अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1763, कुल 2600 में से
संदर्भ में पढ़ें१०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ४ सू० ११. तत्र क्वचिज्जडजीवधर्मा भगवति बोध्यन्ते, क्वचिन्निषिध्यन्ते । यथा 'सर्व- कर्मा सर्वकामः' । नचैते जीवधर्मा एव न भवन्तीति वाच्यम् । उच्चावचकर्मणां कामानां च जीवगतत्वप्रतीतेः । 'नेतरोऽनुपपत्ते'रिति सर्वत्र बैलक्षण्यस्योक्तत्वात् । कार्यवि- शेषधर्माणां कारणे वक्तुमशक्यत्वात् । नच कारणधर्मा एव सर्वे कार्ये अंशो वा प्रतीयन्त इति वाच्यम् । 'अस्थूलमनण्वि'त्यादिवाक्यैः प्रापञ्चिकसर्वधर्मवैलक्ष- ण्यस्योक्तत्वात् । अत्र केचिदविरोधमेवमाहुः । सर्वत्र कारणत्वात् भगवानस्ति । ततश्च अस्थूले अस्थूलः, अनणावणुः, उच्चावचकर्तृषूच्चावचकर्ता, उच्चावचकामे उच्चावचकामः, पृथिव्यां सर्वगन्धः, जलादावगन्धः । एवं रसादिषु । एवं स्थानतः परस्योभय- लिङ्गत्वमुपपद्यते । भाष्यप्रकाशः । एवं विषयं विभज्य प्रस्तुताधिकरणविषयादिकमाहुः तत्र क्वचिदित्यादि, निषिध्यन्त इति । अस्थूलादिवाक्येषु निषिध्यन्ते । तथाच विरुद्धवाक्यद्वयदर्शनात् संशयः । किमुभयलिङ्गं ब्रह्म, अन्यतरलिङ्गं वेति । पूर्वपक्षमाहुः नचेत्यादि । प्रकरणावरुद्धत्वाच्चेति न वाच्यमित्यर्थः । तत्र हेतुः उच्चावचे- त्यादि । प्रतीतेरिति । प्रत्यक्षादेव प्रतीयमानत्वात् । नच श्रुत्यपेक्षया लौकिकप्रमाणस्य निर्बलत्वात् तस्य भ्रान्तत्वमिति वाच्यम् । 'नेतरोऽनुपपत्ते'रित्यादिसूत्रेषु सर्वत्र जीववैलक्षण्यस्योक्तत्वात् सर्वकामत्वादीनां ब्रह्मधर्मत्वे जीवसारूप्यापत्त्या शास्त्रस्यापि विरोधात् । कार्यकारणव्यवहार- मङ्गापच्या कार्यविशेषधर्माणां कारणे वक्तुमशक्यत्वात् । शेषं स्फुटम् । तथाच धर्मविधेरुपासनार्थ- तयोपचारादपि नेतुं शक्यत्वाभिषेद्यस्य तु प्रयोजनान्तरशून्यतया स्वरूपबोधनमात्रफलकत्वेनान्यथा नेतुमशक्यत्त्वान्निर्विशेषलिङ्गमेव प्रतिपत्तव्यमिति प्राप्तम् । तत्र सूत्रं व्याकुर्वन्ति अत्रेत्यादि । रश्मिः । कामावो वाक्यानां स्यादित्यर्थः । प्रकरणेति । ब्रह्मप्रकरणावरुद्धत्वात् । एवेति । अनुमानयोग्य- वच्छेदकः । न चेतिभाष्यं विवरीतुमाहुः नच श्रुतीति । तस्येति । अंशांशिनोरभेदे सति वैलक्षण्यस्य अप्रप्तेयुः । विवृण्वन्ति स्म नेतरेति । आनन्दमयाधिकरणे व्याकृतानि । सर्वत्रेति । जीवे जडे च । शास्त्रस्येति । 'नेतरोऽनुपपत्ते'रित्यादेः । कार्येतिभाष्यं विवृण्वन्ति स्म कार्येति । कार्यविशेषेति । सर्वकर्मसर्वकामादीनाम् । पूर्णत्वेन तत्राभावात्, नतु कार्यत्वादीनाम् । 'अजायमानो बहुधा विजायते' इति प्राकटरूपामुल्यत्तिमादायांशतस्तेषां सत्त्वात् । स्फुटमिति । एवेति । नैयायिकप्रवादादेवकारः । अंश इति । 'यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे जीवाः सर्व आत्मान' इति पृथगुपदेशात् । प्रापञ्चिकेति । नञः पर्युदासार्थत्वात्तथा । एवं शेषं स्फुटमित्यर्थः । पर्युदासः सदृग्राही । अस्य पूर्वपक्षत्वं स्फुटयन्ति स्म तथाच धर्मेति । धर्मविधेरिति । 'सर्वकर्मा सर्वकाम' इति भाष्योक्तोभयक्रोडीकारेण यो धर्मविधिः 'ज्योतिष्टोमेन स्वर्गकामो यजेते'ति धर्मैकदेशधर्मविधेः । 'धर्मं चरे'ति विधेर्वा । सर्वकर्मत्वेन सर्वकामत्वेन ब्रह्मोपासनार्थतया सामान्यविशेषभावसम्बन्धरूपोपचा- राच्छक्यसम्बन्धात् । शक्यसम्बन्धो लक्षणा । एवेति । आरोपापवादसङ्गतिसत्त्वादेवकारः । तत्रेति । 1642