अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1764, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १०७ अथवा । कारण एव रूपमरूपं चावच्छेदभेदेन अचिन्त्यसामर्थ्याद्वा । अन्यथा असतः सज्जननप्रसङ्ग इति अपिना संगृहीत इति । एतदुभयमपि न । कुतः । सर्वत्र हि । सर्वत्रैतादृशं रूपं भगवत उपदि- श्यते । हि युक्तोऽयमर्थः । भगवत्स्वरूपप्रतिपादकानि हि एतानि वाक्यानि, भाष्यप्रकाशः। केचित् ब्रह्मवादैकदेशिन ऋषयो वक्ष्यमाणरीत्योभयलिङ्गाविरोधं व्युत्पादयन्ति । 'यतो वा इमानि' 'सदेव सौम्ये'त्यादिभिर्भगवत उपादानत्वस्य सिद्धत्वात् सर्वत्रोपादेये कार्ये भगवानस्तीत्य- विवादम् । ततश्च यथा पार्थिवकारणभूता पृथिवी घटपटस्तम्भादिषु कार्येषु निमित्तवशात् तत्तद्रूपतां धत्ते, तथा भगवानप्यस्थूलादिषु द्रव्येषु, रसादिषु च गुणेषु, तत्तद्रूपतां धत्ते इत्येवं स्थानधर्मरूपं तत्तल्लिङ्गं परस्मिन् भासत इति परस्योभयलिङ्गत्वमुपपद्यत इत्येकं मतम् । अथवेत्यादिनोक्तं द्वितीयं मतम् । अवच्छेदभेदेनेति । अवच्छिद्यत इत्यवच्छेदः प्रदेशस्तेन । तत्र युक्तिस्त्वचिन्त्यसामर्थ्यम् । भाष्ये वाशब्दो वाक्यालङ्कारे । पूर्वोक्तरीत्यान्यथा- ङ्गीकारे तु स्थानस्य कार्यत्वात् स स धर्मस्तत्र तत्र स्थाने कुत आगत इति विमर्शे कारणस्य तद्धर्मवत्त्वाभावेन कार्ये तस्यासतः सत्ता स्यात् । तस्मात् तद्विहायैवं तत्तदवच्छेदभेदेनाचिन्त्य- सामर्थ्यादुभयलिङ्गत्वमुपपादनीयमिति । तदिदमपिना संगृहीतम् । एवं स्थानतोपीतिपदद्वयेन तदुभयमनुवदन्निषेधति नेत्यनेन । तत्र हेतुः सर्वत्रेति । तं व्याकुर्वन्ति सर्वत्रेत्यादि । ननु तत्तद्वाक्येषु तत्तल्लिङ्गताया एव श्रवणात् सर्वत्रैतादृशरूपोपदेशस्य चाश्रवणात् कथं युक्तत्वमित्याकाङ्क्षायां तद्व्याकुर्वन्ति भगवदित्यादि । एतानीति । सर्वकर्म- त्वास्थूलत्वादिवोधकानि । तथाहि । सर्वकर्मत्वादिवाक्यं तावत् , 'अथ खलु क्रतुमयः पुरुष' इति क्रतूपदेशं प्रकृत्य शाण्डिल्यविद्यायाम्, 'एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्य संभवितासी'त्युपसंहारे रश्मिः। एवं पूर्वपक्षे सिद्धान्तसूत्रं व्याकुर्वन्ति अस्तीति । कार्यरूपतया तदाधेयतया च । तेन 'तद्रूपं तत्र च स्थितं साकारव्यापकत्वाचे'त्युक्तेषु द्वयं द्रव्ये, साकारव्यापकं तु गुणे द्रव्येपीत्याशयेनाहुः अस्थूलादिष्विति । अस्थूलादिषु स्थानेषु रसादिषु च स्थानेषु । अथवेत्यादिनेति । पूर्वत्र कारणरूपस्य ब्रह्मणः कार्यस्थानत उभयलिङ्गमूक्तम् । अधुना कारणस्थानत उभयलिङ्गमाहुः अथवेति । एवकारेण कार्यरूपव्यवच्छेदः । .रूपं मूर्तं अरूपममूर्तम् । मूर्तामूर्तब्राह्मणेन । अन्यथेति भाष्यं विवृण्वन्ति स्म अन्यथेति । अस्मात्प्रकारादन्यप्रकारस्य । अन्यथेत्यस्मात्षष्ठ्या लुक् । तद्विहायेति । पूर्वपक्षं विहाय । अत्रेति । पृथिवीदेशेन रूपं वायुदेशेनारूपमिति देशभेदरूपावच्छेदभेदेन । पदद्वयेनेति । नन्वेकमपि न पदं 'अव्ययादाप्सुप' इति 'सुब्लुकि लुकालुप्तत्वे नलुमताङ्गस्ये'त्यस्य प्राप्त्या कथं 'सुप्तिङन्त'- मित्यनेन पदत्वमिति चेत् । न । शब्दलक्षकलक्ष्यान्तेर्जोधर्मत्वात् । तदुभयमिति । पक्षद्वयम् । एतेनैत- दुभयमिति भाष्यं विवृतम् । तत्तल्लिङ्गताया इति । 'सर्वकर्मा सर्वकाम' इत्यादिषु सर्वकर्मत्वादिनो तत्तज्जीवादिषु तत्तच्छन्दस्य सामर्थ्यं शक्त्यादि तस्य समूहस्यैव श्रावणात् । एवकारः शक्यार्थव्यवच्छे- दकः । अर्थपदशक्त्यादिज्ञानानन्तरं गुरूपदेशादिसहकारणसाध्यत्वात् । तत्तल्लिङ्गसमूहस्तत्तल्लिङ्गता तस्या इत्यर्थः। शब्दरूपमङ्गीकृत्य यत्किञ्चिच्छब्दं वाङ्गीकृत्याह सर्वत्रेति । युक्तत्वमिति । भगवदुपदेशरू- 1643