । तत्रेति । ब्रह्मणि सिद्धाः । अतो नोपचार इति भावः । विरोधेति । पूर्वाधिकरणसि- 1650

[Header: भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११५]

तद्विलक्षणम् । कार्यकारणांशांशिनोर्वैलक्षण्यस्य युक्तत्वात् । नन्ववैलक्षण्यमपि युक्तम्, कारणत्वात्, अत आह । तत्प्रधानत्वात् । तस्य ब्रह्मणः प्रधानत्वा- न्मुख्यत्वात् । यत्र हि यत् प्रतिपाद्यते, तत्र तस्य मुख्यत्वम् । ब्रह्मप्रतिपादने ब्रह्मधर्माणांमेव मुख्यत्वम्, नान्यधर्मांणाम् । यथा प्रशासनस्य मुख्यत्वम्, तथा 'सर्वकर्मे'ति लौकिककर्मानुवादेन भगवत्सम्बन्धे स्पष्टमेवामुख्यत्वम् । विशि-

[Section: भाष्यप्रकाशः ।] ज्ञायामेकदेशिमतेन समाधिं वक्तुं ब्रह्मणः प्रपञ्चवैलक्षण्यं तत्समवायित्वादिकं चाहेत्यर्थः । तेन सर्वकर्मत्वादयो धर्माः पाणिपादादयश्च ब्रह्मणि सन्ति न वेति सन्देहः । उभयविधवाक्य- श्रवणं सन्देहबीजम् । सन्तीति पूर्वः पक्षः । न सन्तीति तन्मते समाधानमिति बोधितम् । समाधानव्युत्पादनाय सूत्रं व्याकुर्वन्ति रूप्यत इत्यादि । हेतुं व्युत्पादयन्ति यथेत्यादि । तथेति । वैधर्म्ये दृष्टान्तः । भगवत्सम्बन्ध इति । विधीयमान इति शेषः । तथाच तत्र 'होतद्वै तदक्षर'- मिति ब्रह्मैवोपक्रम्य प्रशासनसोक्तत्वात् तस्य मुख्यत्वम्, अत्र तु 'मनोमयः प्राणशरीर' इति शरीरविशिष्टमुपक्रम्य पठितत्वात् तथेत्यर्थः । नन्वत्र नै केवलोनुवादः, किन्तु लौकिकधर्मतुल्य-

[Section: रश्मिः ।] द्धान्तपक्षः । एवकार एकदेशिमतयोगव्यवच्छेदकः । उभयेति । सर्वकर्मास्थूलादिरूपविधिनिषेध(द्वि)- विधवाक्यश्रवणम् । समाधीति । पूर्वपक्षस्तु सर्वकर्मत्वादयो धर्मा ब्रह्मणि सन्तीति सिद्धान्तेन सेत्स्यति । भाष्ये । युक्तमिति । घटकपालद्वयोर्मृत्त्वेनावैलक्षण्यमपि युक्तम् । तस्येति । घट इत्युक्ते घटस्य मुख्यत्वं यथा । ब्रह्मणोऽधोक्षजत्वाद्ब्रह्मत्यनुक्त्वा धर्मपर्यन्तानुधावनम् । ब्रह्मधर्मा अस्थूलादयस्तेषाम् । अन्यधर्मा जीवधर्मत्वेन प्रतीताः सर्वकर्मादयस्तेषाम् । एवकारव्यवच्छेद्यमाहुः- नान्येति । एवकारेण न ब्रह्म व्यवच्छेद्यमधोक्षजत्वात् । प्रकृते । व्युत्पादयन्तीति । दृष्टान्तेन स्पष्टयन्ति । यथेत्यादीति । प्रशासनस्येत्यादि । मधुब्राह्मणान्त उक्तस्य । 'तदेतद्ब्रह्मापूर्वमनपर- मनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासन'मिति श्रुतिः । यद्वा । प्रशासनं 'अथ ह वाचक्नव्युवाचे'त्यारम्भकेऽक्षरब्राह्मणोक्तं प्रशासनं तस्येत्यर्थः । 'एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिवी विधृते तिष्ठत' इति श्रुतिः । भाष्ये । लौकिकेति । जीवधर्मत्वेन प्रतीतकर्मणामनुवादेन सिद्धकथनेन । स्पष्टमेवेति । एवकार आरोपापवादसङ्गतेरपि । अमुख्यत्वमौपचारिकत्वम् । जीवधर्मत्वेन प्रतीतधर्मविरोधपरिहारोत्र निरूप्यत इति सर्वत्वविशिष्टकर्मणामजीवधर्मत्वेन निरूपणविरोधामाशङ्क्य समादधुः विशिष्टेति । सर्वत्वविशिष्टकर्मबोधनेपि । प्रसिद्धसिद्धकथकत्वात् । प्रसिद्धातिरिक्तकर्म- कल्पनायाम् । प्रमाणेति । 'सर्वे ब्राह्मणा भोजयितव्या' इति दृष्टान्तसहितशब्दप्रमाणवद्विलक्षणप्र- माणाभावात् । ननु सर्वकर्मणां सर्वकामानां प्रारब्धसञ्चितादिरूपत्वात्पशुपुत्रादिविषयत्वाच्च कथमविरोध ईश्वरपरत्वेनेत्यत आरोपेणेत्याह यथाकथञ्चिदिति । उपासनायां बोध्यम् । एतेन पादायों जीवस्य मुक्तियोग्यता सापि स्मारिता । एवकारो 'वाचं धेनुमुपासीते'त्यादौ तथा दर्शनात् । एवेति । ननु सर्वकर्मत्वादीन् छान्दसाननूद्य । निषेधार्थं सर्वकर्मत्वादिवैशिष्ट्यबोधनमुचितम् । प्रक्षालनपङ्कन्यायेन प्रतिपादनवैयर्थ्यापातात् । तथेति । वैधर्म्य इति । दृष्टान्ते मुख्यत्वपदम्, दार्ष्टान्तिकेऽमुख्यत्वपदमिति साधर्म्ये दृष्टान्तवैषम्यमाशङ्क्योक्तम् । उक्तार्थसिद्धमाहुः तथाचेति । 'अथ ह वाचक्नव्युवाचे'त्यारम्भकेऽ-

[Footer: १. समाधि । २. नानुवाद इति मूले पाठः । 1651]